वामनपुराणम्/चतुस्त्रिंशत्तमोऽध्यायः

From HinduismPedia
Jump to navigation Jump to search

Template:वामनपुराणम्

ऋषय ऊचुः
वनानि सप्त नो ब्रूहि नव नद्यश्च याः स्मृताः
तीर्थानि च समग्राणि तीर्थस्नानफलं तथा १
येन येन विधानेन यस्य तीर्थस्य यत् फलम्
तत् सर्वं विस्तरेणेह ब्रूहि पौराणिकोत्तम २
लोमहर्षण उवाच
शृणु सप्त वनानीह कुरुक्षेत्रस्य मध्यतः
येषां नामानि पुण्यानि सर्वपापहराणि च ३
काम्यकं च वनं पुण्यं तथादितिवनं महत्
व्यासस्य च वनं पुण्यं फलकीवनमेव च ४
तत्र सूर्यवनस्थानं तथा मधुवनं महत्
पुण्यं शीतवनं नाम सर्वकल्मषनाशनम् ५
वनान्येतानि वै सप्त नदीः शृणुत मे द्विजाः
सरस्वती नदी पुण्या तथा वैतरणी नदी ६
आपगा च महापुण्या गङ्गा मन्दाकिनी नदी
मधुस्रवा वासुनदी कौशिकी पापनाशिनी ७
दृषद्वती महापुण्या तथा हिरण्वती नदी
वर्षाकालवहाः सर्वा वर्जयित्वा सरस्वतीम् ८
एतासामुदकं पुण्यं प्रावृट्काले प्रकीर्तितम्
रजस्वलत्वमेतासां विद्यते न कदाचन
तीर्थस्य च प्रभावेण पुण्या ह्येताः सरिद्वराः ९
शृण्वन्तु मुनयः प्रीतास्तीर्थस्नानफलं महत्
गमनं स्मरणं चैव सर्वकल्मषनाशनम् १०
रन्तुकं च नरो दृष्ट्वा द्वारपालं महाबलम्
यक्षं समभिवाद्यैव तीर्थयात्रां समाचरेत् ११
ततो गच्छेत विप्रेन्द्रा नाम्नादितिवनं महत्
अदित्या यत्र पुत्रार्थं कृतं घोरं महत्तपः १२
तत्र स्नात्वा च दृष्ट्वा च अदितिं देवमातरम्
पुत्रं जनयते शूरं सर्वदोषिविवर्जितम्
आदित्यशतसंकाशं विमानं चाधिरोहति १३
ततो गच्छेत विप्रेन्द्रा विष्णोः स्थानमनुत्तमम्
सवनं नाम विख्यातं यत्र संनिहितो हरिः १४
विमले च नरः स्नात्वा दृष्ट्वा च विमलेश्वरम्
निर्मलं स्वर्गमायाति रुद्र लोकं च गच्छति १५
हरिं च बलदेवं च एकत्राससमन्वितौ
दृष्ट्वा मोक्षमवाप्नोति कलिकल्मषसंभवैः १६
ततः पारिप्लवं गच्छेत् तीर्थं त्रैलोक्यविश्रुतम्
तत्र स्नात्वा च दृष्ट्वा च ब्रह्माणं वेदसंयुतम् १७
ब्रह्मवेदफलं प्राप्य निर्मलं स्वर्गमाप्नुयात्
तत्रापि संगमं प्राप्य कौशिक्यां तीर्थसंभवम्
संगमे च नरः स्नात्वा प्राप्नोति परमं पदम् १८
धरण्यास्तीर्थमासाद्य सर्वपापविमोचनम्
क्षान्तियुक्तो नरः स्नात्वा प्राप्नोति परमं पदम् १९
धरण्यामपराधानि कृतानि पुरुषेण वै
सर्वाणि क्षमते तस्य स्नातमात्रस्य देहिनः २०
ततो दक्षाश्रमं गत्वा दृष्ट्वा दक्षेश्वरं शिवम्
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः २१
ततः शालूकिनीं गत्वा स्नात्वा तीर्थे द्विजोत्तमाः
हरिं हरेण संयुक्तं पूज्य भक्तिसमन्वितः
प्राप्नोत्यभिमताँ ल्लोकान् सर्वपापविवर्जितान् २२
सर्पिर्दधि समासाद्य नागानां तीर्थमुत्तमम्
तत्र स्नानं नरः कृत्वा मुक्तो नागभयाद् भवेत् २३
ततो गच्छेत विप्रेन्द्रा द्वारपालं तु रन्तुकम्
तत्रोष्य रजनीमेकां स्नात्वा तीर्थवरे शुभे २४
द्वितीयं पूजयेद् यत्र द्वारपालं प्रयत्नतः
ब्राह्मणान् भोजयित्वा च प्रणिपत्य क्षमापयेत् २५
