वायुपुराणम्/पूर्वार्धम्/अध्यायः ५०

From HinduismPedia
Jump to navigation Jump to search

Template:वायुपुराणम्/पूर्वार्धम्

॥सूत उवाच॥
अधःप्रमाणमूर्द्ध्वञ्च वर्ण्यमानं निबोधत।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्।
अनन्तधातवो ह्येते व्यापकास्तु प्रकीर्तिताः ॥ ५०.१ ॥
जननी सर्वभूतानां सर्व भूतधरा धरा।
नानाजनपदाकीर्णा नानाधिष्ठानपत्तना ॥ ५०.२ ॥
नानानदनदीशैला नैकजातिसमाकुला।
अनन्ता गीयते देवी पृथिवी बहुविस्तरा ॥ ५०.३ ॥
नदीनदसमुद्रस्थास्तथा क्षुद्राश्रयाः स्थिताः।
पर्वताकाशसंस्थाश्च अन्तर्भूमिगताश्च याः ॥ ५०.४ ॥
आपोऽनन्ताश्च विज्ञेयास्तथाग्निः सर्वलौकिकः।
अनन्तः पठ्यते चैव व्यापकः सर्वसम्भवः ॥ ५०.५ ॥
तथाकाशमनालम्बं रम्यं नानाश्रयं स्मृतम्।
अनन्तं प्रथितं सर्वं वायुश्चाकाशसम्भवः ॥ ५०.६ ॥
आपः पृथिव्यामुदके पृथिवी चोपरि स्थिता।
आकाशञ्चापरमधः पुनर्भूमिः पुनर्ज्जलम् ॥ ५०.७ ॥
एवमन्तमनन्तस्य भौतिकस्य न विद्यते।
पुरा सुरैरभिहितं निश्चितन्तु निबोधत ॥ ५०.८ ॥
भूमिर्जलमथाकाशमिति ज्ञेया परम्परा।
स्थितिरेषा तु विज्ञेया सप्तमेऽस्मिन् रसातले ॥ ५०.९ ॥
दशयोजनसाहस्रमेकभौमं रसातलम्।
साधुभिः परिविख्यातमेकैकं बहुविस्तरम् ॥ ५०.१० ॥
प्रथममतलञ्चैव सुतलन्तु ततः परम्।
ततः परतरं विद्याद्वितलं बहुविस्तरम् ॥ ५०.११ ॥
ततो गभस्तलं नाम परतश्च महातलम्।
श्रीतलञ्च ततः प्राहुः पातालं सप्तमंस्मृतम् ॥ ५०.१२ ॥
कृष्णभौमञ्च प्रथमं भूमिभागञ्च कीर्त्तितम्।
पाण्डुभौमं द्वितीयन्तु तृतीयं रक्तमृत्तिकम् ॥ ५०.१३ ॥
पीतभौमञ्चतुर्थन्तु पञ्चमं शर्करातलम्।
षष्ठं सिलामयञ्चैव सौवर्णं सप्तमन्तलम् ॥ ५०.१४ ॥
प्रथमे तु तले ख्यातमसुरेन्द्रस्य मन्दिरम्।
नमुचेरिन्द्रशत्रोर्हि महानादस्य चालयम् ॥ ५०.१५ ॥
पुरञ्च शङ्कुकर्णस्य कबन्धस्य च मन्दिरम्।
निष्कुलादस्य च पुरं प्रहृष्टजनसङ्कुलम् ॥ ५०.१६ ॥
राक्षसस्य च भीमस्य शूलदन्तस्य चालयम्।
लोहिताक्षकलिङ्गानां नगरं श्वापदस्य तु ॥ ५०.१७ ॥
धनञ्जयस्य च पुरं माहेन्द्रस्य महात्मनः ।
कालियस्य च नागस्य नगरं कलसस्य च ॥ ५०.१८ ॥
एवं पुरसहस्राणिं नागदानवरक्षसाम्।
तले ज्ञेयानि प्रथमे कृष्णभौमे न संशयः ॥ ५०.१९ ॥
द्वितीयेऽपि तले विप्रा दैत्येन्द्रस्य सुरक्षसः।
महाजम्भस्य च तथा नगरं प्रथमस्य तु ॥ ५०.२० ॥
हयग्रीवस्य कृष्णस्य निकुम्भस्य च मन्दिरम्।
शङ्खाख्येयस्य च पुरं नगरं गोमुखस्य च ॥ ५०.२१ ॥
राक्षसस्य च नीलस्य मेघस्य क्रथनस्य च।
पुरञ्च कुरुपादस्य महोष्णीषस्य चालयम् ॥ ५०.२२ ॥
कम्बलस्य च नागस्य पुरमश्वतरस्य च।
कद्रुपुत्रस्य च पुरं तक्षकस्य महात्मनः ॥ ५०.२३ ॥
एवं पुरसहस्राणि नागदानवरक्षसाम्।
द्वितीयेऽस्मिन् तले विप्राः पाण्डुभौमे न संशयः ॥ ५०.२४ ॥
तृतीये तु तलेख्यातं प्रह्लादस्य महात्मनः।
अनुह्लादस्य च पुरं देत्येन्द्रस्य महात्मनः ॥ ५०.२५ ॥
तारकाख्‌यस्य च पुरं पुरं त्रिशिरसस्तथा।
शिशुमारस्य च पुरं हृष्टपुष्टजनाकुलम् ॥ ५०.२६ ॥
च्यवनस्य च विज्ञेयं राक्षसस्य च मन्दिरम्।
राक्षसेन्द्रस्य च पुरंकुम्भिलस्य खरस्यच ॥ ५०.२७ ॥
विराधस्य च क्रूरस्य पुरमुल्कामुखस्य च।
हेमकस्य च नागस्य तथा पाण्डुरकस्य च ॥ ५०.२८ ॥
मणिमन्त्रस्य च पुरं कपिलस्य च मन्दिरम्।
