लघुसिद्धान्तकौमुदी/हल्सन्धिप्रकरणम्

From HinduismPedia
Jump to navigation Jump to search

Template:लघुसिद्धान्तकौमुदी


अथ हल् सन्धिः

स्तोः श्चुना श्चुः॥ लसक_६२ = पा_८,४.४०॥
सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः। रामश्शेते। रामश्चिनोति। सच्चित्। शार्ङ्गिञ्जय॥

शात्॥ लसक_६३ = पा_८,४.४४॥
शात्परस्य तवर्गस्य चुत्वं न स्यात्। विश्नः। प्रश्नः॥

ष्टुना ष्टुः॥ लसक_६४ = पा_८,४.४१॥
स्तोः ष्टुना योगे ष्टुः स्यात्। रामष्षष्ठः। रामष्टीकते। पेष्टा। तट्टीका। चक्रिण्ढौकसे॥

न पदान्ताट्टोरनाम्॥ लसक_६५ = पा_८,४.४२॥
पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात्। षट् सन्तः। षट् ते। पदान्तात्किम् ? ईट्टे। टोः किम् ? सर्पिष्टमम्। (अनाम्नवतिनगरीणामिति वाच्यम्)। षण्णवतिः। षण्णगर्य्यः॥

तोः षि॥ लसक_६६ = पा_८,४.४३॥
न ष्टुत्वम्। सन्षष्ठः॥

झलां जशो ऽन्ते॥ लसक_६७ = पा_८,२.३९॥
पदान्ते झलां जशः स्युः। वागीशः॥

यरो ऽनुनासिके ऽनुनासिको वा॥ लसक_६८ = पा_८,४.४५॥
यरः पदान्तस्यानुनासिके परे ऽनुनासिको वा स्यात्। एतन्मुरारिः, एतद् मुरारिः। (प्रत्यये भाषायां नित्यम्)। तन्मात्रम्।
चिन्मयम्॥

तोर्लि॥ लसक_६९ = पा_८,४.६०॥
तवर्गस्य लकारे परे परसवर्णः। तवर्गस्य लकारे परे परसवर्णः। तल्लयः। विद्वांल्लिखति। नस्यानुनासिको लः।

उदः स्थास्तम्भोः पूर्वस्य॥ लसक_७० = पा_८,४.४१॥
उदः परयोः स्थास्तम्भोः पूर्वसवर्णः॥

तस्मादित्युत्तरस्य॥ लसक_७१ = पा_१,१.६७॥
पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम्॥

आदेः परस्य॥ लसक_७२ = पा_१,१.५४॥
परस्य यद्विहितं तत्तस्यादेर्बोध्यम्। इति सस्य थः॥

झरो झरि सवर्णे॥ लसक_७३ = पा_८,४.६५॥
हलः परस्य झरो वा लोपः सवर्णे झरि॥

खरि च॥ लसक_७४ = पा_८,४.५५॥
खरि झलां चरः। इत्युदो दस्य तः। उत्थानम्। उत्तम्भनम्॥

झयो हो ऽन्यतरस्याम्॥ लसक_७५ = पा_८,४.६२॥
झयः परस्य हस्य वा पूर्वसवर्णः। नादस्य घोषस्य संवारस्य महाप्राणस्य तादृशो वर्गचतुर्थः। वाग्घरिः, वाघरिः॥

शश्छो ऽटि॥ लसक_७६ = पा_८,४.६३॥
झयः परस्य शस्य छो वाटि। तद् शिव इत्यत्र दस्य श्चुत्वेन जकारे कृते खरि चेति जकारस्य चकारः। तच्छिवः, तच्शिवः। (छत्वममीति वाच्यम्) तच्छ्लोकेन॥

मो ऽनुस्वारः॥ लसक_७७ = पा_८,३.२३॥
मान्तस्य पदस्यानुस्वारो हलि। हरिं वन्दे॥

नश्चापदान्तस्य झलि॥ लसक_७८ = पा_८,३.२४॥
नस्य मस्य चापदान्तस्य झल्यनुस्वारः। यशांसि। आक्रंस्यते। झलि किम् ? मन्यते॥

अनुस्वारस्य ययि परसवर्णः॥ लसक_७९ = पा_८,४.५८॥
स्पष्टम्। शान्तः॥

वा पदान्तस्य॥ लसक_८० = पा_८,४.५९॥
त्वङ्करोषि, त्वं करोषि॥

मो राजि समः क्वौ॥ लसक_८१ = पा_८,३.२५॥
क्विबन्ते राजतौ परे समो मस्य म एव स्यात्। सम्राट्॥

