विष्णुपुराणम्/द्वितीयांशः/अध्यायः ८

From HinduismPedia
Jump to navigation Jump to search

Template:श्रीविष्णुपुराणम्-द्वितीयांशः

श्रीपराशर उवाच
व्याख्यातमेतद्ब्रह्माण्डसंस्थानं तव सुव्रत
ततः प्रमाणसंस्थाने सूर्यादीनां शृणुष्व मे १
योजनानां सहस्राणि भास्करस्य रथो नव
ईषादण्डस्तथैवास्य द्विगुणो मुनिसत्तम २
सार्धकोटिस्तथा सप्त नियुतान्यधिकानि वै
योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ३
त्रिनाभिमति पञ्चारे षण्णेमिन्यक्षयात्मके
संवत्सरमये कृत्स्नं कालचक्रं प्रतिष्ठितम् ४
हयाश्च सप्तच्छन्दांसि तेषां नामानि मे शृणु
गायत्री च बृहत्युष्णिग्जगती त्रिष्टुभेव च
अनुष्टुप्पंक्तिरित्युक्ता छंदांसि हरयो रवेः ५
चत्वारिंशत्सहस्रणिद्वितीयोऽक्षो विवस्वतः
पञ्चान्यानि तु सार्धानि स्यन्दनस्य महामते ६
अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयो
ह्रस्वोक्षस्तद्युगार्द्धेन ध्रुवाधारो रथस्य वै
द्वितीयेक्षे तु तच्चक्रं संस्थितं मानसाचले ७
मानसोत्तरशैलस्य पूर्वतो वासवी पुरी
दक्षिणे तु यमस्यान्याप्रतीच्यां वरुणस्य च
उत्तरेण च सोमस्य तासां नामानि मे शृणु ८
वस्वौकसारा शक्रस्य याम्या संयमनी तथा
पुरी सुखाजलेशस्य सोमस्य च विभावरी ९
काष्ठां गतो दक्षिणतः क्षिप्तेषुरिव सर्पति
मैत्रेय भगवान्भानुर्ज्योतिषां चक्रसंयुतः १०
अहोरात्रव्यवस्थानकारणं भगवान्रविः
देवयानः परः पन्था योगिनां क्लेशसंक्षये ११
दिवसस्य रविर्मध्ये सर्वकालं व्यवस्थितः
सर्वद्वीपेषु मैत्रेय निशार्द्धस्य च सन्मुखः १२
उदयास्तमने चैव सर्वकालं तु सम्मुखे
विदिशासु त्वश्षोआ!सु तथा ब्रह्मन् दिशासु च १३
यैर्यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतः
तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः १४
नैवास्तमनमर्कस्य नोदयः सर्वदा सतः
उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः १५
शक्रादीनां पुरे तिष्ठन् स्पृशत्येष पुरत्रयम्
विकोणौ द्वौ विकोणस्थस्त्रीन् कोणान्द्वे पुरे तथा १६
उदितो वर्द्धमानाभिरामध्याह्नात्तपन्रविः
ततः परं ह्रसन्तीभिर्गोभिरस्तं नियच्छति १७
उदयास्तमनाभ्यां च स्मृते पूर्वापरे दिशौ
यावत्पुरस्तात्तपति तावत्पृष्ठे च पार्श्वयोः १८
ऋतेऽमरगिरेर्मेरोरुपरि ब्रह्मणः सभाम्
येये मरीचयोर्कस्य प्रयान्ति ब्रह्मणः सभाम्
तेते निरस्तास्तद्भासा प्रतीपमुपयान्ति वै १९
तस्माद्दिश्युत्तरस्यां वै दिवारात्रिः सदैव हि
सर्वेषां द्वीपवर्षाणां मेरुरुत्तरतो यतः २०
प्रभा विवस्वतो रात्रावस्तं गच्छति भास्करे
विशत्यग्निमतो रात्रौ वह्निर्दूरात्प्रकाशते २१
वह्नेः प्रभा तथा भानुर्दिनेष्वाविशति द्विज
अतीव वह्निसंयोगादतः सूर्यः प्रकाशते २२