नन्दस्य चोरगपतेर्विशालस्य च मन्दिरम् ॥ ५०.२९ ॥
एवं पुरसहस्राणि नागदानवरक्षसाम्।
तृतीयेऽस्मिस्तले विप्राः पीतभौमे न संशयः ॥ ५०.३० ॥
चतुर्थे दैत्यसिंहस्य कालनेमेर्महात्मनः।
गजकर्णस्य च पुरं नगरं कुञ्जरस्य च ॥ ५०.३१ ॥
राक्षसेन्द्रस्य च पुरं सुमालेर्बहुविस्तरम्।
मुञ्जस्य लोकनाथस्य वृकवक्त्रस्य चालयम् ॥ ५०.३२ ॥
बहुयोजनसाहस्रं बहुपक्षिसमाकुलम् ।
नगरं वैनतेयस्य चतुर्थेऽस्मिन् रसातले ॥ ५०.३३ ॥
पञ्चमे शर्कराभौमे बहुयोजनविस्तृते।
विरोचनस्य नगरं दैत्यसिंहस्य धीमतः ॥ ५०.३४ ॥
वैढूर्य्यस्याग्निजिह्वस्य हिरण्याक्षस्य चालयम्।
पुरञ्च विद्युज्जिह्वस्य राक्षसस्य च धीमतः ॥ ५०.३५ ॥
महामेघस्य च पुरं राक्षसेन्द्रस्य शालिनः।
कर्म्मारस्य च नागस्य स्वस्तिकस्य जयस्य च ॥ ५०.३६ ॥
एवं पुरसहस्राणि नागदानवरक्षसाम्।
पञ्चमेऽपि तथा ज्ञेयं शर्करानिलये सदा ॥ ५०.३७ ॥
षष्ठे तले दैत्यपतेः केसरेर्नगरोत्तमम्।
सुपर्व्वणः सुलोम्नश्च नगरं महिषस्य च।
राक्षसेन्द्रस्य च पुरमुत्क्रोशस्य महात्मनः ॥ ५०.३८ ॥
तत्रास्ते सुरसापुत्रः शतशीर्षो मुदा युतः।
कश्यपस्य सुतः श्रीमान् वासुकिर्नाम नागराट् ॥ ५०.३९ ॥
एवं पुरसहस्राणि नागदानवरक्षसाम् ।
षष्ठे तलेऽस्मिन् विख्याते शिलाभौमे रसातले ॥ ५०.४० ॥
सप्तमे तु तले ज्ञेयं पाताले सर्व्वपश्चिमे ।
पुरं बलेः प्रमुदितं नरनारीसमाकुलम् ॥ ५०.४१ ॥
असुराशीविषैः पूर्णमुद्धृतैर्द्देवशत्रुभिः।
मुचुकुन्दस्य दैत्यस्य तत्र वै नगरं महत् ॥ ५०.४२ ॥
अनेकैर्दितिपुत्राणां समुदीर्णैर्महापुरैः।
तथैव नागनगरैऋद्धिमद्भिः सहस्रशः ॥ ५०.४३ ॥
दैत्यानां दानवानाञ्च समुदीर्णै र्महापुरैः।
उदीर्णै राक्षसावासैरनेकैश्च समाकुलम् ॥ ५०.४४ ॥
पातालान्ते च विप्रेन्द्रा विस्तीर्णे बहुयोजने।
आस्ते रक्तारविन्दाक्षो महात्मा ह्यजरामरः ॥ ५०.४५ ॥
धौतशङ्खोदरवपुर्नीलवासा महाभुजः।
विशालभोगो द्युतिमांश्चित्रमालाधरो बली ॥ ५०.४६ ॥
रुक्मश्रृङगावदातेन दीप्तास्येन विराजता।
प्रभुर्मुखसहस्रेण शोभते वै स कुण्डली ॥ ५०.४७ ॥
स जिह्वामालया देवो लोलज्वालानलार्चिषा।
ज्वालामालापरिक्षिप्तः कैलास इव लक्ष्यते ॥ ५०.४८ ॥
स तु नेत्रसहस्रेण द्विगुणेन विराजता।
बालसूर्य्याभिताम्रेण शोभते स्मिग्धमण्डलः ॥ ५०.४९ ॥
तस्य कुन्देन्दुवर्णस्य अक्षमाला विराजते ।
तरुणादि त्यमालेव श्वेतपर्व्वतमूर्द्धनि ॥ ५०.५० ॥
जटाकरालो द्युतिमान् लक्ष्यते शयनासने।
विस्तीर्ण इव मेदिन्यां सहस्रशिखरो गिरिः ॥ ५०.५१ ॥
महाभोगैर्महाभागै र्महानागैर्महाबलैः।
उपास्यते महातेजा महानागपतिः स्वयम् ॥ ५०.५२ ॥
स राजा सर्वनागानां शेषो नाम महाद्युतिः।
सा वैष्णवी ह्यहितनुर्मर्यादायां व्यवस्थिता ॥ ५०.५३ ॥
सप्तैवमेते कथिता व्यवहार्या रसातलाः ।
देवासुरमहानागराक्षसाध्युषिताः सदा ॥ ५०.५४ ॥
अतःपरमनालोक्यमगम्यं सिद्धसाधुभिः।
देवा मानप्यविदितं व्यवहारविवर्ज्जितम् ॥ ५०.५५ ॥
पृथिव्यग्न्यम्बुवायूनां नभसश्च द्विजोत्तमाः।
महत्त्वमेवमृषिभिर्वर्ण्यते नात्र संशयः ॥ ५०.५६ ॥
अत ऊर्द्ध्वं प्रवक्ष्यामि सूर्याचन्द्रमसोर्गतिम्।
सूर्याचन्द्रमसावेतौ भ्रमन्तौ यावदेव तु।
प्रकाशतः स्वभाभिस्तौ मण्डलाभ्यां समास्थितौ ॥ ५०.५७ ॥
सप्तानाञ्च समुद्राणां द्वीपानान्तु स विस्तरः।
विस्तरार्द्धं पृथिव्यास्तु भवेदन्यत्र बाह्यतः ॥ ५०.५८ ॥
