वामनपुराणम्/चतुरशीतितमोऽध्यायः

From HinduismPedia
Jump to navigation Jump to search

Template:वामनपुराणम्

पुलस्त्यस्य उवाच।।
गते च तीर्थयात्रायां प्रह्लादे दानवेश्वरे ।।
कुरुक्षेत्रे समभ्यागाद्द्रष्टुं वैरोचनो मुने।। १ ।।
तस्मिन्महाधर्म युते तीर्थे ब्राह्मणपुङ्गवः ।।
शुक्रो द्विजातिप्रवरानामन्त्रयत भार्गवः ।। २ ।।
भृगुणाऽऽमन्त्र्यमाणास्ते श्रुत्वाऽऽत्रेयसगौतमाः ।।
कौशिकाङ्गिरसश्चैव तत्त्वज्ञाः कुरुजाङ्गलम् ।। ३ ।।
उत्तराशां प्रजग्मुस्ते नदीमनु शतद्रवीम् ।।
शातद्रवे जले स्नात्वा विवासं प्रययुस्ततः ।। ४ ।।
विज्ञाय तत्रास्य रतिं स्नात्वाऽर्च्य पितृदेवताः ।।
ततोऽपि किरणां पुण्यां दिनेशकिरणव्युताम् ।। ५ ।।
तस्यां स्नात्वा च देवर्षे सर्व एव महर्षयः ।।
सुपुण्योदां वेगवतीं स्नात्वा जग्मुरथेश्वरीम् ।। ६ ।।
देविकायाजले स्नात्वा पयोष्णायां च तापसाः ।।
अवतीर्णा मुने स्नातुं माधवाद्याः सुभानवीम् ।।७।।
ततो निमग्ना ददृशुः प्रतिबिम्बमथात्मनः ।।
अन्तर्जले द्विजश्रेष्ठ महदाश्चर्यकार कम् ।। ८ ।।
उन्मज्जन्तश्च ददृशुः पुनर्विस्मितमानसाः ।।
ततः स्नात्वा समुत्तीर्णा ऋषयः सर्व एव हि ।। ९ ।।
पुष्कराक्षमयोगन्धिं ब्रह्माणं चाप्यपूजयत्
ततो भूयः सरस्वत्यास्तीर्थे त्रैलोक्यविश्रुते १०
कोटितीर्थे रुद्र कोटिं ददर्श वृषभध्वजम्
नैमिषेया द्विजवरा मागधेयाः ससैन्धवाः
धर्मारण्याः पौष्करेया दण्डकारण्यकास्तथा
चाम्पेया भारुकच्छेया देविकातीरगाश्च ये १२
ते तत्र शङ्करं द्र ष्टुं समायाता द्विजातयः
कोटिसंख्यास्तपःसिद्धा हरदर्शनलालसाः १३
अहं पूर्वमहं पूर्वमित्येवं वादिनो मुने
तान् संक्षुब्धान् हरो दृष्ट्वा महर्षीन् दग्धकिल्बिषान् १४
तेषामेवानुकम्पार्थं कोटिमूर्त्तिरभूद् भवः
ततस्ते मुनयः प्रीताः सर्व एव महेश्वरम् १५
संपूजयन्तस्तस्थुर्वै तीर्थं कृत्वा पृथक् पृथक्
इत्येवं रुद्र कोटीति नाम्ना शंभुरजायत १६
तं ददर्श महातेजाः प्रह्लादो भक्तिमान् वशी
कोटितीर्थे ततः स्नात्वा तर्पयित्वा वसून् पितॄन्
रुद्र कोटिं समभ्यर्च्य जगाम कुरुजाङ्गलम् ४०
तत्र देववरं स्थाणुं शङ्करं पार्वतीप्रियम्
सरस्वतीजले मग्नं ददर्श सुरपूजितम् ४१
सारस्वतेऽम्भसि स्नात्वा स्थाणुं संपूज्य भक्तितः
स्नात्वा दशाश्वमेधे च संपूज्य च सुरान् पितॄन् ४२
सहस्रलिङ्गं संपूज्य स्नात्वा कन्याह्रदे शुचिः
अभिवाद्य गुरुं शुक्रं सोमतीर्थं जगाम ह २०
तत्र स्नात्वाऽर्च्य च पितॄन् सोमं संपूज्य भक्तितः
क्षीरिकावासमभ्येत्य स्नानं चक्रे महायशाः २१
प्रदक्षिणीकृत्य तरुं वरुणं चार्च्य बुद्धिमान्
भूयः कुरुध्वजं दृष्ट्वा पद्माख्यां नगरीं गतः ४५
तत्रार्च्य मित्रावरुणौ भास्करौ लोकपूजितौ
कुमारधारामभ्येत्य ददर्श स्वामिनं वशी ४६
स्नात्वा कपिलधारायां संतर्प्यार्च्य पितॄन् सुरान्
दृष्ट्वा स्कन्दं समभ्यर्च्य नर्मदायां जगाम ह ४७
तस्यां स्नात्वा समभ्यर्च्य वासुदेवं श्रियः पतिम्
जगाम भूधरं द्र ष्टुं वाराहं चक्रधारिणम् २५