तेजसी भास्कराग्नेये प्रकाशोष्णस्वरूपिणी
परस्परानुप्रवेशादाप्यायेते दिवानिशम् २३
दक्षिणोत्तरभूम्यर्द्धे समुत्तिष्ठति भास्करे
अहोरात्रं विशत्यम्भस्तमः प्राकाश्यशीलवत् २४
आताम्रा हि भवत्यापो दिवानक्तप्रवेशनात्
दिनं विशति चैवांभो भास्करेस्तमुपेयुषि
तस्माच्छुक्ला भवन्त्यापो नक्तमह्नः प्रवेशनात् २५
एवं पुष्करमध्येन यदा याति दिवाकरः
त्रिंशद्भागस्तु मेदिन्यास्तदा मौहूर्त्तिकी गतिः २६
कुलालचक्रपर्यन्ते भ्रमन्नेष दिवाकरः
करोत्यहस्तथा रात्रिं विमुञ्चन्मेदिनीं द्विजः २७
अयनस्योत्तरस्यादौ मकरं याति भास्करः
ततः कुम्भं च मीनं च राशो! राश्यंतरं द्विज २८
त्रिष्वेतेष्वथ भुक्तेषु ततो वैषुवतीं गतिम्
प्रयाति सविता कुर्वन्नहोरात्रं ततः समम् २९
ततो रात्रिः क्षयं याति वर्द्धतेऽनुदिनं दिनम् ३०
ततश्च मिथुनस्यान्ते परां काष्ठामुपागतः
राशिं कर्कटकं प्राप्य कुरुते दक्षिणायनम् ३१
कुलालचक्रपर्यंतो यथाशीघ्रं प्रवर्त्तते
दक्षिणप्रक्रमे सूर्यस्तथा शीघ्रं प्रवर्त्तते ३२
अतिवेगितया कालं वायुवेगबलाच्चरन्
तस्मात्प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति ३३
सूर्यो द्वादशभिः शैघ्र्यानमुहूर्त्ते दक्षिणायने
त्रयोदशार्द्धमृक्षाणामह्ना तु चरति द्विज
मुहूर्त्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ३४
कुलालचक्रमध्यस्थो यथा मन्दं प्रसर्पति
तथोदगयने सूर्यः सर्पते मन्दविक्रमः ३५
तस्माद्दीर्घेण कालेन भूमिमल्पां तु गच्छति
अष्टादशमुहूर्तं यदुत्तरायणपश्चिमम् ३६
अहर्भवति तच्चापि चरते मन्दविक्रमः ३७
त्रयोदशार्द्धमह्ना तु ऋक्षाणां चरते रविः
मुहूर्त्तैस्तावदृक्षाणि रात्रौ द्वादशभिश्चरन् ३८
अतो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथा
मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा ३९
कुलालचक्रनाभिस्तु यथा तत्रैव वर्तते
ध्रुवस्तथा हि मैत्रेय तत्रैव परिवर्तते ४०
उभयोः काष्ठयोर्मध्ये भ्रमतो मण्डलानि तु
दिवा नक्तं च सूर्यस्य मन्दा शीघ्रा च वै गतिः ४१
मन्दाह्नि यस्मिन्नयने शीघ्रा नक्तं तदा गतिः
शीघ्रा निशि यदा चास्य तदा मंदा दिवा गतिः ४२
एक प्रमाणमेवैष मार्गं याति दिवाकरः
अहोरात्रेण यो भुंक्ते समस्ता राशयो द्विज ४३
षडेव राशीन् यो भुंक्ते रात्रावन्यांश्च षड्दिवा ४४
राशिप्रमाणजनिता दीर्घह्रस्वात्मता दिने
तथा निशायां राशीनां प्रमाणैर्लघुदीर्घता ४५
दिनादेर्दिर्घह्रस्वत्वं तद्भोगेनैव जायते
उत्तरे प्रक्रमे शीघ्रा निशि मंदा गतिर्दिवा ४६
दक्षिणे त्वयने चैव विपरीतां विवस्वतः ४७
उषा रात्रिः समाख्याताव्युष्टिश्चाप्युच्यते दिनम्
प्रोच्यते च तथा संध्या उषाव्युष्ट्योर्यदन्तरम् ४८
संध्याकाले च संप्राप्ते रौद्रे परमदारुणे