पर्यासपारिमाण्यन्तु चान्द्रादित्यौ प्रकाशतः।
पर्यासपारिमाण्येन भूमेस्तुल्यं दिवं स्मृतम् ॥ ५०.५९ ॥
अवति त्रीनिमान् लोकान् यस्मात् सूर्यः परिभ्रमन्।
अवधातुः प्रकाशाख्यो ह्यवनात्स रविः स्मृतः ॥ ५०.६० ॥
अतः परं प्रवक्ष्यामि प्रमाणं चन्द्रसूर्ययोः।
महितत्वान्महीशब्दो ह्यस्मिन् वर्षे निपात्यते ॥ ५०.६१ ॥
अस्य भारतवर्षस्य विष्कम्भन्तु सुविस्तरम्।
मण्डलं भास्करस्याथ योजनानां निबोधत ॥ ५०.६२ ॥
नवयोजनसाहस्रो विस्तारो भास्करस्य तु।
विस्तारात्र्रिगुणश्चास्य परिणाहोऽथ मण्डलम्।
विष्कम्बो मण्जलस्यैव भास्कराद् द्विगुणः शशी ॥ ५०.६३ ॥
अतः पृथिव्यां वक्ष्यामि प्रमाणं योजनैः सह।
सप्तद्वीपसमुद्राया विस्तारो मण्जलञ्च यत् ॥ ५०.६४ ॥
इत्येतदिह सङ्ख्यातं पुराणं परिमाणतः।
तद्वक्ष्यामि प्रसङ्ख्याय साम्प्रतैरभिमानिभिः ॥ ५०.६५ ॥
अभिमानिव्यतीता ये तुल्यास्ते साम्प्रतैरिह।
देवा ये वै ह्यतीतास्ते रूपैर्नामभिरेव च ॥ ५०.६६ ॥
तस्मात्तु साम्प्रतैर्देवैर्वक्ष्यामि वसुधातलम्।
दिवस्तु सन्निवेशो वै साम्प्रतैरेव कृत्स्नशः ॥ ५०.६७ ॥
शतार्द्ध कोटिविस्तारा पृथिवी कृत्स्नतः स्मृता।
तस्या वार्धप्रमाणेन मेरोर्वै चातुरन्तरम् ॥ ५०.६८ ॥
पृथिव्या वार्धविस्तारो योजनाग्रात्प्रकीर्त्तितः ।
मेरुमध्यात् प्रति दिशं कोटिरेकादश स्मृताः ॥ ५०.६९ ॥
तथा शतसहस्राणि एकोननवतिः पुनः।
पञ्चाशच्च सहस्राणि पृथिव्या वार्धविस्तरः ॥ ५०.७० ॥
पृथिव्या विस्तरं कृत्स्नं योजनैस्तन्निबोधत।
तिस्रः कोट्यस्तु विस्तारः संख्यातः स चतुर्दिशम् ॥ ५०.७१ ॥
तथा शतसहस्राणामेकोनाशीतिरुच्यते।
सप्तद्वीपसमुद्रायाः पृथिव्यास्त्वेष विस्तरः ॥ ५०.७२ ॥
विस्तारात् त्रिगुण़ञ्चैव पृथिव्यन्तस्य मण्डलम्।
गणितं योजनाग्रन्तु कोट्यस्त्वेकादश स्मृताः ॥ ५०.७३ ॥
तथा शतसहस्रन्तु सप्त त्रिंशाधिकानि तु।
इत्येतद्वै प्रसङ्ख्यातं पृथिव्यन्तस्य मण्डलम् ॥ ५०.७४ ॥
तारकासन्निवेशस्य दिवि यावद्धि मण्डलम्।
पर्यासः सन्निवेशस्य भूमस्तावत्तु मण्डलम् ॥ ५०.७५ ॥
पर्यासपारिमाण्डेन भूमेस्तुल्यं दिवं स्मृतम्।
सप्तानामपि लोकानामेतन्मानं प्रकीर्तितम् ॥ ५०.७६ ॥
पर्यासपारिमाण्डेन मण्डलानुगतेन च।
उपर्युपरि लोकानां छत्रवत्परिमण्डलम् ॥ ५०.७७ ॥
संस्थितिर्विहिता सर्वा येषु तिष्ठन्ति जन्तवः।
एतदण्डकटाहस्य प्रमाणं परिकीर्त्तितम् ॥ ५०.७८ ॥
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी।
भूर्लोकस्व भुवश्चैव तृतीयः स्वरिति स्मृतः ।
महर्लोको जनश्चैव तपः सत्यश्च सप्तमः ॥ ५०.७९ ॥
एते सप्त कृता लोकाश्छत्राकारा व्यवस्थिताः।
स्वकैरावरणैः सूक्ष्मैर्धार्यमाणाः पृथक् पृथक् ॥ ५०.८० ॥
दशभागाधिकाभिश्च ताभिः प्रकृतिभिर्बहिः।
धार्यमाणा विशेषैश्च समुत्पन्नैः परस्परम् ॥ ५०.८१ ॥
अस्याण्डस्य समन्ताच्च सन्निविष्टो घनोदधिः।
पृथिवीमण्डलं कृत्स्नं घनतोयेन धार्यते ॥ ५०.८२ ॥
घनोदधिपरेणाथ धार्य्यते घनतेजसा।
बाह्यतो घनतेजस्तु तिर्य्यगूर्द्ध्वन्तु मण्डलम् ॥ ५०.८३ ॥
समन्ताद्वनवातेन धार्य्यमाणं प्रतिष्ठितम्।
घनवातात्तथाकाशमाकाशञ्च महात्मना ॥ ५०.८४ ॥
भूतादिना वृतं सर्व्वं भूताधिर्महता वृतः ।
वृतो महाननन्तेन प्रधानेनाव्ययात्मना ॥ ५०.८५ ॥
पुराणि लोकपालानां प्रवक्ष्यामि यथाक्रमम् ।
