वामनपुराणम्/त्रिचत्वारिंशत्तमोऽध्यायः

From HinduismPedia
Jump to navigation Jump to search

Template:वामनपुराणम्

ऋषय ऊचुः
स्थाणुतीर्थस्य माहात्म्यं वटस्य च महामुने
सान्निहत्यसरोत्पत्तिं पूरणं पांशुना ततः १
लिङ्गानां दर्शनात् पुण्यं स्पर्शनेन च किं फलम्
तथैव सरमाहात्म्यं ब्रूहि सर्वमशेषतः २
लोमहर्षण उवाच
शृण्वन्तु मुनयः सर्वे पुराणं वामनं महत्
यच्छ्रुत्वा मुक्तिमाप्नोति प्रसादाद् वामनस्य तु ३
सनत्कुमारमासीनं स्थाणोर्वटसमीपतः
ऋषिभिर्बालखिल्याद्यैर्ब्रह्मपुत्रैर्महात्मभिः ४
मार्कण्डेयो मुनिस्तत्र विनयेनाभिगम्य च
पप्रच्छ सरमाहात्म्यं प्रमाणं च स्थितिं तथा ५
मार्कण्डेय उवाच
ब्रह्मपुत्र महाभाग सर्वशास्त्रविशारद
ब्रूहि मे सरमाहात्म्यं सर्वपापक्षयावहम् ६
कानि तीर्थानि दृश्यानि गुह्यानि द्विजसत्तम
लिङ्गानि ह्यतिपुण्यानि स्थाणोर्यानि समीपतः ७
येषां दर्शनमात्रेण मुक्तिं प्राप्नोति मानवः
वटस्य दर्शनं पुण्यमुत्पत्तिं कथयस्व मे ८
प्रदक्षिणायां यत्पुण्यं तीर्थस्नानेन यत्फलम्
गुह्येषु चैव दृष्टेषु यत्पुण्यमभिजायते ९
देवदेवो यथा स्थाणुः सरोमध्ये व्यवस्थितः
किमर्थं पांशुना शक्रस्तीर्थं पूरितवान् पुनः १०
स्थाणुतीर्थस्य माहात्म्यं चक्रतीर्थस्य यत्फलम्
सूर्यतीर्थस्य माहात्म्यं सोमतीर्थस्य ब्रूहि मे ११
शंकरस्य च गुह्यानि विष्णोः स्थानानि यानि च
कथयस्व महाभाग सरस्वत्याः सविस्तरम् १२
ब्रूहि देवाधिदेवस्य माहात्म्यं देव तत्त्वतः
विरिञ्चस्य प्रसादेन विदितं सर्वमेव च १३
लोमहर्षण उवाच
मार्कण्डेयवचः श्रुत्वा ब्रह्मात्मा स महामुनिः
अतिभक्त्या तु तीर्थस्य प्रवणीकृतमानसः १४
पर्यङ्कं शिथिलीकृत्वा नमस्कृत्वा महेश्वरम्
कथयामास तत्सर्वं यच्छ्रुतं ब्रह्मणः पुरा १५
सनत्कुमार उवाच
नमस्कृत्य महादेवमीशानं वरदं शिवम्
उत्पत्तिं च प्रवक्ष्यामि तीर्थानां ब्रह्मभाषिताम् १६
पूर्वमेकार्णवे घोरे नष्टे स्थावरजङ्गमे
बृहदण्डमभूदेकं प्रजानां बीजसंभवम् १७
तस्मिन्नण्डे स्थितो ब्रह्मा शयनायोपचक्रमे
सहस्रयुगपर्यन्तं सुप्त्वा स प्रत्यबुध्यत १८
सुप्तोत्थितस्तदा ब्रह्मा शून्यं लोकमपश्यत
सृष्टिं चिन्तयतस्तस्य रजसा मोहितस्य च १९
रजः सृष्टिगुणं प्रोक्तं सत्त्वं स्थितिगुणं विदुः
उपसंहारकाले च तमोगुणः प्रवर्तते २०
गुणातीतः स भगवान् व्यापकः पुरुषः स्मृतः
तेनेदं सकलं व्याप्तं यत्किञ्चिज्जीवसंज्ञितम् २१
