लघुसिद्धान्तकौमुदी/तनादिप्रकरणम्

From HinduismPedia
Jump to navigation Jump to search

Template:लघुसिद्धान्तकौमुदी


अथ तनादयः

तनु विस्तारे॥ १॥

तनादिकृञ्भ्य उः॥ लसक_६७६ = पा_६,१.७९॥
शपो ऽपवादः। तनोति, तनुते। ततान, तेने। तनितासि, तनितासे। तनोतु। तनुताम्। अतनोत्, अतनुत। तनुयात्, तन्वीत। तन्यात्, तनिषीष्ट। अतानीत्, अतनीत्॥

तनादिभ्यस्तथासोः॥ लसक_६७७ = पा_२,४.७९॥
तनादेः सिचो वा लुक् स्यात्तथासोः। अतत, अतनिष्ट। अतथाः, अतनिष्टाः। अतनिष्यत्, अतनिष्यत॥ षणु दाने॥ २॥ सनोति, सनुते॥


ये विभाषा॥ लसक_६७८ = पा_६,४.४३॥
जनसनखनामात्वं वा यादौ क्ङिति। सायात्, सन्यात्॥

जनसनखनां सञ्झलोः॥ लसक_६७९ = पा_६,४.४२॥
एषामाकारे ऽन्तादेशः स्यात् सनि झलादौ क्ङिति। असात, असनिष्ट॥ क्षणु हिंसायाम्॥ ३॥ क्षणोति, क्षणुते॥ ह्म्यन्तेति न वृद्धिः। अक्षणीत्, अक्षत, अक्षणिष्ट। अक्षथाः, अक्षणिष्ठाः॥ क्षिणु च॥ ४॥ अप्रत्यये लघूपधस्य गुणो वा। क्षेणोति, क्षिणोति। क्षेणिता। अक्षेणीत्, अक्षित, अक्षेणिष्ट॥ तृणु अदने॥ ५॥ तृणोति, तर्णोति॑ तृणुते, तर्णुते॥ डुकृञ् करणे॥ ६॥ करोति॥

अत उत्सार्वधातुके॥ लसक_६८० = पा_६,४.११०॥
उप्रत्ययान्तस्य कृञो ऽकारस्य उः स्यात् सार्वधातुके क्ङिति। कुरुतः॥

न भकुर्छुराम्॥ लसक_६८१ = पा_८,२.७९॥
भस्य कुर्छुरोरुपधाया न दीर्घः। कुर्वन्ति॥

नित्यं करोतेः॥ लसक_६८२ = पा_६,४.१०८॥
करोतेः प्रत्ययोकारस्य नित्यं लोपो म्वोः परयोः। कुर्वः। कुर्मः। कुरुते। चकार, चक्रे। कर्तासि, कर्तासे। करिष्यति, करिष्यते। करोतु। कुरुताम्। अकरोत्। अकुरुत॥

ये च॥ लसक_६८३ = पा_६,४.१०९॥
कृञ उलोपो यादौ प्रत्यये परे। कुर्यात्, कुर्वीत। क्रियात्, कृषीष्ट। अकार्षीत्, अकृत। अकरिष्यत्, अकरिष्यत॥

सम्परिभ्यां करोतौ भूषणे॥ लसक_६८४ = पा_६,१.१३७॥

समवाये च॥ लसक_६८५ = पा_६,१.१३८॥
सम्परिपूर्वस्य करोतेः सुट् स्याद् भूषणे संघाते चार्थे। संस्करोति। अलङ्करोतीत्यर्थः। संस्कुर्वन्ति। सङ्घीभवन्तीत्यर्थः। सम्पूर्वस्य क्वचिदभूषणे ऽपि सुट्। संस्कृतं भक्षा इति ज्ञापकात्॥

उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च॥ लसक_६८६ = पा_६,१.१३९॥
उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः। प्रतियत्नो गुणाधानम्। विकृतमेव वैकृतं विकारः। वाक्याध्याहार आकाङ्क्षितैकदेशपूरणम्। उपस्कृता कन्या। उपस्कृता ब्राह्मणाः। एधोदकस्योपस्करोति। उपस्कृतं भुङ्क्ते। उपस्कृतं ब्रूते॥ वनु याचने॥ ७॥ वनुते। ववने॥ मनु अवबोधने॥ ८॥ मनुते। मेने। मनिष्यते। मनुताम्। अमनुत। मन्वीत। मनिषीष्ट। अमत, अमनिष्ट। अमनिष्यत॥

इति तनादयः॥ ८॥

Page is sourced from

sa.wikisource.org लघुसिद्धान्तकौमुदी/तनादिप्रकरणम्