रामायणम्/सुन्दरकाण्डम्/सर्गः ५४
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम् श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥५-२॥
वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः । वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ।। 5.54.1 ।। किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम् । यदेषां रक्षसां भूयः सन्तापजननं भवेत् ।। 5.54.2 ।। वनं तावत् प्रमथितं प्रकृष्टा राक्षसा हताः । बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ।। 5.54.3 ।। दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम् । अल्पयत्नेन कार्ये ऽस्मिन् मम स्यात् सफलः श्रमः ।। 5.54.4 ।। यो ह्ययं मम लांगूले दीप्यते हव्यवाहनः । अस्य सन्तर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ।। 5.54.5 ।। ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः । भवनाग्रेषु लङ्काया विचचार महाकपिः ।। 5.54.6 ।। गृहाद् गृहं राक्षसानामुद्यानानि च वानरः । वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः ।। 5.54.7 ।। अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् । अग्निं तत्र स निक्षिप्य श्वसनेन समो बली ।। 5.54.8 ।। ततो ऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् । मुमोच हनुमानग्निं कालानलशिखोपमम् ।। 5.54.9 ।। वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः । शुकस्य च महातेजाः सारणस्य च धीमतः । तथा चेन्द्रजितो वेश्म ददाह हरियूथपः ।। 5.54.10 ।। जम्बुमालेः सुमालेश्च ददाह भवनं ततः ।। 5.54.11 ।।्य च महातेजाः सारणस्य च धीमतः । रश्मिमकेतोश्च भवनं सूर्यशत्रोस्तथैव च । ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ।। 5.54.12 ।। युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः । विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ।। 5.54.13 ।। करालस्य पिशाचस्य शोणिताक्षस्य चैव हि । कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि ।। 5.54.14 ।। यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च । नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः ।। 5.54.15 ।। वर्जयित्वा महातेजा विभीषणगृहं प्रति । क्रममाणः क्रमेणैव ददाह हरिपुङ्गवः ।। 5.54.16 ।। तेषु तेषु महार्हेषु भवनेषु महायशाः । गृहेष्वृद्धिमतामृद्धिं ददाह स महाकपिः ।। 5.54.17 ।। सर्वेषां समतिक्रम्य राक्षसेन्द्रस्य वीर्यवान् । आससादाथ लक्ष्मीवान् रावणस्य निवेशनम् ।। 5.54.18 ।। ततस्तस्मिन् गृहे मुख्ये नानारत्नविभूषिते । मेरुमन्दरसङ्काशे सर्वमङ्गलशोभिते ।। 5.54.19 ।। प्रदीप्तमग्निमुत्सृज्य लाङ्गूलाग्रे प्रतिष्ठितम् । ननाद हनुमान् वीरो युगान्तजलदो यथा ।। 5.54.20 ।। श्वसनेन च संयोगादतिवेगो महाबलः । कालाग्निरिव जज्वाल प्रावर्धत हुताशनः ।। 5.54.21 ।। प्रदीप्तमग्निं पवनस्तेषु वेश्मस्वचारयत् । अभूच्छ्वसनसंयोगादतिवेगो हुताशनः ।। 5.54.22 ।। तानि काञ्चनजालानि मुक्तामणिमयानि च । भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च ।। 5.54.23 ।। तानि भग्नविमानानि निपेतुर्वसुधातले । भवनानीव सिद्धानामम्बरात् पुण्यसंक्षये ।। 5.54.24 ।। संजज्ञे तुमुलः शब्दो राक्षसानां प्रधावताम् । स्वगृहस्य परित्राणे भग्नोत्साहगतश्रियाम् । नूनमेषो ऽग्निरायातः कपिरूपेण हा इति ।। 5.54.25 ।। क्रन्दन्त्यः सहसा पेतुः स्तनन्दयधराः स्त्रियः । काश्चिदग्निपरीतेभ्यो हर्म्येभ्यो मुक्तमूर्धजाः ।। 5.54.26 ।। पतन्त्यो रेजिरे ऽभ्रेभ्यः सौदामिन्य इवाम्बरात् ।। 