स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ४९

From HinduismPedia
Jump to navigation Jump to search

Template:स्कन्दपुराणम्/माहेश्वरखण्डः/कौमारिकाखण्डः

।। अर्जुन उवाच ।। ।।
अत्यद्भुतानि तीर्थानि लिंगानि च महामुने ।।
श्रुत्वा तव मुखांभोजाद्भृशं मे हृष्यते मनः ।। १ ।।
महीनगरकस्यापि स्थापितस्य त्वया मुने ।।
यानि तीर्थानि मुख्यानि तानि वर्णय मे प्रभो ।। २ ।।
।। नारद उवाच ।। ।।
श्रीमन्महीनगरके यानि तीर्थानि फाल्गुन ।।
तानि वक्ष्यामि यत्रास्ते जया दित्यो रविः प्रभुः ।। ३ ।।
जयादित्यस्य यो नाम कीर्तयेदिह मानवः ।।
सर्वरोगविनिर्मुक्तो लभेत्सोऽपि हृदीप्सितम् ।। ४ ।।
यस्य संदर्शनादेव कल्याणैरपि पूर्यते ।।
मुच्यते चाप्यकल्याणैः श्रद्धावान्पार्थ मानवः ।। ५ ।।
तस्य देवस्य चोत्पत्तिं शृणु पार्थ वदामि ते ।।
शृण्वन्वा कीर्तयन्वापि प्रसादं भास्कराल्लभेत् ।। ६ ।।
अहं संस्थाप्य संस्थानमेतत्कालेन केनचित् ।।
प्रयातो भास्करं लोकं दर्शनार्थी यदृच्छया ।। ७ ।।
स मां प्रणतमासीनमभ्यर्च्यार्घेण भास्करः ।।
प्रहसन्निव प्राहेदं देवो मधुरया गिरा ।। ८ ।।
कुत आगम्यते विप्र क्व च वा प्रतिगम्यते ।।
क्व चायं नारदमुने कालस्ते विहृतोऽभवत् ।। ९ ।।
।। नारद उवाच ।। ।।
एवमुक्तो भास्करेण तं तदा प्राब्रवं वचः ।।
भारते विहृतः खण्डे महीनगरकादपि ।।
दर्शनार्थं तव विभो समायातोऽस्मि भास्कर ।। 1.2.49.१० ।।
।। रविरुवाच ।। ।।
यत्त्वया स्थापितं स्थानं तत्र ये संति ब्राह्मणाः ।।
तेषां गुणान्मम ब्रूहि किंगुणा ननु ते द्विजाः ।। ११ ।।
।। नारद उवाच ।। ।।
एवं पृष्टो भगवता पुनरेवाब्रवं वचः ।। १२ ।।
यदि तान्भोः प्रशंसामि स्वीयान्स्तौतीति वाच्यता ।।
निंदाम्यनर्हान्कस्माद्वा कष्टमेवोभयत्र च ।। १३ ।।
अथवा पारमाहात्म्ये सति तेषां महात्मनाम् ।।
अल्पे कृते वर्णने स्याद्दोष एव महान्मम ।। १४ ।।
मदर्चितद्विजेंद्राणां यदि स्याच्छ्रवणेप्सुता ।।
ततः स्वयं विलोक्यास्ते गत्वेदं मे मतं रवे ।। १५ ।।
इति श्रुत्वा मम वचो रविरासीत्सुविस्मितः ।।
स्वयं द्रक्ष्यामि चोवाच पुनःपुनरहर्पतिः ।। १६ ।।
सोऽथ विप्रतनुं कृत्वा मां विसर्ज्यैव भास्करः ।।
प्रतपन्दिवि योगाच्च प्रयातोर्णवरोधसि ।। १७ ।।
जटां त्रिषवणस्नानपिंगलां धारयन्नथ ।।
वृद्धद्विजो महातेजा ददृशे ब्राह्मणैर्मम ।। १८ ।।
ततो हारीतप्रमुखाः प्रहर्षोत्फुल्ललोचनाः ।।
उत्थाय ब्रह्मशालायास्ते द्विजा द्विजमाद्रवन् ।।१९।।
नमस्कृत्य द्विजाग्र्यं ते प्रहर्षादिदमब्रुवन् ।।1.2.49.२०।।
अद्य नो दिवसः पुण्यः स्थानमद्योत्तमं त्विदम् ।।
यत्त्वया विप्रप्रवर स्वयमागमनं कृतम् ।। २१ ।।
धन्यस्य हि गृहस्थस्य कृपयैव द्विजोत्तमाः ।।
आतिथ्यवेषेणायांति पावनार्थं न संशयः ।।२२।।
