वामनपुराणम्/त्रयस्त्रिंशत्तमोऽध्यायः

From HinduismPedia
Jump to navigation Jump to search

Template:वामनपुराणम्

लोमहर्षण उवाच
इत्यृषेर्वचनं श्रुत्वा मार्कण्डेयस्य धीमतः
नदी प्रवाहसंयुक्ता कुरुक्षेत्रं विवेश ह १
तत्र सा रन्तुकं प्राप्य पुण्यतोया सरस्वती
कुरक्षेत्रं समाप्लाव्य प्रयाता पश्चिमां दिशम् २
तत्र तीर्थसहस्राणि ऋषिभिः सेवितानि च
तान्यहं कीर्तयिष्यामि प्रसादात् परमेष्ठिनः ३
तीर्थानां स्मरणं पुण्यं दर्शनं पापनाशनम्
स्नानं मुक्तिकरं प्रोक्तमपि दुष्कृतकर्मणः ४
ये स्मरन्ति च तीर्थानि देवताः प्रीणयन्ति च
स्नान्ति च श्रद्दधानाश्च ते यान्ति परमां गतिम् ५
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा
यः स्मरेत् कुरुक्षेत्रं स बाह्याभ्यन्तरः शुचिः ६
कुरुक्षत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्
इत्येवं वाचमुत्सृज्य सर्वपाषैः प्रमुच्यते ७
ब्रह्मज्ञानं गयाश्राद्धं गोग्रहे मरणं तथा
वासः पुंसां कुरुक्षेत्रे मुक्तिरुक्ता चतुर्विधा ८
सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम्
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ९
दूरस्थोऽपि कुरुक्षेत्रे गच्छामि च वसाम्यहम्
एवं यः सततं ब्रूयात् सोऽपि पापैः प्रमुच्यते १०
तत्र चैव सरःस्नायी सरस्वत्यास्तटे स्थितः
तस्य ज्ञानं ब्रह्ममयमुत्पत्स्यति न संशयः ११
देवता ऋषयः सिद्धाः सेवन्ते कुरुजाङ्गलम्
तस्य संसेवनान्नित्यं ब्रह्म चात्मनि पश्यति १२
चञ्चलं हि मनुष्यत्वं प्राप्य ये मोक्षकाङ्किणः
सेवन्ति नियतात्मानो अपि दुष्कृतकारिणः १३
ते विमुक्ताश्च कलुषैरनेकजन्मसंभवैः
पश्यन्ति निर्मलं देवं हृदयस्थं सनातनम् १४
ब्रह्मवेदिः कुरुक्षेत्रं पुण्यं सान्निहितं सरः
सेवमाना नरा नित्यं प्राप्नुवन्ति परं पदम् १५
ग्रहनक्षत्रताराणां कालेन पतनाद् भयम्
कुरुक्षेत्रे मृतानां च पतनं नैव विद्यते १६
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः
गन्धर्वाप्सरसो यक्षाः सेवन्ति स्थानकाङ्क्षिणः १७
गत्वा तु श्रद्धया युक्तः स्नात्वा स्थाणुमहाह्रदे
मनसा चिन्तितं कामं लभते नात्र संशयः १८
नियमं च ततः कृत्वा गत्वा सरः प्रदक्षिणम्
रन्तुकं च समासाद्य क्षामयित्वा पुनः पुनः १९
सरस्वत्यां नरः स्नात्वा यक्षं दृष्ट्वा प्रणम्य च
पुष्पं धूपं च नैवैद्यं दत्वा वाचमुदीरयेत् २०
तव प्रसादाद् यक्षेन्द्र वनानि सरितश्च याः
भ्रमिष्यामि च तीर्थानि अविघ्नं कुरु मे सदा २१
इति श्रीवामनपुराणे सरोमाहात्म्ये त्रयस्त्रिंशत्तमोऽध्यायः


वर्गः:वामनपुराणम्

Page is sourced from

sa.wikisource.org वामनपुराणम्/त्रयस्त्रिंशत्तमोऽध्यायः