RigVeda 1.164.28

From HinduismPedia
Jump to navigation Jump to search
←Previous
RigVeda 1.164.28
Next→

न्यासः : ऋषि छन्दः देवता

देवता ::    विश्वेदेवाः || ऋषिः ::    दीर्घतमा औचथ्यः || छन्दः ::    त्रिष्टुप् || स्वरः ::    धैवतः

वेद मन्त्र स्वर सहित

   गौर॑मीमे॒दनु॑ व॒त्सं मि॒षन्तं॑ मू॒र्धानं॒ हिङ्ङ॑कृणो॒न्मात॒वा उ॑ ।
   सृक्वा॑णं घ॒र्मम॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥1.164.28॥

पद पाठः स्वर सहित

   गौः । अ॒मी॒मे॒त् । अनु॑ । व॒त्सम् । मि॒षन्त॑म् । मू॒र्धान॑म् । हिङ् । अ॒कृ॒णो॒त् । मात॒वै । ऊँ॒ इति॑ । सृक्वा॑णम् । घ॒र्मम् । अ॒भि । वा॒व॒शा॒ना । मिमा॑ति । मा॒युम् । पय॑ते । पयः॑ऽभिः ॥

वेद मन्त्र स्वर रहित

   गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिङ्ङकृणोन्मातवा उ ।
   सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥1.164.28॥

पद पाठः स्वर रहित

   गौः । अमीमेत् । अनु । वत्सम् । मिषन्तम् । मूर्धानम् । हिङ् । अकृणोत् । मातवै । ऊँ इति । सृक्वाणम् । घर्मम् । अभि । वावशाना । मिमाति । मायुम् । पयते । पयःऽभिः ॥

संस्कृतम् (महर्षिदयानन्दः)

मन्त्रविषयः :

   पुनस्तमेव विषयमाह ।

अन्वयः

   हे मनुष्या यथा वावशाना गौर्मिषन्तं वत्सं मूर्द्धानमनु हिङ्ङकृणोत् मातवा उ वत्सस्य दुःखममीमेत् तथा पयोभिस्सह वर्त्तमाना गौः पृथिवी घर्मं सृक्वाणं दिनं मायुं च कुर्वती पयते सुखमभिमिमाति ॥ २८ ॥

पदार्थः

   (गौः) पृथिवी धेनुर्वा (अमीमेत्) मिनाति (अनु) (वत्सम्) (मिषन्तम्) शब्दयन्तम् (मूर्द्धानम्) मस्तकम् (हिङ्) हिंकारम् (अकृणोत्) करोति (मातवै) मानाय (उ) वितर्के (सृक्वाणम्) सृजन्तं दिनम् (घर्मम्) आतपम् (अभि) (वावशाना) भृशं कामयमाना (मिमाति) मिमीते । अत्र व्यत्ययेन परस्मैपदम् । (मायुम्) वाणीम् । मायुरिति वाङ्ना० । निघं० १ । ११ । (पयते) गच्छति (पयोभिः) जलैस्सह ॥ २८ ॥

भावार्थः

   अत्र वाचकलुप्तोपमालङ्कारः । यथा गा अनुवत्सा वत्साननु गावो गच्छन्ति तथा पृथिवीरनुपदार्थाः पदार्थाननु पृथिव्यो गच्छन्ति ॥ २८ ॥

हिंदी (महर्षिदयानन्दः)

मन्त्रविषयः :

   फिर उसी विषय को अगले मन्त्र में कहा है ।

पदार्थः

   हे मनुष्यो ! जैसे (वावशाना) निरन्तर कामना करती हुई (गौः) गौ (मिषन्तम्) मिमयाते हुए (वत्सम्) बछड़े को तथा (मूर्द्धानम्) मूड़ को (अनु, हिङ्, अकृणोत्) लखकर हिंकारती अर्थात् मूंड़ चाटती हुई हिंकारती है और (मातवै) मान करते (उ) ही के लिये उस बछड़े के दुःख को (अमीमेत्) नष्ट करती वैसे (पयोभिः) जलों के साथ वर्त्तमान पृथिवी (घर्मम्) आतप को (सृक्वाणम्) रचते हुए दिन को और (मायुम्) वाणी को प्रसिद्ध करती हुई (पयते) अपने भचक्र में जाती है और सुख का (अभि, मिमाति) सब ओर से मान करती अर्थात् तौल करती है ॥ २८ ॥

भावार्थः

   इस मन्त्र में वाचकलुप्तोपमालङ्कार है । जैसे गौओं के पीछे बछड़े और बछड़ों के पीछे गौएँ जातीं वैसे पृथिवियों के पीछे पदार्थ और पदार्थों के पीछे पृथिवी जाती है ॥ २८ ॥

Relevant Scriptures: Atharva Veda . Rig Veda . Sama Veda . Yajur Veda . Gita