मन्देहा राक्षसा घोराः सूर्यमिच्छिन्ति खादितुम् ४९
प्रजापतिकृतः शापस्तेषां मैत्रेय रक्षसाम्
अक्षयत्वं शरीराणां मरणं च दिने दिने ५०
ततः सूर्यस्य तैर्युद्धं भवत्यत्यन्तदारुणम्
ततो द्विजोत्तमास्तोयं संक्षिपन्ति महामुने ५१
ॐकारब्रह्मसंयुक्तं गायत्र्! या चाभिमन्त्रितम्
तेन दह्यन्ति ते पापा वज्रीभूतेन वारिणा ५२
अग्निहोत्रे हूयते या समन्त्रा प्रथमाहुतिः
सूर्योज्योतिः सहस्रांशु समा दीप्यति भास्करः ५३
ॐकारो भगवान्विष्णुस्त्रिधामा वचसां पतिः
तदुच्चारणतस्ते तु विनाशं यांति राक्षसाः ५४
वैष्णुवॐशः परः सूर्यो योन्तर्ज्योतिरसंप्लवम्
अभियायक ॐकारस्तस्य तत्प्रेरकं परम् ५५
तेन संप्रेरितं ज्योतिरॐकारेणाथ दीप्तिमत्
दहत्यश्षोरक्षांसि मन्देहाख्यान्यघानि वै ५६
तस्मान्नोल्लंघनं कार्यं संध्योपासनकर्मणः
स हन्ति सूर्यं सन्ध्याया नोपास्तिं कुरुते तु यः ५७
ततः प्रयाति भगवान्ब्राह्मणैरभिरक्षितः
वालखिल्यादिभिश्चैव जगतः पालनोद्यतः ५८
काष्ठा निमेषा दश पंच चैव त्रिंशच्च काष्ठा गणयेत्कलां च
त्रिंशत्कलश्चैव भवेन्मुहूर्तस्तैस्त्रिंशता रात्र्! यहनी समेते ५९
ह्रासवृद्धी त्वहर्भागैर्दिवसानां यथाक्रमम्
सन्ध्यामुहूर्त्तमात्रा वै ह्रासवृद्धौ समा स्मृता ६०
रेखाप्रभृत्यथादित्ये त्रिमुहूर्त्तगते रवौ
प्रातः स्मृतस्ततः कालो भागश्चाह्नः स पञ्चमः ६१
तस्मात्प्रातस्तनात्कालात्त्रिमुहूर्त्तस्तु सङ्गवः
मध्याह्नस्त्रिमुहूर्त्तस्तु तस्मात्कालात्तु सङ्गवात् ६२
तस्मान्माध्याह्निकात्कालादपराह्ण इति स्मृतः
त्रय एव मुहूर्त्तास्तु कालभागः स्मृतो बुधैः ६३
आपराह्णे व्यतीते तु कालः सायाह्न एव च
दशपञ्च मुहूर्तं वै मुहूर्तास्त्रय एव च ६४
दशपंच मुहूर्तं वै अहर्वैषुवतं स्मृतम् ६५
वर्द्धते ह्रसेत चैवाप्ययने दक्षिणोत्तरे
अहस्तु ग्रसते रात्रिं रात्रिर्ग्रसति वासरम् ६६
शरद्वसन्तयोर्मध्ये विषुवं तु विभाव्यते
तुलामेषगते भानौ समरात्रिदिनं तु तत् ६७
कर्कटावस्थिते भानौ दक्षिणायनमुच्यते
उत्तरायणमप्युक्तं मकरस्थे दिवाकरे ६८
त्रिंशन्मुहूर्तं कथितमहोरात्रं तु यन्मया
तानि पंचदश ब्रह्मन् पक्ष इत्यभिधीयते ६९
मासः पक्षद्वयेनोक्तो द्वौ मासौ चार्कजावृतुः
ऋतुत्रयं चाप्ययनं द्वेऽयने वर्षसंज्ञिते ७०
संवत्सरादयः पंच चतुर्मासविकल्पिताः
निश्चयः सर्वकालस्य युगमित्यभिधीयते ७१
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः
इद्वत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः
वत्सरः पंचमश्चात्र कालोयं युगसंज्ञितः ७२
यः श्वेतस्योत्तरः शैलः शृङ्गवानिति विश्रुतः
त्रीणि तस्य तु शृंगाणि मैरयं शृगवान्स्मृतः ७३
दक्षिणं चोत्तरं चैव मध्यं वैषुवतं तथा
शरद्वसंतयोर्मध्ये तद्भानुः प्रतिपद्यते