तत्त्वं गेहानि चास्माकं पादचंक्रमणेन च ।।
दर्शनाद्भोजनात्स्थानादस्माभिः सह पावय ।।२३।।
।। अतिथिरुवाच ।। ।।
भोजनं द्विविधं विप्रा प्राकृतं परमं तथा ।।
तदहं सम्यगिच्छामि दत्तं परमभोजनम् ।।२४ ।।
इत्येतदतिथेः श्रुत्वा हारीतः पुत्रमब्रवीत् ।।
अष्टवर्षं तु कमठं वेत्सि पुत्र द्विजोदितम् ।।२५।।
।।कमठ उवात्र।। ।।
तात प्रणम्य त्वां वक्ष्ये तादृक्परमभोजनम् ।।
द्विजं च तर्पयिष्यामि दत्त्वा परमभोजनम् ।। ।।२६।।
सुतेन किल जातेन जायते चानृणः पिता।।
सत्यं करिष्ये तद्वाक्यं संतर्प्यातिथिमुत्तमम्।।२७।।
भोजनं द्विप्रकारं च प्रविभागस्तयोरयम् ।।
प्राकृतं प्रोच्यते त्वेवमन्यत्परमभोजनम् ।। २८ ।।
तत्र यत्प्राकृतं नाम प्रकृतिप्रमुखस्य तत्।।
चतुर्विंशतितत्त्वानां गणस्योक्तं हि तर्पणम् ।। २९ ।।
षड्रसं भोजनं तच्च पंचभेदं वदंति च ।।
येन भुक्तेन तृप्तं स्यात्क्षेत्रं यद्देहलक्षणम् ।। 1.2.49.३० ।।
यथापरं परंनाम प्रोक्तं परमभोजनम् ।।
परमः प्रोच्यते चात्मा तस्य तद्भोजनं भवेत् ।। ३१ ।।
ततो नानाप्रकारस्य धर्मस्य श्रवणं हि यत् ।।
तदन्नं प्रोच्यते भोक्ता क्षेत्रज्ञः श्रवणौ मुखम् ।। ३२ ।।
तद्दास्यामि द्विजाग्र्याय पृच्छ विप्र यदिच्छसि ।।
शक्तितस्तर्पयिष्यामि त्वामहं विप्रसंसदि ।। ३३ ।।
।। नारद उवाच ।। ।।
कमठस्यैतदाकर्ण्य सोऽतिथिर्वचनं महत् ।।
मनसैव प्रशस्यामुं प्रश्नमेनमथाकरोत् ।। ३४ ।।
कथं संजायते जंतुः कथं चापि प्रलीयते ।।
भस्मतामथ संप्राप्य क्व चायं प्रति पद्यते ।। ३५ ।।
।। कमठ उवाच ।। ।।
गुरवे प्राङ्नमस्कृत्य धर्माय तदनंतरम् ।।
छंदोगीतममुं प्रश्नं शक्त्या वक्ष्यामि ते द्विज ।। ३६ ।।
जनने त्रिविधं कर्म हेतुर्जंतोर्भवेत्किल ।।
पुण्यं पापं च मिश्रं च सत्त्वराजसतामसम् ।। ३७ ।।
तत्र यः सात्त्विको नाम स स्वर्गं प्रतिपद्यते ।।
स्वर्गात्कालपरिभ्रष्टो धनी धर्मी सुखी भवेत्।। ३८ ।।
तथा यस्तामसो नाम नरकं प्रतिपद्यते ।।
भुक्त्वा बह्वीर्यातनाश्च स्थावरत्वं प्रपद्यते ।। ३९ ।।
महतां दर्शनस्पर्शैरुपभोगसहासनैः ।।
महता कालयोगेन संसरन्मानवो भवेत् ।। 1.2.49.४० ।।
सोऽपि दुःखदरिद्राद्यैर्वेष्टितो विकलेंद्रियः ।।
प्रत्यक्षः सर्व लोकानां पापस्यैतद्धि लक्षणम्।। ४१ ।।
अथ यो मिश्रकर्मा स्यात्तिर्यक्त्वं प्रतिपद्यते ।।
महतामेव संसर्गात्संसरन्मानवो भवेत् ।। ४२ ।।
यस्य पुण्यं पृथुतरं पापमल्पं हि जायते ।।
स पूर्वं दुःखितो भूत्वा पश्चात्सौख्यान्वितो भवेत् ।। ४३ ।।
पापं पृथुतरं यस्य पुण्यमल्पतरं भवेत् ।।
पूर्वं सुखी ततो दुःखी मिश्रस्यैतद्धि लक्षणम् ।। ४४ ।।
तत्र मानुषसंभूतिं शृणु यादृगसौ भवेत् ।।
पुरुषस्य स्त्रियाश्चैव शुक्रशोणितसंगमे ।। ४५ ।।
सर्वदोषविनिर्मुक्तो जीवः संसरते स्फुटम्।।
गुणान्वितमनोबुद्धिशुभाशुभसमन्वितः ।। ४६ ।।