स ब्रह्मा स च गोविन्द ईश्वरः स सनातनः
यस्तं वेद महात्मानं स सर्वं वेद मोक्षवित् २२
किं तेषां सकलैस्तीर्थैराश्रमैर्वा प्रयोजनम्
येषामनन्तकं चित्तमात्मन्येव व्यवस्थितम् २३
आत्मा नदी संयमपुण्यतीर्था सत्योदका शीलसमाधियुक्ता
तस्यां स्नातः पुण्यकर्मा पुनाति न वारिणा शुद्ध्यति चान्तरात्मा २४
एतत्प्रधानं पुरुषस्य कर्म यदात्मसंबोधसुखे प्रविष्टम्
ज्ञेयं तदेव प्रवदन्ति सन्तस्तत्प्राप्य देही विजहाति कामान् २५
नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च
शीले स्थितिर्दण्डविधानवर्जनमक्रोधनश्चोपरमः क्रियाभ्यः २६
एतद् ब्रह्म समासेन मयोक्तं ते द्विजोत्तम
यज्ज्ञात्वा ब्रह्म परमं प्राप्स्यसि त्वं न संशयः २७
इदानीं शृणु चोत्पत्तिं ब्रह्मणः परमात्मनः
इमं चोदाहरन्त्येव श्लोकं नारायणं प्रति २८
आपो नारा वै तनव इत्येवं नाम शुश्रुमः
तासु शेते स यस्माच्च तेन नारायणः स्मृतः २९
विबुद्धः सलिले तस्मिन् विज्ञायान्तर्गतं जगत्
अण्डं बिभेद भगवांस्तस्मादोमित्यजायत ३०
ततो भूरभवत् तस्माद् भुव इत्यपरः स्मृतः
स्वः शब्दश्च तृतीयोऽभूद् भूर्भुवः स्वेति संज्ञितः ३१
तस्मात्तेजः समभवत् तत्सवितुर्वरेण्यं यत्
उदकं शोषयामास यत्तेजोऽण्डविनिःसृतम् ३२
तेजसा शोषितं शेषं कललत्वमुपागतम्
कललाद् बुद्बुदं ज्ञेयं ततः काठिन्यतां गतम् ३३
काठिन्याद् धरणी ज्ञेया भूतानां धारिणी हि सा
यस्मिन् स्थाने स्थितं ह्यण्डं तस्मिन् संनिहितं सरः ३४
यदाद्यं निःसृतं तेजस्तस्मादादित्य उच्यते
अण्डमध्ये समुत्पन्नो ब्रह्मा लोकपितामहः ३५
उल्बं तस्याभवन्मेरुर्जरायुः पर्वताः स्मृताः
गर्भोदकं समुद्रा श्च तथा नद्यः सहस्रशः ३६
नाभिस्थाने यदुदकं ब्रह्मणो निर्मलं महत्
महत्सरस्तेन पूर्णं विमलेन वराम्भसा ३७
तस्मिन् मध्ये स्थाणुरूपी वृटवृक्षो महामनः
तस्माद् विनिर्गता वर्णा ब्राह्मणाः क्षत्रिया विशः ३८
शूद्रा श्च तस्मादुत्पन्नाः शुश्रूषार्थं द्विजन्मनाम्
ततश्चिन्तयतः सृष्टिं ब्रह्मणोऽव्यक्तजन्मनः
मनसा मानसा जाताः सनकाद्या महर्षयः ३९
पुनश्चिन्तयतस्तस्य प्रजाकामस्य धीमतः
उत्पन्ना ऋषयः सप्त ते प्रजापतयोऽभवन् ४०
पुनश्चिन्तयतस्तस्य रजसा मोहितस्य च
बालखिल्याः समुत्पन्नास्तपःस्वाध्यायतत्पराः ४१
ते सदा स्नाननिरता देवार्चनपरायणाः
उपवासैर्व्रतैस्तीव्रैः शोषयन्ति कलेवरम् ४२
वानप्रस्थेन विधिना अग्निहोत्रसमन्विताः
तपसा परमेणेह शोषयन्ति कलेवरम् ४३