तव प्रसादाद् यक्षेन्द्र मुक्तो भवति किल्बिषैः
सिद्धिर्मयाभिलषिता तया सार्द्धं भवाम्यहम्
एवं प्रसाद्य यक्षेन्द्रं ततः पञ्चनदं व्रजेत् २६
पञ्चनदाश्च रुद्रे ण कृता दानवभीषणाः
तत्र सर्वेषु लोकेषु तीर्थं पञ्चनदं स्मृतम् २७
कोटितीर्थानि रुद्रे ण समाहृत्य यतः स्थितम्
तेन त्रैलोक्यविख्यातं कोटितीर्थं प्रचक्षते २८
तस्मिन् तीर्थे नरः स्नात्वा दृष्ट्वा कोटीश्वरं हरम्
पञ्चयज्ञानवाप्नोति नित्यं श्रद्धासमन्वितः २९
तत्रैव वामनो देवः सर्वदेवैः प्रतिष्ठितः
तत्रापि च नरः स्नात्वा ह्यग्निष्टोमफलं लभेत् ३०
अश्विनोस्तीर्थमासाद्य श्रद्धावान् यो जितेन्द्रि यः
रूपस्य भागी भवति यशस्वी च भवेन्नरः ३१
वाराहं तीर्थमाख्यातं विष्णुना परिकीर्तितम्
तस्मिन् स्नात्वा श्रद्दधानः प्राप्नोति परमं पदम् ३२
ततो गच्छेत विप्रेन्द्रा ः! सोमतीर्थमनुत्तमम्
यत्र सोमस्तपस्तप्त्वा व्याधिमुक्तोऽभवत् पुरा ३३
तत्र सोमेश्वरं दृष्ट्वा स्नात्वा तीर्थवरे शुभे
राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ३४
व्याधिभिश्च विनिर्मुक्तः सर्वदोषविवर्जितः
सोमलोकमपाप्नोति तत्रैव रमते चिरम् ३५
भूतेश्वरं च तत्रैव ज्वालामालेश्वरं तथा
तावुभौ लिङ्गावभ्यर्च्य न भूयो जन्म चाप्नुयात् ३६
एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत्
कृतशौचं समासाद्य तीर्थसेवी द्विजोत्तमः ३७
पुण्डरीकमवाप्नोति कृकशौचो भवेन्नरः
ततो मुञ्जवटं नाम महादेवस्य धीमतः ३८
उपोष्य रजनीमेकां गाणपत्यमवाप्नयात्
तत्रैव च महाग्राही यक्षिणी लोकविश्रुता ३९
स्नात्वाभिगत्वा तत्रैव प्रसाद्य यक्षिणीं ततः
उपवासं च तत्रैव महापातकनाशनम् ४०
कुरुक्षेत्रस्य तद् द्वारं विश्रुतं पुण्यवर्द्धनम्
प्रदक्षिणमुपावर्त्य ब्राह्मणान् भोजयेत् ततः
पुष्करं च ततो गत्वा अभ्यर्च्य पितृदेवताः ४१
जामदग्न्येन रामेण आहृतं तन्महात्मना
कृतकृत्यो भवेद् राजा अश्वमेधं च विन्दति ४२
कन्यादानं च यस्तत्र कार्तिक्यां वै करिष्यति
प्रसन्ना देवतास्तस्य दास्यन्त्यभिमतं फलम् ४३
कपिलश्च महायक्षो द्वारपालः स्वयं स्थितः
विघ्नं करोति पापानां दुर्गतिं च प्रयच्छति ४४
पत्नी तस्य महायक्षी नाम्नोदूखलमेखला
आहत्य दुन्दुभिं तत्र भ्रमते नित्यमेव हि ४५
सा ददर्श स्त्रियं चैकां सपुत्रां पापदेशजाम्
तामुवाच तदा यक्षी आहत्य निशि दुन्दुभिम् ४६
युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले
तद्वद् भूतालये स्नात्वा सपुत्रा वस्तुमिच्छसि ४७
दिवा मया ते कथितं रात्रौ भक्ष्यामि निश्चितम्
एतच्छ्रुत्वा तु वचनं प्रणिपत्य च यक्षिणीम् ४८
उवाच दीनया वाचा प्रसादं कुरु भामिनि
ततः सा यक्षिणी तां तु प्रोवाच कृपयान्विता ४९
यदा सूर्यस्य ग्रहणं कालेन भविता क्वचित्
संनिहत्यां तदा स्नात्वा पूता स्वर्गं गमिष्यसि ५०
इति श्रीवामनपुराणे सरोमाहात्म्ये चतुस्त्रिंशत्तमोऽध्यायः


वर्गः:वामनपुराणम्

Page is sourced from

sa.wikisource.org वामनपुराणम्/चतुस्त्रिंशत्तमोऽध्यायः