मेषादौ च तुलादौ च मैत्रेय विषुवं स्मृतम् ७४
तदा तुल्यमहोरात्रं करोति तिमिरापहः
दशपञ्च मुहूर्तं वै तदेतदुभयं स्मृतम् ७५
प्रथमे कृत्तिकाभागे यदा भास्वांस्तदा शशी
विशाखानां चतुर्थेंशो! मुने तिष्ठत्यसंशयम् ७६
विशाखानां यदा सूर्यश्चरत्यंशं तृतीयकम्
तदा चन्द्रं विजानीयात्कृत्तिकाशिरसि स्थितम् ७७
तदैव विषुवाख्योऽयं कालः पुण्योऽभिधीयते
तदा दानादि देयानि देवेभ्यः प्रयतात्मभिः ७८
ब्राह्मणेभ्यः पितृभ्यश्च मुखमेतत्तु दानजम्
दत्तदानस्तु विषुवे कृतकृत्योभिजायते ७९
अहोरात्रार्द्धमासा तु कलाः काष्ठाः क्षणास्तथा
पौर्णमासी तथा ज्ञेया अमावास्या तथैव च
सिनीवाली कुहूश्चैव एका चानुमतिस्तथा ८०
तपस्तपस्यौ मधुमाधवौ च शुक्रः शुचिश्चायनमुत्तरं स्यात्
नभोनभस्यौ च इषस्तथोर्जस्सहःसहस्याविति दक्षिणं तत् ८१
लोका लोकश्च यश्शैलः प्रागुक्तो भवतो मया
लोकपालास्तु चत्वारस्तत्र तिष्ठन्ति सुव्रताः ८२
सुधामा शङ्खपाच्चैव कर्दमस्यात्मजौ द्विज
हिरण्यरोमा चैवान्यश्चतुर्थः केकुमानपि ८३
निर्द्वन्द्वा निरभीमाना निस्तन्द्रा निष्परिग्रहाः
लोकपालाः स्थिता ह्येते लोकालोके चतुर्दिशम् ८४
उत्तरं पदगस्त्यस्य अजवीथ्याश्च दक्षिणम्
पितृयानः स वै पन्था वैश्वानरपथाद्बहिः ८५
तत्रासते महात्मान ऋषयो येऽग्निहोत्रिणः
भूतारम्भकृतं ब्रह्म शंसन्तो ऋत्विगुद्यताः
प्रारभन्ते तु ये लोकास्तेषां पन्थाः स दक्षिणः ८६
चलितं ते पुनर्ब्रह्म स्थापयन्ति युगेयुगे
सन्तत्या तपसा चैव मर्यादाभिः श्रुतेन च ८७
जायमानास्तु पूर्वे च पश्चिमानां गृहेषु वै
पश्चिमाश्चैव पूर्वेषां जायन्ते विधनेष्विह ८८
एवमावर्त्तमानास्ते तिष्ठन्ति नियतव्रताः
सवितुर्दक्षिणं मार्गं श्रिता ह्याचन्द्र तारकम् ८९
नागावीथ्युत्तरं यच्च सप्तर्षिभ्यश्च दक्षिणम्
उत्तरः सवितुः पंथा देवयानश्च स स्मृतः ९०
तत्र ते वासिनः सिद्धा विमला ब्रह्मचारिणः
सन्ततिं ते जुगुप्संति तस्मान्मृत्युर्जितश्च तैः ९१
अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम्
उदक्पन्थनमर्यम्णः स्थिता ह्याभूतसंप्लवम् ९२
ते संप्रयोगाल्लोभस्य मैथुनस्य च वर्जनात्
इच्छाद्वेषाप्रवृत्त्या च भूतारम्भविवर्जनात् ९३
पुनश्च कामासंयोगाच्छब्दादेर्दोषदर्शनात्
इत्येभिः कारणैः शुद्धास्तेमृतत्वं हि भेजिरे ९४
आभूतसंप्लवं स्थानममृतत्वं विभाव्यते
त्रैलोक्यस्थितिकालोयमपुनर्मार उच्यते ९५
ब्रह्महत्याश्वमेधाभ्यां पापपुण्यकृतो विधिः
आभूतसंप्लवान्तन्तु फलमुक्तं तयोर्द्विज ९६
यावन्मात्रे प्रदेशो! तु मैत्रेयावस्थितो ध्रुवः
क्षयमायाति तावत्तु भूमेराभूतसंप्लवात् ९७
ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः
एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भासुरम् ९८