हे मपरे वा॥ लसक_८२ = पा_८,३.२६॥
मपरे हकारे परे मस्य मो वा। किम् ह्मलयति, किं ह्मलयति। (यवलपरे यवला वा)/ किंय्ह्यः, किं ह्यः। किंव्ह्वलयति, किं ह्वलयति। किंल् ह्लादयति, किं ह्लादयति॥

नपरे नः॥ लसक_८३ = पा_८,३.२७॥
नपरे हकारे मस्य नो वा। किन् ह्नुते, किं ह्नुते॥

आद्यन्तौ टकितौ॥ लसक_८४ = पा_१,१.४६॥
टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः॥

ङ्णोः कुक्टुक् शरि॥ लसक_८५ = पा_८,३.२८॥
वा स्तः। (चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्)। प्राङ्ख् षष्ठः, प्राङ्क्षष्ठः, प्राङ् षष्ठः। सुगण्ठ् षष्ठः सुगण्ट् षष्ठः, सुगण् षष्ठः॥

डः सि धुट्॥ लसक_८६ = पा_८,३.२९॥
डात्परस्य सस्य धुड्वा। षट्त्सन्तः, षट् सन्तः॥

नस्च॥ लसक_८७ = पा_८,३.३०॥
नान्तात्परस्य सस्य धुड्वा। सन्त्सः, सन्सः॥

शि तुक्॥ लसक_८८ = पा_८,३.३१॥
पदान्तस्य नस्य शे परे तुग्वा। सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः॥

ङमो ह्रस्वादचि ङमुण् नित्यम्॥ लसक_८९ = पा_८,३.३२॥
ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट्। प्रत्यङ्ङात्मा। सुगण्णीशः। सन्नच्युतः॥

समः सुटि॥ लसक_९० = पा_८,३.५॥
समो रुः सुटि॥

अत्रानुनासिकः पूर्वस्य तुवा॥ लसक_९१ = पा_८,३.२॥
अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा॥

अनुनासिकात्परो ऽनुस्वारः॥ लसक_९२ = पा_८,३.४॥
अनुनासिकं विहाय रोः पूर्वस्मात्परो ऽनुस्वारागमः॥

खरवसानयोर्विसर्जनीयः॥ लसक_९३ = पा_८,३.१५॥
खरि अवसाने च पदान्तसाय रेफस्य विसर्गः। (संपुंकानां सो वक्तव्यः)। संस्स्कर्ता, संस्स्कर्ता॥

पुमः खय्यम्परे॥ लसक_९४ = पा_८,३.६॥
अम्परे खयि पुमो रुः। पुंस्कोकिलः, पुंस्कोकिलः॥

नश्छव्यप्रशान्॥ लसक_९५ = पा_८,३.७॥
अम्परे छवि नान्तस्य पदस्यरुः॑ न तु प्रशान्शब्दस्य॥

विसर्जनीयस्य सः॥ लसक_९६ = पा_८,३.३४॥
खरि। चक्रिंस्त्रायस्व, चक्रिंस्त्रायस्व। अप्रशान् किम् ? प्रशान्तनोति। पदस्येति किम् ? हन्ति॥

नॄन् पे॥ लसक_९७ = पा_८,३.१०॥
नॄनित्यस्य रुर्वा पे॥

कुप्वोः एक एपौ च॥ लसक_९८ = पा_८,३.३७॥
कवर्गे पवर्गे च विसर्गस्य एक एपौ स्तः, चाद्विसर्गः। नॄं पाहि, नॄंः पाहि, नॄंः पाहि। नॄन् पाहि॥

तस्य परमाम्रेडितम्॥ लसक_९९ = पा_८,१.२॥
द्विरुक्तस्य परमाम्रेडितम् स्यात्॥

कानाम्रेडिते॥ लसक_१०० = पा_८,३.१२॥
कान्नकारस्य रुः स्यादाम्रेडिते। कांस्कान्, कांस्कान्॥

छे च॥ लसक_१०१ = पा_६,१.७३॥
ह्रस्वस्य छे तुक्। शिवच्छाया॥

पदान्ताद्वा॥ लसक_१०२ = पा_६,१.७९॥
दीर्घात् पदान्तात् छे तुग्वा। लक्ष्मीच्छाया, लक्ष्मी छाया॥

इति हल्सन्धिः।

Page is sourced from

sa.wikisource.org लघुसिद्धान्तकौमुदी/हल्सन्धिप्रकरणम्