वामनपुराणम्/त्रिंशत्तमोऽध्यायः

From HinduismPedia
Jump to navigation Jump to search

Template:वामनपुराणम्

लोमहर्षण उवाच
इति दैत्यपतिः श्रुत्वा वचनं रौद्र मप्रियम्
प्रसादयामास गुरुं प्रणिपत्य पुनः पुनः १
बलिरुवाच
प्रसीद तात मा कोपं कुरु मोहहते मयि
बलावलेपमूढेन मयैतद्वाक्यमीरितम् २
मोहापहतविज्ञानः पपोऽहं दितिजोत्तम
यच्छप्तोऽस्मि दुराचारस्तत्साधु भवता कृतम् ३
राज्यभ्रंशं यशोभ्रंशं प्राप्स्यामीति ततस्त्वहम्
विषण्णोऽसि यथा तात तथैवाविनये कृते ४
त्रैलोक्यराज्यमैश्वर्यमन्यद्वा नातिदुर्लभम्
संसारे दुर्लभास्तात गुरवो ये भवद्विधाः ५
प्रसीद तात मा कोपं कर्तुमर्हसि दैत्यप
त्वत्कोपपरिदग्धोऽहं परितप्ये दिवानिशम् ६
प्रह्लाद उवाच
वत्स कोपेन मे मोहो जनितस्तेन ते मया
शापो दत्तो विवेकश्च मोहेनापहृतो मम ७
यदि मोहेन मे ज्ञानं नाक्षिप्तं स्यान्महासुर
तत्कथं सर्वगं जानन् हरिं कच्चिच्छपाम्यहम् ८
यो यः शापो मया दत्तो भवतोऽसुरपुङ्गव
भाव्यमेतेन नूनं ते तस्मात्त्वं मा विषीद वै ९
अद्यप्रभृति देवेशे भगवत्यच्युते हरौ
भवेथा भक्तिमानीशे स ते त्राता भविष्यति १०
शापं प्राप्य च मे वीर देवेशः संस्मृतस्त्वया
तथा तथा वदिष्यामि श्रेयस्त्वं प्राप्स्यसे यथा ११
लोमहर्षण उवाच
अदितिर्वरमासाद्य सर्वकामसमृद्धिदम्
क्रमेण ह्युदरे देवो वृद्धिं प्राप्तो महायशाः १२
ततो मासेऽथ दशमे काले प्रसव आगते
अजायत स गोविन्दो भगवान् वामनाकृतिः १३
अवतीर्णे जगन्नाथे तस्मिन् सर्वामरेश्वरे
देवाश्च मुमुचुर्दुःखं देवमातादितिस्तथा १४
ववुर्वाताः सुखस्पर्शा नीरजस्कमभून्नभः
धर्मे च सर्वभूतानां तदा मतिरजायत १५
नोद्वेगश्चाप्यभूद् देहे मनुजानां द्विजोत्तमाः
तदा हि सर्वभूतानां धर्मे मतिरजायत १६
तं जातमात्रं भगवान् ब्रह्मा लोकपितामहः
जातकर्मादिकां कृत्वा क्रियां तुष्टाव च प्रभुम् १७
ब्रह्मोवाच
जयाधीश जयाजेय जय विश्वगुरो हरे
जन्ममृत्युजरातीत जयानन्त जयाच्युत १८
जयाजित जयाशेष जयाव्यक्तस्थिते जय
परमार्थार्थ सर्वज्ञ ज्ञानज्ञेयार्थनिःसृत १९
जयाशेष जगत्साक्षिञ्जगत्कर्तर्जगद्गुरो
जगतोऽजगदन्तेश स्थितौ पालयते जय २०
जयाखिल जयाशेष जय सर्वहृदिस्थित
जयादिमध्यान्तमय सर्वज्ञानमयोत्तम २१
मुमुक्षुभिरनिर्देश्य नित्यहृष्ट जयेश्वर
योगिभिर्मुक्तिकामैस्तु दमादिगुणभूषण २२
जयातिसूक्ष्म दुर्ज्ञेय जय स्थूल जगन्मय