निर्धूतदोषपङ्कानां यतीनां संयतात्मनाम्
स्थानं तत्परमं विप्र पुण्यपापरिक्षये ९९
अपुण्यपुण्योपरमे क्षीणाश्षोआ!प्तिहेतवः
यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् १००
धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाक्षिणः
तत्सार्ष्ट्योत्पन्नयोगर्धिस्तद्विष्णोः परमं पदम् १०१
यत्रोतमेतत्प्रोतं च यद्भूतं सचराचरम्
भाव्यं य विश्वं मैत्रेय तद्विष्णोः परमं पदम् १०२
दिवीव चक्षुराततं योगिनां तन्मयात्मनाम्
विवेकज्ञानदृष्टं च तद्विष्णोः परमं पदम् १०३
यस्मिन्प्रतिष्ठितो भास्वान्मेढीभूतः स्वयं ध्रुवः
ध्रुवे च सर्वज्योतींषि ज्योतिष्वम्भोमुचो द्विज १०४
मेघेषु संगता वृष्टिर्वृष्टेः सृष्टेश्च पोषणम्
आप्यायनं च सर्वेषां देवादीनां महामुने १०५
ततश्चाज्याहुतिद्वारा पोषितास्ते हविर्भुजः
वृष्टेः कारणतां यांति भूतानां स्थितये पुनः १०६
एवमेतत्पदं विष्णोस्तृतीयममलात्मकम्
आधारभूतं लोकानां त्रयाणां वृष्टिकारणम् १०७
ततः प्रभवति ब्रह्मन्सर्वपापहरा सरित्
गंगा देवांगनांगानामनुलेपनपिञ्जरा १०८
वामपादाम्बुजांगुष्ठनखस्रोतोविनिर्गताम्
विष्णोर्बिभर्त्ति यां भक्त्या शिरसाहर्निशं ध्रुवः १०९
ततः सप्तर्षयो यस्याः प्राणायामपरायणाः
तिष्ठन्ति वीचिमालाभिरुह्यमानजटाजले ११०
वार्योघैः संततैर्यस्याः प्लावितं शशिमण्डलम्
भूयोधिकतरां कांतिं वहत्येतदुह क्षये १११
मेरुपृष्टे पतत्युच्चैर्निष्क्रांता शशिमण्डलात्
जगतः पावनार्थाय प्रयाति च चतुर्दिशम् ११२
सीता चालकनन्दा च चक्षुर्भद्रा च संस्थिता
एकैव या चतुर्भेदा दिग्भेदगतिलक्षणा ११३
भेदं चालकनन्दाख्यं यस्याः शर्वोपि दक्षिणाम्
दधार शिरसा प्रीत्या वर्षाणामधिकं शतम् ११४
शम्भोर्जटाकलापाच्च विनिष्क्रान्तास्थिशर्कराः
प्लावयित्वा दिवं निन्ये या पापान्सगरात्मजान् ११५
स्नातस्य सलिले यस्याः सद्यः पापं प्रणश्यति
अपूर्वपुण्यप्राप्तिश्च सद्यो मैत्रेय जायते ११६
दत्ताः पितृभ्यो यत्रापस्तनयैः श्रद्धयान्वितैः
समाशतं प्रयच्छंति तृप्तिं मैत्रेय दुर्लभाम् ११७
यस्यामिष्ट्वा महायज्ञैर्यज्ञेशं पुरुषोत्तमम्
द्विज भूपाः परां सिद्धिमवापुर्दिवि चेह च ११८
स्नानाद्विधूतपापाश्च यज्जलैर्यतयस्तथा
केशवासक्तमनसः प्राप्ता निर्वाणमुत्तमम् ११९
श्रुताऽभिलषिता दृष्टा स्पृष्टा पीताऽवगाहिता
या पावयति भूतानि कीर्तिता च दिनेदिने १२०
गंगागंगेति यैर्नाम योजनानां शतष्वपि
स्थितैरुच्चारितं हन्ति पापं जन्मत्रयार्जितम् १२१
यतः सा पावनायालं त्रयाणां जगतामपि
समुद्भूता परं तत्तु तृतीयं भगवत्पदम् १२२
इति श्रीविष्णुमहापुराणे द्वितीयेंशो!ऽष्टमोऽध्यायः ८

वर्गः:श्रीविष्णुपुराणम्-द्वितीयांशः

Page is sourced from

sa.wikisource.org विष्णुपुराणम्/द्वितीयांशः/अध्यायः ८