दिव्यं वर्षसहस्रं ते कृशा धमनिसंतताः
आराधयन्ति देवेशं न च तुष्यति शङ्करः ४४
ततः कालेन महता उमया सह शङ्करः
आकाशमार्गेण तदा दृष्ट्वा देवी सुदुःखिताः ४५
प्रसाद्य देवदेवेशं शङ्करं प्राह सुव्रता
क्लिश्यन्ते ते मुनिगणा देवदारुवनाश्रयाः ४६
तेषां क्लेशक्षयं देव विधेहि कुरु मे दयाम्
किं वेदधर्मनिष्ठानामनन्तं देव दुष्कृतम् ४७
नाद्यापि येन शुद्ध्यन्ति शुष्कस्नाय्वस्थिशोषिताः
तच्छ्रुत्वा वचनं देव्याः पिनाकी पातितान्धकः
प्रोवाच प्रहसन् मूर्ध्नि चारुचन्द्रा शुं!शोभितः ४८
श्रीमहादेव उवाच
न वेत्सि देवि तत्त्वेन धर्मस्य गहना गतिः
नैते धर्मं विजानन्ति न च कामविवर्जिताः ४९
न च क्रोधेन निर्मुक्ताः केवलं मूढबुद्धयः
एतच्छ्रुत्वाब्रवीद् देवी मा मैवं शंसितव्रतान् ५०
देव प्रदर्शयात्मानं परं कौतूहलं हि मे
स इत्युक्त उवाचेदं देवीं देवः स्मिताननः ५१
तिष्ठ त्वमत्र यास्यामि यत्रैते मुनिपुङ्गवाः
साधयन्ति तपो घोरं दर्शयिष्यामि चेष्टितम् ५२
इत्युक्ता तु ततो देवी शङ्करेण महात्मना
गच्छस्वेत्याह मुदिता भर्त्तारं भुवनेश्वरम् ५३
यत्र ते मुनयः सर्वे काष्ठलोष्टसमाः स्थिताः
अधीयाना महाभागाः कृताग्निसदनक्रियाः ५४
तान् विलोक्य ततो देवो नग्नः सर्वाङ्गसुन्दरः
वनमालाकृतापीडो युवा भिक्षाकपालभृत् ५५
आश्रमे पर्यटन् भिक्षां मुनीनां दर्शनं प्रति
देहि भिक्षां ततश्चोक्त्वा ह्याश्रमादाश्रमं ययौ ५६
तं विलोक्याश्रमगतं योषितो ब्रह्मवादिनाम्
सकौतुकस्वभावेन तस्य रूपेण मोहिताः ५७
प्रोचुः परस्परं नार्य एहि पश्याम भिक्षुकम्
परस्परमिति चोक्त्वा गृह्य मूलफलं बहु ५८
गृहाण भिक्षामूचुस्तास्तं देवं मुनियोषितः
स तु भिक्षाकपालं तं प्रसार्य बहु सादरम् ५९
देहि देहि शिवं वोऽस्तु भवतीभ्यस्तपोवने
हसमानस्तु देवेशस्तत्र देव्या निरीक्षितः
तस्मै दत्त्वैव तां भिक्षां पप्रच्छुस्तं स्मरातुराः ६०
नार्य ऊचुः
कोऽसौ नाम व्रतविधिस्त्वया तापस सेव्यते
यत्र नग्नेन लिङ्गेन वनमालाविभूषितः
भवान् वै तापसो हृद्यो हृद्याः स्मो यदि मन्यसे ६१
इत्युक्तस्तापसीभिस्तु प्रोवाच हसिताननः
इदमीदृग् व्रतं किञ्चिन्न रहस्यं प्रकाश्यते ६२
शृण्वन्ति बहवो यत्र तत्र व्याख्या न विद्यते
अस्य व्रतस्य सुभगा इति मत्वा गमिष्यथ ६३
एवमुक्तास्तदा तेन ताः प्रत्यूचुस्तदा मुनिम्
रहस्ये हि गमिष्यामो मुने नः कौतुकं महत् ६४
इत्युक्त्वा तास्तदा तं वै जगृहुः पाणिपल्लवैः
