विष्णुपुराणम्/द्वितीयांशः/अध्यायः १२

From HinduismPedia
Jump to navigation Jump to search

Template:श्रीविष्णुपुराणम्-द्वितीयांशः

रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः
वामदक्षिणतो युक्ता दश तेन चरत्यसौ १
वीथ्याश्रयाणि ऋक्षाणि ध्रुवाधारेण वेगिना
ह्रासवृद्धिक्रमस्तस्य रश्मीनां सवितुर्यथा २
अर्कस्येव हि तस्याश्वाः सकृद्युक्ता वहन्ति ते
कल्पमेकं मुनिश्रेष्ठ वारीगर्भसमुद्भवाः ३
क्षीणं पीतं सुरैः सोममाप्याययति दीप्तिमान्
मैत्रेयैककलं सन्तं रश्मिनैकेन भास्करः ४
क्रमेण येन पीतोऽसौ देवैस्तेन निशाकरम्
आप्याययत्यनुदिनं भास्करो वारितस्करः ५
संभृतं चार्धमासेन तत्सोमस्थं सुधामृतम्
पिबन्ति देवा मैत्रेय सुधाहारा यतोऽमराः ६
त्रयास्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च
त्रयस्त्रिंशत्तथा देवाः पिबन्ति क्षणदाकरम् ७
कलाद्वयावशिष्टस्तु प्रविष्टः सूर्यमण्डलम्
अमाख्यारश्मौ वसति अमावास्या ततः स्मृता ८
अप्सु तस्मिन्नहोरात्रे पूर्वं विशति चंद्रमाः
ततो वीरुत्सु वसति प्रयात्यर्कं ततः क्रमात् ९
छिनत्ति वीरुधो यस्तु वीरुत्संस्थे निशाकरे
पत्रं वा पातयत्येकं ब्रह्महत्यां स विन्दति १०
सोमं पञ्चदशे भागे किंचिच्छिष्टे कलात्मके
अपराह्णे पितृगणा जघन्यं पर्युपासते ११
पिबन्ति द्विकलाकारं शिष्टा तस्य कला तु या
सुधामृतमयी पुण्या तामिन्दोः पितरो मुने १२
निस्सृतं तदमावास्यां गभस्तिभ्यः सुधामृतम्
मासं तृप्तिमवाप्याग्र्यां पितरः सन्ति निर्वृताः
सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ते त्रिधा १३
एवं देवान् सिते पक्षे कृष्णपक्षे तथा पितॄन्
वीरुधश्चामृतमयैः शीतैरप्परमाणुभिः १४
वीरुधौषधिनिष्पत्त्या मनुष्यपशुकीटकान्
आप्याययति शीतांशुः प्राकाश्याह्लादनेन तु १५
वाय्वग्निद्रव्यसंभूतो रथश्चन्द्र सुतस्य च
पिशंगैस्तुरगैर्युक्तः सोष्टाभिर्वायुवेगिभिः १६
सवरूथः सानुकर्षो युक्तो भूसंभवैर्हयैः
सोपासंगपताकस्तु शुक्रस्यापि रथो महान् १७
अष्टाश्वः काञ्चनः श्रीमान्भौमस्यापि रथो महान्
पद्मरागारुणैरश्वैः संयुक्तो वह्निसम्भवैः १८
अष्टाभिः पांडुरैर्युक्तो वाजिभिः कांचनो रथः
तस्मिंस्तिष्ठति वर्षान्ते राशौराशौ बृहस्पतिः १९
आकाशसम्भवैरश्वैः शबलैः स्यन्दनं युतम्
तमारुह्य शनैर्याति मन्दगामीशनैश्चरः २०
स्वर्भानोस्तुरगा ह्यष्टौ भृंगाभा धूसरं रथम्
सकृद्युक्तास्तु मैत्रेय वहन्त्यविरतं सदा २१
आदित्यान्निस्सृतो राहुः सोमं गच्छति पर्वसु
आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु २२
तथा केतुरथस्याश्वा अप्यष्टौ वातरंहसः
पलालधूमवर्णाभा लाक्षारसनिभारुणाः २३
एते मया ग्रहाणां वै तवाख्याता रथा नव
सर्वे ध्रुवे महाभाग प्रबद्धा वायुरश्मिभिः २४
ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धान्यश्षोतः
भ्रमन्त्युचितचारेण मैत्रेयानिलरश्मिभिः २५
यावान्त्यश्चैव तारास्ता तावन्तो वातरश्मयः