ज्योतिर्गणप्रचारस्य प्रमाणं परिवक्ष्यते ॥ ५०.८६ ॥
मेरोः प्राच्यां दिशि तथा मानसस्यैव मूर्द्धनि।
वस्वोकसारा माहेन्द्री पुण्या हेमपरिष्कृता । ५०.८७ ॥
दक्षिणेन पुनर्मेरोर्मानसस्यैव मूर्द्धनि।
वैवस्वतो निवसति यमः संयमने पुरे ॥ ५०.८८ ॥
प्रतीच्यान्तु पुनर्मेरोर्मानसस्यैव मूर्द्धनि।
सुखा नाम पुरी रम्या वरुणस्याथ धीमतः ॥ ५०.८९ ॥
दिश्युत्तरस्यां मेरोस्तु मानसस्यैव मूर्द्धनि।
तुल्या माहेन्द्रपुर्य्या तु सोमस्यापि विभावरी ॥ ५०.९० ॥
मानसोत्तरपृष्ठे तु लोकपालाश्चतुर्द्दिशम्।
स्थिता धर्म्मव्यवस्थायै लोकसंरक्षणाय च ॥ ५०.९१ ॥
लोकपालोपरिष्टात्तु सर्व्वतो दक्षिणायने।
काष्ठागतस्य सूर्य्यस्य गतिर्या तां निबोधत ॥ ५०.९२ ॥
दक्षिणे प्रक्रमे सूर्य्यः क्षिप्तेषुरिव सर्पति।
ज्योतिषाञ्चक्रमादाय सततं परिगच्छति ॥ ५०.९३ ॥
मध्यगश्चामरावत्यां यदा भवति भास्करः।
वैवस्वते संयमने उदयस्तत्र उच्यते ॥ ५०.९४ ॥
सुखायामर्द्धरात्रञ्च मध्यगः स्याद्रविर्यदा।
सुखायामथ वारुण्यामुत्तिष्ठन् स तु दृश्यते ॥ ५०.९५ ॥
विभायामर्द्धरात्रं स्यान्माहेन्द्य्रामस्तमेति च।
तदा दक्षिणपूर्व्वेषामपराह्नो विधीयते ॥ ५०.९६ ॥
दक्षिणापर देश्यानां पूर्व्वाह्नः परिकीर्त्त्यते।
तेषामपररात्रञ्च ये जना उत्तरापथे ॥ ५०.९७ ॥
देशा उत्तरपूर्व्वा ये पूर्व्वरात्रन्तु तान् प्रति।
एवमेवोत्तरेष्वर्को भवनेषु विराजते ॥ ५०.९८ ॥
सुखायामथ वारुण्यां मध्याह्ने चार्य्यमा यदा।
विभावर्य्यां सोमपुर्य्यामुत्तिष्ठति विभावसुः ॥ ५०.९९ ॥
रात्र्यर्द्धं चामरावत्यामस्तमेति यमस्य च।
सोमपुर्यां विभायान्तु मध्याह्ने स्याद्धिवाकरः ॥ ५०.१०० ॥
महेन्द्रस्यामरावत्यामुत्तिष्ठति यदा रविः।
अर्द्धरात्रं संयमने वारुण्यामस्तमेति च ॥ ५०.१०१ ॥
स शीग्रमेति पर्य्येति भास्करोऽलातचक्रवत्।
भ्रमन् वै भ्रममाणानि ऋक्षाणि गगने रविः ॥ ५०.१०२ ॥
एवं चतुर्षु द्वीपेषु दक्षिणान्तेन सर्पति।
उदयास्तमनेनासावुत्तिष्ठति पुनः पुनः ॥ ५०.१०३ ॥
पूर्व्वाह्ने चापराह्ने तु द्वौ द्वौ देवालयौ तु सः।
तपत्येकन्तु मध्याह्ने तैरेव तु सरश्मिभिः ॥ ५०.१०४ ॥
उदितो वर्द्धमानाभिरामध्याह्नं तपन् रविः।
अतः परं ह्रसन्तीभिर्गोभिरस्तं स गच्छति ॥ ५०.१०५ ॥
उदयास्तमयाभ्यां हिस्मृते पूर्वापरे दिशो।
यावत्पुरस्तात्तपति तावत् पृष्ठे तु पार्श्वयोः ॥ ५०.१०६ ॥
यत्रोद्यन् दृश्यते सूर्यस्तेषां स उदयः स्मृतः।
यत्र प्रणाशमायाति तेषामस्तः स उच्यते ॥ ५०.१०७ ॥
सर्वेषामुत्तरे मेरुर्लोकालोकस्तु दक्षिणे।
विदूरभावादर्कस्य भूमेर्लेखावृतस्य च।
ह्रियन्ते रश्मयो यस्मात्तेन रात्रौ न दृश्यते ॥ ५०.१०८ ॥
ग्रहनक्षत्रताराणां दर्शनं भास्करस्य च।
उच्छ्रायस्य प्रमाणेन ज्ञेयमस्तमनोदयम् ॥ ५०.१०९ ॥
शुक्लच्छायोग्निरापश्च कृष्णच्छाया च मेदिनी।
विदूरभावादर्कस्य उद्यातस्य विरश्मिता।
रक्ताबावो विरश्मित्वाद्रक्तत्वाच्चाप्यनुष्णता ॥ ५०.११० ॥
लेखयावस्थितः सूर्यो यत्र यत्र तु दृश्यते।
ऊर्द्ध्वं गतः सहस्रन्तु योजनानां स दृश्यते ॥ ५०.१११ ॥
प्रभा हि सौरी पादेन अस्तङ्गच्छति भास्करे।
अग्निमाविशते रात्रौ तस्माद्दूरात् प्रकाशते ॥ ५०.११२ ॥
उदितस्तु पुनः सूर्यः अस्तमाग्नेयमाविशत्।
संयुक्तो वह्निना सूर्यस्ततः स तपते दिवा ॥ ५०.११३ ॥
