वामनपुराणम्/अष्टत्रिंशत्तमोऽध्यायः

From HinduismPedia
Jump to navigation Jump to search

Template:वामनपुराणम्

ऋषय ऊचुः
कथं मङ्कणकः सिद्धः कस्माज्जातो महानृषिः
नृत्यमानस्तु देवेन किमर्थं स निवारितः १
लोमहर्षण उवाच
कश्यपस्य सुतो जज्ञे मानसो मङ्कणो मुनिः
स्नानं कर्तुं व्यवसितो गृहीत्वा वल्कलं द्विजः २
तत्र गता ह्यप्सरसो रम्भाद्याः प्रियदर्शनाः
स्नायन्ति रुचिराः स्निग्धास्तेन सार्धमनिन्दिताः ३
ततो मुनेस्तदा क्षोभाद्रे तः स्कन्नं यदम्भसि
तद्रे तः स तु जग्राह कलशे वै महातपाः ४
सप्तधा प्रविभागं तु कलशस्थं जगाम ह
तत्रर्षयः सप्त जाता विदुर्यान् मरुतां गणान् ५
वायुवेगो वायुबलो वायुहा वायुमण्डलः
वायुज्वालो वायुरेतो वायुचक्रश्च वीर्यवान् ६
एते ह्यपत्यास्तस्यर्षेर्धारयन्ति चराचरम्
पुरा मङ्कणकः सिद्धः कुशाग्रेणेति मे श्रुतम् ७
क्षतः किल करे विप्रास्तस्य शाकरसोऽस्रवत्
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ८
ततः सर्वं प्रनृत्तं च स्थावरं जङ्गमं च यत्
प्रनृत्तं च जगद् दृष्ट्वा तेजसा तस्य मोहितम् ९
ब्रह्मादिभिः सुरैस्तत्र ऋषिभिश्च तपोधनैः
विज्ञप्तो वै महादेवो मुनेरर्थे द्विजोत्तमाः १०
नायं नृत्येद् यथा देव तथा त्वं कर्तुमर्हसि
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव हि ११
सुराणां हितकामार्थं महादेवोऽभ्यभाषत
हर्षस्थानं किमर्थं च तवेदं मुनिसत्तम
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम १२
ऋषिरुवाच
किं न पश्यसि मे ब्रह्मन् कराच्छाकरसं स्रुतम्
यं दृष्ट्वाहं प्रनृत्तो वै हर्षेण महतान्वितः १३
तं प्रहस्याब्रवीद् देवो मुनिं रागेण मोहितम्
अहं न विस्मयं विप्र गच्छामीह प्रपश्यताम् १४
एवमुक्त्वा मुनिश्रेष्ठं देवदेवो महाद्युतिः
अङ्गुल्यग्रेण विप्रेन्द्रा ः! स्वाङ्गुष्ठं ताडयद् भवः १५
ततो भस्म क्षतात् तस्मान्निर्गतं हिमसन्निभम्
तद् दृष्ट्वा व्रीडितो विप्रः पादयोः पतितोऽब्रवीत् १६
नान्यं देवादहं मन्ये शूलपाणेर्महात्मनः
चराचरस्य जगतो वरस्त्वमसि शूलधृक् १७
त्वदाश्रयाश्च दृश्यन्ते सुरा ब्रह्मादयोऽनघ
पूर्वस्त्वमसि देवानां कर्ता कारयिता महत् १८
त्वत्प्रसादात् सुराः सर्वे मोदन्ते ह्यकुतोभयाः
एवं स्तुत्वा महादेवमृषिः स प्रणतोऽब्रवीत् १९
भगवंस्त्वप्रसादाद्धि तपो मे न क्षयं व्रजेत्
ततो देवः प्रसन्नात्मा तमृषिं वाक्यमब्रवीत् २०
ईश्वर उवाच
तपस्ते वर्द्धतां विप्र मत्प्रसादात् सहस्रधा
आश्रमे चेह वत्स्यामि त्वया सार्द्धमहं सदा २१
सप्तसारस्वते स्नात्वा यो ममर्चिष्यते नरः
न तस्य दुर्लभं किञ्चिदिह लोके परत्र च २२
सारस्वतं च तं लोकं गमिष्यति न संशयः
शिवस्य च प्रसादेन पाप्नोति परमं पदम् २३
इति श्रीवामनपुराणे सरोमाहात्म्ये अष्टत्रिंशत्तमोऽध्यायः


वर्गः:वामनपुराणम्

Page is sourced from

sa.wikisource.org वामनपुराणम्/अष्टत्रिंशत्तमोऽध्यायः