स्नात्वा कोकामुखे तीर्थे संपूज्य धरणीधरम्
त्रिसौवर्णं महादेवमर्बुदेशं जगाम ह ४९
तत्र नारीह्रदे स्नात्वा पूजयित्वा च शङ्करम्
कालिञ्जरं समभ्येत्य नीलकण्ठं ददर्श सः ५०
नीलतीर्थजले स्नात्वा पूजयित्वा ततः शिवम्
जगाम सागरानूपे प्रभासे द्र ष्टुमीश्वरम् ५१
स्नात्वा च संगमे नद्याः सरस्वत्यार्णवस्य च
सोमेश्वरं लोकपतिं ददर्श स कपर्दिनम् ५२
यो दक्षशापनिर्दग्धः क्षयी ताराधिपः शशी
आप्यायितः शङ्करेण विष्णुना सकपर्दिना ३०
तावर्च्य देवप्रवरौ प्रजगाम महालयम्
तत्र रुद्रं समभ्यर्च्य प्रजगामोत्तरान् कुरून् ३१
पद्मनाभं स तत्रार्च्य सप्तगोदावरं ययौ
तत्र स्नात्वाऽर्च्य विश्वेशं भीमं त्रैलोक्यवन्दितम् ५५
गत्वा दारुवने श्रीमान् लिङ्गं स ददर्श ह
तमर्च्य ब्राह्मणीं गत्वा स्नात्वाऽर्च्य त्रिदशेश्वरम् ५६
प्लक्षावतरणं गत्वा श्रीनिवासमपूजयत्
ततश्च कुण्डिनं गत्वा संपूज्य प्राणतृप्तिदम् ५७
शूर्पारके चतुर्बाहुं पूजयित्वा विधानतः
मागधारण्यमासाद्य ददर्श वसुधाधिपम् ३५
तमर्चयित्वा विश्वेशं स जगाम प्रजामुखम्
महातीर्थे ततः स्नात्वा वासुदेवं प्रणम्य च ५९
शोणं संप्राप्य संपूज्य स्कमवर्माणमीश्वरम्
महाकोश्यां महादेवं हंसाख्यं भक्तिमानथ ६०
पूजयित्वा जगामाथ सैन्धवारण्यमुत्तमम्
तत्रेश्वरं सुनेत्राख्यं शङ्खशूलधरं गुरुम्
पूजयित्वा महाबाहुः प्रजगाम त्रिविष्टपम् ६१
तत्र देवं महेशानं जटाधरमिति श्रुतम्
तं दृष्ट्वाऽर्च्य हरिं चासौ तीर्थं कनखलं ययौ ६२
तत्रार्च्य भद्र कालीशं वीरभद्रं च दानवः
धनाधिपं च मेघाङ्कं ययावथ गिरिव्रजम् ६३
तत्र देवं पशुपतिं लोकनाथं महेश्वरम्
संपूजयित्वा विधिवत्कामरूपं जगाम ह ४०
शशिप्रभं देववरं त्रिनेत्रं संपूजयित्वा सह वै मृडान्या
जगाम तीर्थप्रवरं महाख्यं तस्मिन् महादेवमपूजयत्सः ६५
ततस्त्रिकूटं गिरिमत्रिपुत्रं जगाम द्र ष्टुं स हि चक्रपाणिनम्
तमीड्य भक्त्या तु गजेन्द्र मोक्षणं जजाप जप्यं परमं पवित्रम् ६६
तत्रोष्य दैत्येश्वरसूनुरादरान्मासत्रयं मूलफलाम्बुभक्षी
निवेद्य विप्रप्रवरेषु काञ्चनं जगाम घोरं स हि दण्डकं वनम् ६७
तत्र दिव्यं महाशाखं वनस्पतिवपुर्धरम्
ददर्श पुण्डरीकाक्षं महाश्वापदवारणम् ६८
तस्याधस्थात् त्रिरात्रं स महाभागवतोऽसुरः
स्थितः स्थण्डिलशायी तु पठन् सारस्वतं स्तवम् ४५
तस्मात् तीर्थवरं विद्वान् सर्वपापप्रमोचनम्
जगाम दानवो द्र ष्टुं सर्वपापहरं हरिम् ७०
तस्याग्रतो जजापासौ स्तवौ पापप्रणाशनौ
यौ पुरा भगवान् प्राह क्रोडरूपी जनार्दनः ७१
तस्मादथागाद् दैत्येन्द्र ः! शालग्रामं महाफलम्
यत्र संनिहितो विष्णुश्चरेषु स्थावरेषु च ७२
तत्र सर्वगतं विष्णुं मत्वा चक्रे रतिं बली
पूजयन् भगवत्पादौ महाभागवतो मुने ७३
इयं तवोक्ता मुनिसंघजुष्टा प्रह्लादतीर्थानुगतिः सुपुण्या
यत्कीर्त्तनाच्छ्रवणात् स्पर्शनाच्च विमुक्तपापा मनुजा भवन्ति ५०
इति श्रीवामनपुराणे चतुरशीतितमोऽध्यायः


वर्गः:वामनपुराणम्

Page is sourced from

sa.wikisource.org वामनपुराणम्/चतुरशीतितमोऽध्यायः