प्राकाश्यञ्च तथौष्ण्यञ्च सूर्याग्नेयी च तेजसी।
परस्परानुप्रवेशादाप्यायेते दिवानिशम् ॥ ५०.११४ ॥
उत्तरे चैव भूम्यर्द्धे तथा तस्मिंश्च दक्षिणे।
उत्तिष्ठति तथा सूर्ये रात्रिराविशते त्वपः ।
तस्मात्ताम्रा भवन्त्यापो दिवारात्रिप्रवेशनात् ॥ ५०.११५ ॥
अस्तं याति पुनः सूर्ये दिनं वै प्रविशत्यपः।
तस्माच्छुक्ला भवन्त्यापो नक्तमह्नः प्रवेशनात् ॥ ५०.११६ ॥
एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे।
उदयास्तमनेऽर्कस्य अहोरात्रं विशत्यपः ॥ ५०.११७ ॥
दिनं सूर्यप्रकाशाख्यं तामसी रात्रिरुच्यते।
तस्माद्व्यवस्थिता रात्रिः सूर्यावेक्ष्यमहः स्मृतम् ॥ ५०.११८।
एवं पुष्करमध्येन यदा सर्पति भास्करः।
त्रिंशां शकन्तु मेदिन्या मुहूर्तेनैव गच्छति ॥ ५०.११९ ॥
योजनाग्रान्मुहूर्त्तस्य इमां सङ्ख्यां निबोधत।
पूर्णं शतसहस्राणामेकत्रिंशत्तु सा स्मृता ॥ ५०.१२० ॥
पञ्चाशत्तु तथान्यानि सहस्राण्यधिकानि तु।
मौहूर्त्तिकी गतिर्ह्येषा सूर्यस्य तु विधीयते ॥ ५०.१२१ ॥
एतेन गतियोगेन यदा काष्ठान्तु दक्षिणाम्।
पर्य्यागच्छेत्तदादित्यो माघे काष्ठान्तमेव हि ॥ ५०.१२२ ॥
सर्पते दक्षिणायान्तु काष्ठायां तन्निबोधत।
नवकोट्यः प्रसङ्ख्याता योजनैः परिमण्डलम् ॥ ५०.१२३ ॥
तथा शतसहस्राणि चत्वारिंशच्च पञ्च च।
अहोरात्रात्पतङ्गस्य गतिरेषा विधीयते ॥ ५०.१२४ ॥
दक्षिणाद्विनिवृत्तोऽसौ विषुवस्थो यदा रविः।
क्षीरोदस्य समुद्रस्य उत्तरान्ता दिशश्चरन् ॥ ५०.१२५ ॥
मण्डलं विषुवद्यापि योजनैस्तन्निबोधत।
तिस्रः कोट्यस्तु विस्तीर्णा विषुवद्यापि सा स्मृता ॥ ५०.१२६ ॥
तथा शतसहस्राणामशीत्येकाधिका पुनः ।
श्रवणे चोत्तरां काष्ठाञ्चित्रभानुर्यदा भवेत् ।
शाकद्वीपस्य षष्ठस्य उत्तरान्ता दिशश्चरन् ॥ ५०.१२७ ॥
उत्तरायाञ्च काष्ठायां प्रमाणं मण्‍डलस्य च।
योजनाग्रात्प्रसङ्ख्याता कोटिरेका तु सा द्विजैः ॥ ५०.१२८ ॥
अशीतिर्नियुतानीह योजनानां तथैव च।
अष्टपञ्चाशतञ्चैव योजनान्यधिकानि तु ॥ ५०.१२९ ॥
नागवीथ्युत्तरावीथी अजवीथी च दक्षिणा।
मूलं चैव तथाषाडे ह्यजवीथ्युदयास्त्रयः।
अभिजित्पूर्वतः स्वातिर्नागवीथ्युदयास्त्रयः ॥ ५०.१३० ॥
काष्ठयोरन्तरं यच्च तद्वक्ष्ये योजनैः पुनः।
एतच्छतसहस्राणामेकत्रिंशोत्तरं शतम् ॥ ५०.१३१ ॥
त्रयस्त्रिंशाधिकाश्चान्ये त्रयस्त्रिंशच्च योजनैः।
काष्ठयोरन्तरं ह्येतद्योजनाग्रात् प्रतिष्ठितम् ॥ ५०.१३२ ॥
काष्ठयोर्लेखयोश्चैव अन्तरे दक्षिणोत्तरे ।
ते तु वक्ष्यामि सङ्ख्याय योजनैस्तन्निबोधत ॥ ५०.१३३ ॥
एकैकमन्तरन्तस्या नियुतान्येकसप्ततिः।
सहस्राण्यतिरिक्ताश्च ततोऽन्या पञ्चसप्ततिः ॥ ५०.१३४ ॥
लेखयोः काष्ठयोश्चैव बाह्याभ्यन्तरयोः स्मृतम्।
अभ्यन्तरन्तु पर्येति मण्डलान्युत्तरायणे ॥ ५०.१३५ ॥
बाह्यतो दक्षिणे चैव सततन्तु यथाक्रमम्।
मण्डलानां शतं पूर्णमशीत्यधिकमुत्तरम् ॥ ५०.१३६ ॥
चरते दक्षिणे चापि तावदेव विभावसुः।
प्रमाणं मण्डलस्याथ योजनाग्रान्निबोधत ॥ ५०.१३७ ॥
एकविंशद्योजनानां सहस्राणि समासतः।
शते द्वे पुनरप्यन्ये योजनानां प्रकीर्त्तिते ॥ ५०.१३८ ॥
एकविंशतिभिश्चैव योजनैरधिकैर्हि ते।
एतत्प्रमाणमाख्यातं योजनैर्मण्डलं हि तत् ॥ ५०.१३९ ॥
विष्कम्भो मण्डलस्यैष तिर्यक् स तु विधीयते।
प्रत्यहञ्चरते तानि सूर्यो वै मण्डलक्रमम् ॥ ५०.१४० ॥
कुलालचक्रपर्यन्तो यथा शीघ्रं निवर्त्तते।