सर्वे ध्रुवे निबद्धास्ते भ्रमन्तो भ्रामयन्ति तम् २६
तैलपीडा यथा चक्रं भ्रमन्तो भ्रामयन्ति वै
तथा भ्रमन्ति ज्योतींषि वातविद्धानि सर्वशः २७
अलातचक्रवद्यान्ति वातचक्रेरितानि तु
यस्माज्योतींषि वहति प्रवहस्तेन स स्मृतः २८
शिशुमारस्तु यः प्रोक्तः स ध्रुवो यत्र तिष्ठति
सन्निवेशं च तस्यापि शृणुष्व मुनिसत्तम २९
यदह्ना कुरुते पापं तं दृष्ट्वा निशि मुच्यते
यावन्त्यश्चैव तारास्ताः शिशुमाराश्रिता दिवि
तावन्त्येव तु वर्षाणि जीवत्यभ्यधिकानि च ३०
उत्तानपादस्तस्याधो विज्ञेयो ह्युत्तरो हनुः
यज्ञोऽधरश्च विज्ञेयो धर्मो मूर्द्धानमाश्रितः ३१
हृदि नारायणश्चास्ते अश्विनौ पूर्वपादयोः
वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी ३२
शिश्नः संवत्सरस्तस्य मित्रोऽपानं समाश्रितः ३३
पुच्छेग्निश्च महेन्द्र श्च कश्यपोथ ततो ध्रुवः
तारका शिशुमारस्य नास्तमेति चतुष्टयम् ३४
इत्येष सन्निवेशोऽयं पृथिव्या ज्योतिषां तथा
द्वीपानामुदधीनां च पर्वतानां च कीर्तितः ३५
वर्षाणां च नदीनां च ये च तेषु वसन्ति वै
तेषां स्वरूपमाख्यातं संक्षेपः श्रूयतां पुनः ३६
यदम्बु वैष्णवः कायस्ततो विप्र वसुन्धरा
पद्माकारा समुद्भूता पर्वताब्ध्यादिसंयुता ३७
ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च
नद्यः समुद्रा श्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य ३८
ज्ञानस्वरूपो भगवान्यतोसावश्षोमूर्त्तिर्न तु वस्तुभूतः
ततो हि शैलाब्धिधरादिभेदाञ्जानीहि विज्ञानविजृम्भितानि ३९
यदा तु शुद्धं निजरूपि सर्वं कर्मक्षये ज्ञानमपास्तदोषम्
तदा हि संकल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः ४०
वस्त्वस्ति किं कुत्रचिदादिमध्यपर्यन्तहीनं सततैकरूपम्
यच्चान्यथात्वं द्विज याति भूयो न तत्तथा तत्र कुतो हि तत्त्वम् ४१
मही घटत्वं घटतः कपालिका कपालिकाचूर्णरजस्ततोऽणुः
जनैः स्वकर्मस्तिमितात्मनिश्चयैरालक्ष्यते ब्रूहि किमत्र वस्तु ४२
तस्मान्न विज्ञानमृतेस्ति किंचित्क्वचित्कदाचिद्द्विज वस्तुजातम् ।
विज्ञानमेकं निजकर्मभेदविभिन्नचित्तेर्बहुधाभ्युपेतम् ४३
ज्ञानं विशुद्धं विमलं विशो कमश्षोलोभादिनिरस्तसङ्गम्
एकं सदैकं परमः परेशः स वासुदेवो न यतोन्यदस्ति ४४
सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत्
एतत्तु यत्संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते ४५
यज्ञः पशुर्वह्निरश्षोऋत्विक्सोमः सुराः स्वर्गमयश्च कामः
इत्यादिकर्माश्रितमार्गदृष्टं भूरादिभोगाश्च फलानि तेषाम् ४६
यच्चैतद्भुवनगतं मया तवोक्तं सर्वत्र व्रजति हि तत्र कर्मवश्यः
ज्ञात्वैवं ध्रुवमचलं सदैकरूपं तत्कुर्याद्विशति हि येन वासुदेवम्४७
इति श्रीविष्णुमहापुराणे द्वितीयेंशो! द्वादशोऽध्यायः १२


वर्गः:श्रीविष्णुपुराणम्-द्वितीयांशः

Page is sourced from

sa.wikisource.org विष्णुपुराणम्/द्वितीयांशः/अध्यायः १२