जीवः प्रविष्टो गर्भं तु कलले प्रतितिष्ठति ।।
मूढश्च कलले तत्र मासमात्रं च तिष्ठति ।। ४७ ।।
द्वितीयं तु तथा मासं घनीभूतः स तिष्ठति ।।
तस्यावयवनिर्माणं तृतीये मासि जायते ।। ४८ ।।
अस्थीनि च तथा मासि जायंते च चतुर्थके ।।
त्वग्जन्म पंचमे मासि पष्ठे रोम्णां समुद्भवः ।। ४९ ।।
सप्तमे च तथा मासि प्रबोधश्चास्य जायते ।।
मातुराहारपीतं च सप्तमे मास्युपाश्नुते ।। 1.2.49.५० ।।
अष्टमे नवमे मासि भृशमुद्विजते ततः ।।
जरायुणा वेष्टितांगो मुखे बद्धकरांगुलिः ।।५१।।
मध्ये क्लीबस्तु वामे स्त्री दक्षिणे पुरुषस्तथा ।।
तिष्ठत्युदरभागे च पृष्ठेरग्निमुखः किल ।। ५२।।
यस्यां तिष्ठत्यसौ योनौ तां च वेत्ति न संशयः ।।
सर्वं स्मरति वृत्तांतं बहूनां जन्मनामपि ।। ५३ ।।
अंधे तमसि किं दृश्यो गंधान्मोहं दृढं लभेत् ।।
शीते मात्रा जले पीते शीतमुष्णं तथोष्णके ।। ५४ ।।
व्यायामे लभते मातुः क्लेशं व्याधेश्च वेदनाम् ।।
अलक्ष्याः पितृमातृभ्यां जायंते व्याधयः पराः ।। ५५ ।।
सौकुमार्याद्रुजं तीव्रां जनयंति च तस्य ते ।।
स्वल्पमप्यथ तं कालं वेत्ति वर्षशतोपमम् ।। ५६ ।।
संतप्यते भृशं गर्भे कर्मभिश्च पुरातनैः ।।
मनोरथांश्च कुरुते सुकृतार्थं पुनःपुनः ।। ५७।।
जन्म चेदहमाप्स्यामि मानुष्ये जीवितं तथा ।।
ततस्तत्प्रकरिष्यामि येन मोक्षो भवेत्स्फुटम्।।५८।।
एवं तु चिंतयानस्य सीमंतोन्नयनादनु।।
मासद्वयं तद्व्रजति पीडतस्त्रियुगाकृति ।। ५९ ।।
ततः स्वकाले संपूर्णे सूतिमारुतचालितः ।।
भवत्यवाङ्मुखो जंतुः पीडामनुभवन्पराम् ।। ।।1.2.49.६०।।
अधोमुखः संकटेन योनिद्वारेण निःसरेत्।।
पीडया पीडमानोऽपि चर्मोत्कर्तनतुल्यया ।। ६१ ।।
करपत्रसमस्पर्शं करसंस्पर्शनादिकम् ।।
असौ जातो विजानाति मासमात्रं विमोहितः ।। ६२ ।।
प्राक्कर्मवशगस्यास्य गर्भज्ञानं च नश्यति ।।
ततः करोति कर्माणि श्वेतरक्तासितानि च ।। ६३ ।।
अस्थिपट्टतुलास्तंभस्नायुबंधेन यंत्रितम् ।।
रक्तमांसमृदालिप्तं विण्मूत्रद्रव्यभाजनम् ।। ६४ ।।
सप्तभित्तिसुसंबद्धं छन्नं रोम तृणैरपि ।।
वदनैकमहाद्वारं गवाक्षाष्टविभूषितम् ।। ६५ ।।
ओष्ठद्वयकपाटं च दंतार्गलविमुद्रितम् ।।
नाडीस्वेदप्रवाहं च कफपित्तपरिप्लुतम् ।। ।। ६६ ।।
जराशोकसमाविष्टं कालवक्त्रानलस्थितम् ।।
रागद्वेषादिभिर्ध्वस्तं षट्कौशिकसमुद्भवम् ।। ६७ ।।
एवं संजायते पुंसो देहगेहमिदं द्विज ।।
यस्मिन्वसति क्षेत्रज्ञो गृहस्थो बुद्धिगेहिनी ।। ६८ ।।
मोक्षं स्वर्गं च नरकमास्ते संसाधयन्नपि ।। ६९ ।। ।।
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे कमठसूर्यसंवादे जीवस्य देहोत्पत्तिवर्णनंनामैकोनपञ्चाशत्तमोऽध्यायः ।। ४९ ।।


Page is sourced from

sa.wikisource.org स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः ४९