दक्षिणे प्रक्रमे सूर्यस्तथा शीघ्रं निवर्त्तते ॥ ५०.१४१ ॥
तस्मात् प्रकृष्टां भूमिञ्च कालेनाल्पेन गच्छति।
सूर्यो द्वादशभिः शीघ्रं मुहूर्त्तेर्दक्षिणोत्तरे ॥ ५०.१४२ ॥
त्रयोदशार्द्धमृक्षाणामह्नानुचरते रविः।
मुहूर्त्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥ ५०.१४३ ॥
कुलालचक्रमध्यस्तु यथा मन्दं प्रसर्पति।
तथोदगयने सूर्यः सर्पते मन्दविक्रमः ॥ ५०.१४४ ॥
त्रयोदशार्द्धमर्द्धेन ऋक्षाणां चरते रविः।
तस्माद्दीर्घेण कालेन भूमिमिल्पां निगच्छति ॥ ५०.१४५ ॥
अष्टादशमुहूर्त्तैस्तु उत्तरायणपश्चिमम्।
अहर्भवति तच्चापि चरते मन्दविक्रमः ॥ ५०.१४६ ॥
त्रयोदशार्द्धमर्धेन ऋक्षाणाञ्चरते रविः।
मुहूर्त्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥ ५०.१४७ ॥
ततो मन्दतरं ताभ्याञ्चक्रं भ्रमति वै यथा।
मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै यथा ॥ ५०.१४८ ॥
त्रिंशन्मुहूर्त्ताने वाहुरहोरात्रं ध्रुवो भ्रमन् ।
उभयोः काष्ठयोर्मध्ये भ्रमते मण्डलानि सः ॥ ५०.१४९ ॥
कुलालचक्रनाभिस्तु यथा तत्रैव वर्त्तते।
ध्रुवस्तथा हि विज्ञेयस्तत्रैव परिवर्त्तते ॥ ५०.१५० ॥
उभयोः काष्ठयोर्मध्ये भ्रमतो मण्डलानि तु।
दिवा नक्तञ्च सूर्यस्य मन्दा शीघ्रा च वै गतिः ॥ ५०.१५१ ॥
उत्तरे प्रक्रमे त्विन्दो र्दिवा मन्दा गतिः स्मृता।
तथैव च पुनर्नक्तं शीघ्रा सूर्यस्य वै गतिः ॥ ५०.१५२ ॥
दक्षिणे प्रक्रमे चैव दिवा शीघ्रं विधीयते ।
गतिः सूर्यस्य नक्तं वै मन्दा चापि तथा स्मृता ॥ ५०.१५३ ॥
एवं गतिविशेषेण विभजन् रात्र्यहानि तु।
तथा विचरते मार्गं समेन विषमेण च ॥ ५०.१५४ ॥
लोकालोके स्थिता ये ते लोकपालाश्चतुर्दिशम्।
अगस्त्यश्चरते तेषामुपरिष्टाज्जवेन तु ।
भजन्नसावहोरात्रमेवङ्गतिविशेषणैः ॥ ५०.१५५ ॥
दक्षिणे नागवीथ्यायां लोकालोकस्य चोत्तरम्।
लोकसन्तारको ह्येष वैश्वानरपथाद्बहिः ॥ ५०.१५६ ॥
पृष्ठे यावत् प्रभा सौही पुरस्तात् सम्प्रकाशते।
पार्श्वयोः पृष्ठतस्तावल्लोकालोकस्य सर्वतः ॥ ५०.१५७ ॥
योजनानां सहस्राणि दशोर्द्द्वन्तूच्छ्रितो गिरिः।
प्रकाशश्चाप्रकाशश्च सर्वतः परिमण्डलः ॥ ५०.१५८ ॥
नक्षत्रचन्द्रसूर्याश्च ग्रहास्तारागणैः सह।
अभ्यन्तरं प्रकाशन्ते लोकालोकस्य वै गिरेः ॥ ५०.१५९ ॥
एतावानेव लोकस्तु निरालोकस्त्वतः परम्।
लोकालोक एकधा तु निरालोकस्त्वनेकधा ॥ ५०.१६० ॥
लोकालोकन्तु सन्धत्ते यस्मात् सूर्यः परिग्रहम्।
तस्मात्सन्ध्येति तामाहुरुषाव्युष्ट्योर्यदन्तरम् ।
उषा रात्रिः स्मृता विप्रैर्व्युष्टिश्चापि त्वहः स्मृतम् ॥ ५०.१६१ ॥
सूर्यं हि ग्रसमानानां सन्ध्याकाले हि रक्षसाम्।
प्रजापतिनियोगेन शापस्तेषां दुरात्मनाम् ।
अक्षयत्वञ्च देहस्य प्रापिता मरणं तथा ॥ ५०.१६२ ॥
तिस्रः कोट्यस्तु विख्याता मन्देहा नाम राक्षसाः।
प्रार्थयन्ति सहस्रांशुमुदयन्ति दिने दिने।
तापयन्तो दुरात्मानः सूर्यमिच्छन्ति खादितुम् ॥ ५०.१६३ ॥
अथ सूर्यस्य तेषाञ्च युद्धमासीत् सुदारुणम्।
ततो ब्रह्मा च देवाश्च ब्राह्मणाश्चैव सत्तमाः।
सन्ध्येति समुपासन्तः क्षेपयन्ति महाजलम् ॥ ५०.१६४ ॥
ओङ्कारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम्।
तेन दह्यन्ति ते दैत्या वज्रभूतेन वारिणा ॥ ५०.१६५ ॥
ततः पुनर्महातेजा महाद्युतिपराक्रमः.