जय सूक्ष्मातिसूक्ष्म त्वं जयानिन्द्रि य सेन्द्रि य २३
जय स्वमायायोगस्थ शेषभोग जयाक्षर
जयैकदंष्ट्रप्रान्तेन समुद्धृतवसुंधर २४
नृकेसरिन् सुरारातिवक्षःस्थलविदारण
साम्प्रतं जय विश्वात्मन् मायावामन केशव २५
निजमायापरिच्छिन्न जगद्धातर्जनार्दन
जयाचिन्त्य जयानेकस्वरूपैकविध प्रभो २६
वर्द्धस्व वर्धितानेकविकारप्रकृते हरे
त्वय्येषा जगतामीशे संस्थिता धर्मपद्धतिः २७
न त्वामहं न चेशानो नेन्द्रा द्यास्त्रिदशा हरे
ज्ञातुमीशा न मुनयः सनकाद्या न योगिनः २८
त्वं मायापटसंवीतो जगत्यत्र जगत्पते
कस्त्वां वेत्स्यति सर्वेश त्वत्प्रसादं विना नरः २९
त्वमेवाराधितो यस्य प्रसादसुमुखः प्रभो
स एव केवलं देवं वेत्ति त्वां नेतरो जनः ३०
तदीश्वरेश्वरेशान विभो वर्द्धस्व भावन
प्रभवायास्य विश्वस्य विश्वात्मन् पृथुलोचन ३१
लोमहर्षण उवाच
एवं स्तुतो हृषीकेशः स तदा वामनाकृतिः
प्रहस्य भावगम्भीरमुवाचारूढसंपदम् ३२
स्तुतोऽहं भवता पूर्वमिन्द्रा द्यैः कश्यपेन च
मया च वः प्रतिज्ञातमिन्द्र स्य भुवनत्रयम् ३३
भूयश्चाहं स्तुतोऽदित्या तस्याश्चापि मयाश्रुतम्
यथा शक्राय दास्यामि त्रैलोक्यं हतकण्टकम् ३४
सोऽहं तथा करिष्यामि यथेन्द्रो जगतः पतिः
भविष्यति सहस्राक्षः सत्यमेतद् ब्रवीमि वः ३५
ततः कृष्णाजिनं ब्रह्मा हृषीकेशाय दत्तवान्
यज्ञोपवीतं भगवान् ददौ तस्य बृहस्पतिः ३६
आषाढमददाद् दण्डं मरीचिर्ब्रह्मणः सुतः
कमण्डलुं वसिष्ठश्च कौशं चीरमथाङ्गिराः
आसनं चैव पुलहः पुलस्त्यः पीतवाससी ३७
उपतस्थुश्च तं वेदाः प्रणवस्वरभूषणाः
शास्त्राण्यशेषाणि तथा सांख्ययोगोक्तयश्च याः ३८
स वामनो जटी दण्डी छत्री धृतकमण्डलुः
सर्वदेवमयो देवो बलेरध्वरमभ्यगात् ३९
यत्र यत्र पदं विप्रा भूभागे वामनो ददौ
ददाति भूमिर्विवरं तत्र तत्राभिपीडिता ४०
स वामनो जडगतिर्मृदु गच्छन् सपर्वताम्
साब्धिद्वीपवतीं सर्वां चालयामास मेदिनीम् ४१
बृहस्पतिस्तु शनकैर्मार्गं दर्शयते शुभम्
तथा क्रीडाविनोदार्थमतिजाड्यगतोऽभवत् ४२
ततः शेषो महानागो निःसृत्यासौ रसातलात्
साहाय्यं कल्पयामास देवदेवस्य चक्रिणः ४३
तदद्यापि च विख्यातमहेर्विलमनुत्तमम्
तस्य संदर्शनादेव नागेभ्यो न भयं भवेत् ४४
इति श्रीवामनपुराणे सरोमाहात्म्ये त्रिंशत्तमोऽध्यायः


वर्गः:वामनपुराणम्

Page is sourced from

sa.wikisource.org वामनपुराणम्/त्रिंशत्तमोऽध्यायः