काचित् कण्ठे सकन्दर्पा बाहुभ्यामपरास्तथा ६५
जानुभ्यामपरा नार्यः केशेषु ललितापराः
अपरास्तु कटीरन्ध्रे अपराः पादयोरपि ६६
क्षोभं विलोक्य मुनय आश्रमेषु स्वयोषिताम्
हन्यतामिति संभाष्य काष्ठपाषाणपाणयः ६७
पातयन्ति स्म देवस्य लिङ्गमुद्धृत्य भीषणम्
पातिते तु ततो लिङ्गे गतोऽन्तर्धानमीश्वरः ६८
देव्या स भगवान् रुद्र ः! कैलासं नगमाश्रितः
पतिते देवदेवस्य लिङ्गे नष्टे चराचरे ६९
क्षोभो बभूव सुमहानृषीणां भावितात्मनाम्
एवं देवे तदा तत्र वर्तति व्याकुलीकृते ७०
उवाचैको मुनिवरस्तत्र बुद्धिमतां वरः
न वयं विद्मः सद्भावं तापसस्य महात्मनः ७१
विरिञ्चिं शरणं यामः स हि ज्ञास्यति चेष्टितम्
एवमुक्ताः सर्व एव ऋषयो लञ्जिता भृशम् ७२
ब्रह्मणः सदनं जग्मुर्देवैः सह निषेवितम्
प्रणिपत्याथ देवेशं लञ्जयाधोमुखाः स्थिताः ७३
अथ तान् दुःखितान् दृष्ट्वा ब्रह्मा वचनमब्रवीत्
अहो मुग्धा यदा यूयं क्रोधेन कलुषीकृताः ७४
न धर्मस्य क्रिया काचिज्ज्ञायते मूढबुद्धयः
श्रुयतां धर्मसर्वस्वं तापसाः क्रूरचेष्टिताः ७५
विदित्वा यद् बुधः क्षिप्रं धर्मस्य फलमाप्नुयात्
योऽसावात्मनि देहेऽस्मिन् विभुर्नित्यो व्यवस्थितः ७६
सोऽनादिः स महास्थाणुः पृथक्त्वे परिसूचितः
मणिर्यथोपधानेन धत्ते वर्णोज्ज्वलोऽपि वै ७७
तन्मयो भवते तद्वदात्मापि मनसा कृतः
मनसो भेदमाश्रित्य कर्मभिश्चोपचीयते ७८
ततः कर्मवशाद् भुङ्क्ते संभोगान् स्वर्गनारकान्
तन्मनः शोधयेद् धीमान् ज्ञानयोगाद्युपक्रमैः ७९
तस्मिन् शुद्धे ह्यन्तरात्मा स्वयमेव निराकुलः
न शरीरस्य संक्लेशैरपि निर्दहनात्मकैः ८०
शुद्धिमाप्नोति पुरुषः संशुद्धं यस्य नो मनः
क्रिया हि नियमार्थाय पातकेभ्यः प्रकीर्तिताः ८१
यस्मादत्याविलं देहं न शीघ्रं शुद्ध्यते किल
तेन लोकेषु मार्गोऽयं सत्पथस्य प्रवर्तितः ८२
वर्णाश्रमविभागोऽयं लोकाध्यक्षेण केनचित्
निर्मितो मोहमाहात्म्यं चिह्नं चोत्तमभागिनाम् ८३
भवन्तः क्रोधकामाभ्यामभिभूताश्रमे स्थिताः
ज्ञानिनामाश्रमो वेश्म अनाश्रममयोगिनाम् ८४
क्व च न्यस्तसमस्तेच्छा क्व च नारीमयो भ्रमः
क्व क्रोधमीदृशं घोरं येनात्मानं न जायथ ८५
यत्क्रोधनो यजति यद् ददाति यद् वा तपस्तपति यज्जुहोति
न तस्य प्राप्नोति फलं हि लोके मोघं फलं तस्य हि क्रोधनस्य ८६
इति श्रीवामनपुराणे सरोमाहात्म्ये त्रिचत्वारिंशत्तमोऽध्यायः

वर्गः:वामनपुराणम्

Page is sourced from

sa.wikisource.org वामनपुराणम्/त्रिचत्वारिंशत्तमोऽध्यायः