योजनानां सह स्राणि ऊर्द्ध्वमुत्तिष्ठते शतम् ॥ ५०.१६६ ॥
ततः प्रयाति भगवान् ब्राह्मणैः परिवारितः।
वालखिल्यैश्च मुनिभिः कृतार्थैः समरीचिभिः ॥ ५०.१६७ ॥
काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठा गणयेत् कलान्तम् ।
त्रिंशत् कलाश्चैव भवेन्मुहूर्त्तस्तैस्त्रिंशता रात्र्यहनी समेते ॥ ५०.१६८ ॥
ह्रासवृद्धी त्वहर्भागैर्दिवसानां यथाक्रमम्।
सन्ध्या मुहूर्तमानन्तु ह्रासे वृद्धौ समा स्मृता ॥ ५०.१६९ ॥
लेखाप्रभृत्यथादित्ये त्रिमुहूर्त्तागते तु वै।
प्रातस्तनः स्मृतः कालो भागस्त्वह्नः स पञ्चमः ॥ ५०.१७० ॥
तस्मात् प्रातस्तनात्कालात् त्रिमुहूर्त्तस्तु सङ्गवः।
मध्याह्नस्त्रिमुहूर्त्तस्तु तस्मात्कालाच्च सङ्गवात् ॥ ५०.१७१ ॥
तस्मान्मध्यन्दिनात् कालादपराह्न इति स्मृतः ।
त्रय एव मुहूर्त्तास्तु तस्मात् कालाच्च मध्यमात् ॥ ५०.१७२ ॥
अपराह्ने व्यतीपाते काल- सायाह्न उच्यते।
दशपञ्चमुहूर्त्ताद्वै मुहूर्त्तास्त्रय एव च ॥ ५०.१७३ ॥
दशपञ्चमुहूर्त्तं वै अहर्विषुवति स्मृतम्।
दशपञ्चमुहूर्त्ताद्वै रात्रिन्दिवमिति स्मृतम् ॥ ५०.१७४ ॥
वर्ध्धते ह्रसते चैव अयने दक्षिणोत्तरे।
अहस्तु ग्रसते रात्रिं रात्रिस्तु ग्रसते त्वहः ॥ ५०.१७५ ॥
शरद्वसन्तयोर्मध्ये विषुवन्तद्विभाव्यते।
अहोरात्रं कलाश्चैव सप्त सोमः समश्रुते ॥ ५०.१७६ ॥
तथा पञ्चदशाहानि पक्ष इत्याभिधीयते।
द्वौ पक्षौ च भवेन्मासो द्वौ मासावन्तरावृतुः।
ऋतुत्रयमयनं स्याद्द्वैऽयने वर्षमुच्यते ॥ ५०.१७७ ॥
निमेषादिकृतः कालः काष्ठाया दश पञ्च च।
कलायास्त्रिंशतः काष्ठा मात्राघीतिद्वयात्मिका ॥ ५०.१७८ ॥
शतघ्नैकोनकास्त्रिंशन्मात्रात्रिशत् षडुत्तरा।
द्विषष्टिभाक् त्रयोविंशन्मात्रायाञ्च चला भवेत् ॥ ५०.१७९ ॥
चत्वारिंशत्सहस्राणि शतान्यष्टौ च विद्युतिः।
सप्ततिञ्चापि तत्रैव नवतिं विद्धि निस्वये ॥ ५०.१८० ॥
चत्वार्येव शतान्याहुर्विद्युतौ वैधसंयुगे।
चरांशो ह्येष विज्ञेयो नालिका चात्र कारणम् ॥ ५०.१८१ ॥
संवत्सरादयः पञ्च चतुर्मानविकल्पिताः।
निश्चयः सर्वकालस्य युग इत्यभिधीयते ॥ ५०.१८२ ॥
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः।
इद्वत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः।
पञ्चमो वत्सरस्तेषां कालस्तु परिसंज्ञितः ॥ ५०.१८३ ॥
विंशशतं भवेत्पूर्णं पर्वणां तु रवेर्युगम्।
एतान्यष्टादशस्त्रिंशदुदयो भास्करस्य च ॥ ५०.१८४ ॥
ऋतवस्त्रिंशतः सौरा अयनानि दशैव तु।
पञ्चत्रिंशत् शतं चापि षष्टिर्मासाश्च भास्करः ॥ ५०.१८५ ॥
त्रिंशदेव त्वहोरात्रं स तु मासश्च भास्करः।
एकषष्टिस्त्वहोरात्रा दनुरेको निभाव्यते ॥ ५०.१८६ ॥
अह्नान्तु त्र्यधिकाशीतिः शतं चाप्यधिकं भवेत्।
मानं तच्चित्रभानोस्तु विज्ञेयं भुवनस्य तु ॥ ५०.१८७ ॥
सौरसौम्यं तु विज्ञेयं नक्षत्रं सावनं तथा।
नामान्येतानि चत्वारि यैः पुराणं विभाव्यते ॥ ५०.१८८ ॥
खे तस्योत्तरतश्चैव श्रृङ्गवान्नाम पर्वतः।
त्रीणि तस्य तु श्रृङ्गाणि स्पृशन्तीव नभस्तलम् ॥ ५०.१८९ ॥
तैश्चापि श्रृङ्गवान्नाम सर्वतश्चैव विश्रुतः।
एकमार्गश्च विस्तारो विष्कम्भश्चापि कीर्तितः ॥ ५०.१९० ॥
तस्य वै सर्वतः श्रृङ्गं मध्यमन्तद्धिरण्मयम्।
दक्षिणं राजतञ्चैव श्रृङ्गं तु स्फटिकप्रभम् ॥ ५०.१९१ ॥
सर्वरत्नमयं चैकं श्रृङ्गमुत्तरमुत्तमम्।
एवं कूटैस्रिभिः शैलैः श्रृङ्गवानिति विश्रुतः ॥ ५०.१९२ ॥
यत्तद्विषुवतं श्रृङ्गन्तदर्कः प्रतिपद्यते।
शरद्वसन्तयोर्मध्ये मध्यमां गतिमास्थितः।
अहस्तुल्यामथो रात्रिं करोति तिमिरापहः ॥ ५०.१९३ ॥
हरिताश्च हया दिव्यास्ते नियुक्ता महारथे।
अनुलिप्ता इवाभान्ति पझरक्तैर्गभस्तिभिः ॥ ५०.१९४ ॥
मेषान्ते च तुलान्ते च भास्करोदयतः स्मृताः ।
मुहूर्त्ता दश पञ्चैव अहोरात्रिश्च तावती ॥ ५०.१९५ ॥
कृत्तिकानां यदा सूर्यः प्रथमांशगतो भवेत् ।
विशाखानां तथा ज्ञेयश्चतुर्थांशे निशाकरः॥ ५०.१९६ ॥
विशाखायां यदा सूर्य श्च्रतेंऽशं तृतीयकम्।
तदा चन्द्रं विजानीयात् कृत्तिकाशिरसि स्थितम् ॥ ५०.१९७ ॥
विषुवन्तं तदा विद्यादेवमाहुर्महर्षयः।
सूर्येण विषुवं विद्यात् कालं सोमेन लक्षयेत् ॥ ५०.१९८ ॥
समा रात्रिरहश्चैव यदा तद्विषुवद्भवेत्।
तदा दानानि देयानि पितृभ्यो विषुवत्यपि।
ब्राह्मणेभ्यो विशेषेण मुखमेतत्तु दैवतम् ॥ ५०.१९९ ॥
ऊनरात्राधिमासौ च कलाकाष्ठामुहूर्त्तकाः।
पौर्णमासी तथा ज्ञेया अमावास्या तथैव च।
सिनीवाली कुहूश्चैव राका चानुमति स्तथा ॥ ५०.२०० ॥
तपस्तपस्यौ मधुमाधवौ च शुक्रः शुचिश्चायनमुत्तरं स्यात्।
नभो नभश्योऽथ इषुः सहोर्जः सहःसहस्याविति दक्षिणं स्यात् ॥ ५०.२०१ ॥
संवत्सरास्ततो ज्ञेयाः पञ्चाब्दा ब्रब्मणः सुताः।
तस्मात्तु ऋतवो ज्ञेया ऋतवो ह्यन्तराः स्मृताः ॥ ५०.२०२ ॥
तस्मादनुमुखा ज्ञेया अमावास्यास्य पर्वणः.
