वामनपुराणम्/एकचत्वारिंशत्तमोऽध्यायः

From HinduismPedia
Jump to navigation Jump to search

Template:वामनपुराणम्

लोमहर्षण उवाच
समुद्रा स्तत्र चत्वारो दर्विणा आहृताः पुरा
प्रत्येकं तु नरः स्नातो गोसहस्रफलं लभेत् १
यत्किञ्चित् क्रियते तस्मिंस्तपस्तीर्थे द्विजोत्तमाः
परिपूर्णं हि तत्सर्वमपि दुष्कृतकर्मणः २
शतसाहस्रिकं तीर्थं तथैव शतिकं द्विजाः
उभयोर्हि नरः स्नातो गोसहस्रफलं लभेत् ३
सोमतीर्थं च तत्रापि सरस्वत्यास्तटे स्थितम्
यस्मिन् स्नातस्तु पुरुषो राजसूयफलं लभेत् ४
रेणुकाश्रममासाद्य श्रद्दधानो जितेन्द्रि यः
मातृभक्त्या च यत्पुण्यं तत्फलं प्राप्नुयान्नरः ५
ऋणमोचनमासाद्य तीर्थं ब्रह्मनिषेवितम्
ऋणैर्मुक्तो भवेन्नित्यं देवर्षिपितृसंभवैः
कुमारस्याभिषेकं च ओजसं नाम विश्रुतम् ६
तस्मिन् स्नातस्तु पुरुषो यशसा च समन्वितः
कुमारपुरमाप्नोति कृत्वा श्राद्धं तु मानवः ७
चैत्रषष्ठ्यां सिते पक्षे यस्तु श्राद्धं करिष्यति
गयाश्राद्धे च यत्पुण्यं तत्पुण्यं प्राप्नुयान्नरः ८
संनिहित्यां यथा श्राद्धं राहुग्रस्ते दिवाकरे
तथा श्राद्धं तत्र कृतं नात्र कार्या विचारणा ९
ओजसे ह्यक्षयं श्राद्धं वायुना कथितं पुरा
तस्मात् सर्वप्रयत्नेन श्राद्धं तत्र समाचरेत् १०
यस्तु स्नानं श्रद्दधानश्चैत्रषष्ठ्यां करिष्यति
अक्षय्यमुदकं तस्य पितॄणामुपजायते ११
तत्र पञ्चवटं नाम तीर्थं त्रैलोक्यविश्रुतम्
महादेवः स्थितो यत्र योगमूर्तिधरः स्वयम् १२
तत्र स्नात्वाऽर्चयित्वा च देवदेवं महेश्वरम्
गाणपत्यमवाप्नोति दैवतैः सह मोदते १३
कुरुतीर्थं च विख्यातं कुरुणा यत्र वै तपः
तप्तं सुघोरं क्षेत्रस्य कर्षणार्थं द्विजोत्तमाः १४
तस्य घोरेण तपसा तुष्ट इन्द्रो ऽब्रवीद् वचः
राजर्षे परितुष्टोऽस्मि तपसानेन सुव्रत १५
यज्ञं ये च कुरुक्षेत्रे करिष्यन्ति शतक्रतोः
ते गमिष्यन्ति सुकृताँ ल्लोकान् पापविवर्जितान् १६
अवहस्य ततः शक्रो जगाम त्रिदिवं प्रभुः
आगम्यागम्य चैवैनं भूयो भूयोऽवहस्य च १७
शतक्रतुरनिर्विण्णः पृष्ट्वा पृष्ट्वा जगाम ह
यदा तु तपसोग्रेण चकर्ष देहमात्मनः
ततः शक्रोऽब्रवीत् प्रीत्या ब्रूहि यत्ते चिकीर्षितम् १८
कुरुरुवाच
ये श्रद्दधानास्तीर्थेऽस्मिन् मानवा निवसन्ति ह
ते प्राप्नुवन्तु सदनं ब्रह्मणः परमात्मनः १९
अन्यत्र कृतपापा ये पञ्चपातकदूषिताः
अस्मिंस्तीर्थे नराः स्नात्वा मुक्ता यान्तु परां गतिम् २०
कुरुक्षेत्रे पुण्यतमं कुरुतीर्थं द्विजोत्तमाः
ते दृष्ट्वा पापमुक्तस्तु परं पदमवाप्नुयात् २१
कुरुतीर्थे नरः स्नातो मुक्तो भवति किल्बिषैः
कुरुणा समनुज्ञातः प्राप्नोति परमं पदम् २२
स्वर्गद्वारं ततो गच्छेत् शिवद्वारे व्यवस्थितम्
तत्र स्नात्वा शिवद्वारे प्राप्नोति परमं पदम् २३
ततो गच्छेदनरकं तीर्थं त्रैलोक्यविश्रुतम्
यत्र पूर्वे स्थितो ब्रह्म दक्षिणे तु महेश्वरः २४
रुद्र पत्नी पश्चिमतः पद्मनाभोत्तरे स्थितः
मध्ये अनरकं तीर्थं त्रैलोक्यस्यापि दुर्लभम् २५
यस्मिन् स्नातस्तु मुच्येत पातकैरुपपातकैः
वैशाखे च यदा षष्ठी मङ्गलस्य दिनं भवेत् २६
तदा स्नानं तत्र कृत्वा मुक्तो भवति पातकैः
यः प्रयच्छेत करकांश्चतुरो भक्ष्यसंयुतान् २७
कलशं च तथा दद्यादपूपैः परिशोभितम्
देवताः प्रीणयेत् पूर्वं करकैरन्नसंयुतैः २८
ततस्तु कलशं दद्यात् सर्वपातकनाशनम्
अनेनैव विधानेन यस्तु स्नानं समाचरेत् २९
स मुक्तः कलुषैः सर्वैः प्रयाति परमं पदम्
अन्यत्रापि यदा षष्ठी मङ्गलेन भविष्यति ३०
तत्रापि मुक्तिफलदा क्रिया तस्मिन् भविष्यति
तीर्थे च सर्वतीर्थानां यस्मिन् स्नातो द्विजोत्तमाः ३१
सर्वदेवैरनुज्ञातः परं पदमवाप्नुयात्
काम्यकं च वनं पुण्यं सर्वपातकनाशनम् ३२
यस्मिन् प्रविष्टमात्रस्तु मुक्तो भवति किल्बिषैः
यमाश्रित्य वनं पुण्यं सविता प्रकटः स्थितः ३३
पूषा नाम द्विजश्रेष्ठा दर्शनान्मुक्तिमाप्नुयात्
आदित्यस्य दिने प्राप्ते तस्मिन् स्नातस्तु मानवः
विशुद्धदेहो भवति मनसा चिन्तितं लभेत् ३४
इति श्रीवामनपुराणे सरोमाहात्म्ये एकचत्वारिंशत्तमोऽध्यायः

वर्गः:वामनपुराणम्

Page is sourced from

sa.wikisource.org वामनपुराणम्/एकचत्वारिंशत्तमोऽध्यायः