5.54.27 ।। वज्रविद्रुमवैदूर्यमुकारजतसंहितान् । विचित्रान् भवनान् धातून् स्यान्दमानान् ददर्श सः ।। 5.54.28 ।। नाग्निस्तृप्यति काष्ठानां तृणानां हरियूथपः । नाग्नेर्नापि विशस्तानां राक्षसानां वसुन्धरा ।। 5.54.29 ।। क्वचित् किंशुकसङ्काशाः क्वचिच्छाल्मलिसन्निभाः । क्वचित् कुङ्कुमसङ्काशाः शिखा वह्नेश्चकाशिरे ।। 5.54.30 ।। हनूमता वेगवता वानरेण महात्मना । लङ्कापुरं प्रदग्धं तद्रुद्रेण त्रिपुरं यथा ।। 5.54.31 ।। ततस्तु लङ्कापुरपर्वताग्रे समुत्थितो भीमपराक्रमो ऽग्निः । प्रमार्य चूडावलयं प्रदीप्तो हनूमता वेगवता विसृष्टः ।। 5.54.32 ।। युगान्तकालानलतुल्यवेगः समारुतो ऽग्निर्ववृधे दिविस्पृक् । विधूमरश्मिर्भवनेषु सक्तो रक्षश्शरीराज्य समर्पितार्चिः ।। 5.54.33 ।। आदित्यकोटीसदृशः सुतेजा लङ्कां समाप्तां परिवार्य तिष्ठन् । शब्दैरनेकैरशनिप्ररूढैर्भिन्दन्निवाण्डं प्रबभौ महाग्निः ।। 5.54.34 ।। तत्राम्बरादग्निरतिप्रवृद्धो रूक्षप्रभः किंशुकपुष्पचूडः । निर्वाणधूमाकुलराजयश्च नीलोत्पलाभाः प्रचकाशिरे ऽभ्राः ।। 5.54.35 ।। वज्री महेन्द्रस्त्रिदशेश्वरो वा साक्षाद्यमो वा वरुणो ऽनिलो वा । रुद्रो ऽग्निरर्को धनदश्च सोमो न वानरो ऽयं स्वयमेव कालः ।। 5.54.36 ।। किं ब्रह्मणः सर्वपितामहस्य सर्वस्य धातुश्चतुराननस्य । इहागतो वाग्रूपधारी रक्षोपसंहारकरः प्रकोपः ।। 5.54.37 ।। किं वैष्णवं वा कपिरूपमेत्य रक्षोविनाशाय परं सुतेजः । अनन्तमव्यक्तमचिन्त्यमेकं स्वमायया साम्प्रतमागतं वा ।। 5.54.38 ।। इत्येवमूचुर्बहवो विशिष्टा रक्षोगणास्तत्र समेत्य सर्वे । सप्राणिसङ्घां सगृहां सवृक्षां दग्धां पुरीं तां सहसा समीक्ष्य ।। 5.54.39 ।। ततस्तु लङ्का सहसा प्रदग्धा सराक्षसा साश्वरथा सनागा । सपक्षिसङ्घा समृगा सवृक्षा रुरोद दीना तुमुलं सशब्दम् ।। 5.54.40 ।। हा तात हा पुत्रक कान्त मित्र हा जीवितं भोगयुतं सुपुण्यम् । रक्षोभिरेवं बहुधा ब्रुवद्भिः शब्दः कृतो घोरतरः सुभीमः ।। 5.54.41 ।। हुताशनज्वालसमावृता सा हतप्रवीरा परिवृत्तयोधा । हनूमतः क्रोधबलाभिभूता बभूव शापोपहतेव लङ्का ।। 5.54.42 ।। स सम्भ्रमत्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्किताम् । ददर्श लङ्कां हनुमान् महामनाः स्वयम्भुकोपोपहतामिवावनिम् ।। 5.54.43 ।। भङ्क्त्वा वनं पादपरत्नसङ्कुलं हत्वा तु रक्षांसि महान्ति संयुगे । दग्ध्वा पुरीं तां गृहरत्नमालिनीं तस्थौ हनूमान् पवनात्मजः कपिः ।। 5.54.44 ।। त्रिकूटशृङ्गाग्रतले विचित्रे प्रतिष्ठितो वानरराजसिंहः । प्रदीप्तलाङ्गूलकृतार्चिमाली व्यराजतादित्य इवांशुमाली ।। 5.54.45 ।। स राक्षसांस्तान् सुबहूंश्च हत्वा वनं च भङ्क्त्वा बहुपादपं तत् । विसृज्य रक्षोभवनेषु चाग्निं जगाम रामं मनसा महात्मा ।। 5.54.46 ।। ततस्तु तं वानरवीरमुख्यं महाबलं मारुततुल्यवेगम् । महामतिं वायुसुतं वरिष्ठं प्रतुष्टुवुर्देवगणाश्च सर्वे ।। 5.54.47 ।। भङ्क्त्वा वनं महातेजा हत्वा रक्षांसि संयुगे । दग्ध्वा लङ्कापुरीं रम्यां रराज स महाकपिः ।। 5.54.48 ।। तत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । दृष्ट्वा प्रदग्धां तां विस्मयं परमं गताः ।। 5.54.49 ।। तं दृष्ट्वा वानरश्रेष्ठं हनुमन्तं महाकपिम् । कालाग्निरिति सञ्चिन्त्य सर्वभूतानि तत्रसुः ।। 5.54.50 ।। देवाश्च सर्वे मुनिपुङ्गवाश्च गन्धर्वविद्याधरनागयक्षाः । भूतानि सर्वाणि महान्ति तत्र जग्मुः परां प्रीतिमतुल्यरूपाम् ।। 5.54.51 ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुष्पञ्चाशः सर्गः ।। 5.54 ।। </poem>Page is sourced from
sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः ५४