तस्मात्तु विषुवं ज्ञेयं पितृदैवहितं सदा ॥ ५०.२०३ ॥
एवं ज्ञात्वा न मुह्येत दैवे पित्र्ये च मानवः।
तस्मात् स्मृतं प्रजानां वै विषुवत्सर्वगं सदा ॥ ५०.२०४ ॥
आलोकान्तः स्मृतो लोको लोकान्तो लोक उच्यते।
लोकपालाः स्थितास्तत्र लोकालोकस्य मध्यतः ॥ ५०.२०५ ॥
चत्वारस्ते महात्मानस्तिष्ठन्त्याभूतसम्प्लवात्।
सुधामा चैव वैराजः कर्द्दमः शङ्‌कृपस्तथा।
हिरण्यलोमा पर्ज्जन्यः केतुमान् जातनिश्चयः ॥ ५०.२०६ ॥
निर्द्वन्द्वा निरभीमाना निस्तन्त्रा निष्परिग्रहाः।
लोकपालाः स्थिता ह्येते लोकालोके चतुर्दिशम् ॥ ५०.२०७ ॥
उत्तरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणम्।
पितृयाणः स वै पन्था वैश्वानरपथाद्बहिः ॥ ५०.२०८ ॥
तत्रासते प्रजावन्तो मुनयो ह्यग्निहोत्रिणः ।
लोकस्य सन्तानकराः पितृयाणे पथि स्थिताः ॥ ५०.२०९ ॥
भूतारम्भ कृतं कर्म आशिषा ऋत्विगुच्यते ।
प्रारभन्ते लोककामास्तेषां पन्थाः स दक्षिणः ॥ ५०.२१० ॥
चलितन्ते पुनर्द्धर्मं स्थापयन्ति युगे युगे।
सन्तत्या तपसा चैव मर्यादाभिः श्रुतेन च ॥ ५०.२११ ॥
जायमानास्तु पूर्वे वै पश्चिमानां गृहेषु च।
पश्चिमाश्चैव जायन्ते पूर्वेषां निधनेष्वपि।
एव मावर्त्तमानास्ते तिष्ठन्त्याभूतसम्प्लवात् ॥ ५०.२१२ ॥
अष्टाशीतिसहस्राणि मुनीनां गृहमेधिनाम्।
सवितुर्द्दक्षिणं मार्गं श्रिता ह्याचन्द्रतारकम्।
क्रियावतां प्रसङ्ख्येया ये श्मशानानि भेजिरे ॥ ५०.२१३ ॥
लोकशंव्यवहारेण भूतारम्भकृतेन च।
इच्छाद्वेषप्रकृत्या च मैथुनोपगमेन च ॥ ५०.२१४ ॥
तथा कायकृतेनेह सेवनाद्विषयस्य च।
एतैस्तैः कारणैः सिद्धाः श्मशानानि हि भेजिरे।
प्रजैषिणस्ते मुनयो द्वापरेष्विह जज्ञिरे ॥ ५०.२१५ ॥
नागवीथ्युत्तरे यच्च सप्तर्षिभ्यश्च दक्षिणम् ।
उत्तरः सवितुः पन्था देवयानस्तु स स्मृतः ॥ ५०.२१६ ॥
यत्र ते वासिनः सिद्धा विमला ब्रह्मचारिणः।
सततन्ते जुगुप्सन्ते तस्मान्मृत्युर्ज्जितस्तु तैः ॥ ५०.२१७ ॥
अष्टाशीतिसहस्राणि तेषामप्यूर्द्ध्वरेतसाम्।
उदकूपन्थानमर्यम्णः श्रिता ह्याभूतसम्प्लवात् ॥ ५०.२१८ ॥
इत्येतैः कारणैः शुद्धैस्तेऽ म़तत्वं हि भेजिरे।
आभूतसम्प्लवस्थानममृतत्वं विभाव्यते ॥ ५०.२१९ ॥
त्रैलोक्यस्थितिकालोऽयमपुनर्मार्गगामिनः।
ब्रह्महत्याश्वमेधाभ्यां पुण्यापापकृतोऽपरम्।
आभूतसम्प्लवान्ते तु क्षीयन्ते ह्यूर्द्ध्वरेतसः ॥ ५०.२२० ॥
ऊर्द्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्रास्ति वै स्मृतम्।
एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ॥ ५०.२२१ ॥
तत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम्।
धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाधकाः ॥ ५०.२२२ ॥
इति श्रीमहापुराणे वायुप्रोक्ते ज्योतिष्प्रचारो नाम पञ्चाशोऽद्यायः ॥ ५० ॥

वर्गः:वायुपुराणम्/पूर्वार्धम्

Page is sourced from

sa.wikisource.org वायुपुराणम्/पूर्वार्धम्/अध्यायः ५०