वामनपुराणम्/द्विचत्वारिंशत्तमोऽध्यायः

From HinduismPedia
Jump to navigation Jump to search

Template:वामनपुराणम्

ऋषय ऊचुः
काम्यकस्य तु पूर्वेण कुञ्जं देवैर्निषेवितम्
तस्य तीर्थस्य संभूतिं विस्तरेण ब्रवीहि नः १
लोमहर्षण उवाच
शृण्वन्तु मुनयः सर्वे तीर्थमाहात्म्यमुत्तमम्
ऋषीणां चरितं श्रुत्वा मुक्तो भवति किल्बिषैः २
नैमिषेयाश्च ऋषयः कुरुक्षेत्रे समागताः
सरस्वत्यास्तु स्नानार्थं प्रवेशं ते न लेभिरे ३
ततस्ते कल्पयामासुस्तीर्थं यज्ञोपवीतिकम्
शेषास्तु मुनयस्तत्र न प्रवेशं हि लेभिरे ४
रन्तुकस्याश्रमात्तावद् यावत्तीर्थं सचक्रकम्
ब्राह्मणैः परिपूर्णं तु दृष्ट्वा देवी सरस्वती ५
हितार्थं सर्वविप्राणां कृत्वा कुञ्जानि सा नदी
प्रयाता पश्चिमं मार्गं सर्वभूतहिते स्थिता ६
पूर्वप्रवाहे यः स्नाति गङ्गास्नानफलं लभेत्
प्रवाहे दक्षिणे तस्या नर्मदा सरितां वरा ७
पश्चिमे तु दिशाभागे यमुना संश्रिता नदी
यदा उत्तरतो याति सिन्धुर्भवति सा नदी ८
एवं दिशाप्रवाहेण याति पुण्या सरस्वती
तस्यां स्नातः सर्वतीर्थे स्नातो भवति मानवः ९
ततो गच्छेद् द्विजश्रेष्ठा मदनस्य महात्मनः
तीर्थं त्रैलोक्यविख्यातं विहारं नाम नामतः १०
यत्र देवाः समागम्य शिवदर्शनकाङ्क्षिणः
समागता न चापश्यन् देवं देव्या समन्वितम् ११
ते स्तुवन्तो महादेवं नन्दिनं गणनायकम्
ततः प्रसन्नो नन्दीशः कथयामास चेष्टितम् १२
भवस्य उमया सार्धं विहारे क्रीडितं महत्
तच्छ्रुत्वा देवतास्तत्र पत्नीराहूय क्रीडिताः १३
तेषां क्रीडाविनोदेन तुष्टः प्रोवाच शङ्करः
योऽस्मिंस्तीर्थे नरः स्नाति विहारे श्रद्धयान्वितः १४
धनधान्यप्रियैर्युक्तो भवते नात्र संशयः
दुर्गातीर्थं ततो गच्छेद् दुर्गया सेवितं महत् १५
यत्र स्नात्वा पितॄन् पूज्य न दुर्गतिमवाप्नुयात्
तत्रापि च सरस्वत्याः कूपं त्रैलोक्यविश्रुतम् १६
दर्शनान्मुक्तिमाप्नोति सर्वपातकवर्जितः
यस्तत्र तर्पयेत् देवान् पितॄंश्च श्रद्धयान्वितः १७
अक्षय्यं लभते सर्वं पितृतीर्थं विशिष्यते
मातृहा पितृहा यश्च ब्रह्महा गुरुतल्पगः १८
स्नात्वा शुद्धिमवाप्नोति यत्र प्राची सरस्वती
देवमार्गप्रविष्टा च देवमार्गेण निःसृता १९
प्रची सरस्वती पुण्या अपि दुष्कृतकर्मणाम्
त्रिरात्रं ये करिष्यन्ति प्राचीं प्राप्य सरस्वतीम् २०
न तेषां दुष्कृतं किञ्चिद् देहमाश्रित्य तिष्ठति
नरनारायणौ देवौ ब्रह्मा स्थाणुस्तथा रविः २१
प्रचीं दिशं निषेवन्ते सदा देवाः सवासवाः
ये तु श्राद्धं करिष्यन्ति प्राचीमाश्रित्य मानवाः २२
तेषां न दुर्लभं किञ्चिदिह लोके परत्र च
तस्मात् प्राची सदा सेव्या पञ्चम्यां च विशेषतः २३
पञ्चम्यां सेवमानस्तु लक्ष्मीवान् जायते नरः
तत्र तीर्थमौशनं त्रैलोक्यस्यापि दुर्लभम् २४
उशना यत्र संसिद्ध आराध्य परमेश्वरम्
ग्रहमध्येषु पूज्यते तस्य तीर्थस्य सेवनात् २५
एवं शुक्रेण मुनिना सेवितं तीर्थमुत्तमम्
ये सेवन्ते श्रद्दधानास्ते यान्ति परमां गतिम् २६
यस्तु श्राद्धं नरो भक्त्या तस्मिंस्तीर्थे करिष्यति
पितरस्तारितास्तेन भविष्यन्ति न संशयः २७
चतुर्मुखं ब्रह्मतीर्थं सरो मर्यादया स्थितम्
ये सेवन्ते चतुर्दश्यां सोपवासा वसन्ति च २८
अष्टम्यां कृष्णपक्षस्य चैत्रे मासि द्विजोत्तमाः
ते पश्यन्ति परं सूक्ष्मं यस्मान्नावर्तते पुनः २९
स्थाणुतीर्थं ततो गच्छेत् सहस्रलिङ्गशोभितम्
तत्र स्थाणुवटं दृष्ट्वा मुक्तो भवति किल्बिषैः ३०
इति श्रीवामनपुराणे सरोमाहात्म्ये द्विचत्वारिंशत्तमोऽध्यायः


वर्गः:वामनपुराणम्

Page is sourced from

sa.wikisource.org वामनपुराणम्/द्विचत्वारिंशत्तमोऽध्यायः