रामायणम्/सुन्दरकाण्डम्/सर्गः ५
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम्
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे पञ्चमः सर्गः ॥५-५॥
ततः स मध्यंगतमंशुमन्तं । ज्योत्स्नावितानम् महदुद्वमन्तम् । ददर्श धीमान् दिवि भानुमन्तम् । गोष्ठे वृषं मत्तमिव भ्रामन्तम् ॥५-५-१॥ लोकस्य पापानि विनाशयन्तम् । महोदधिं चापि समेधयन्तम् । भूतानि सर्वाणि विराजयन्तम् । ददर्श शीताम्शुमथाभियान्तम् ॥५-५-२॥ या भाति लक्ष्मीर्भुवि मन्दरस्था । तथा प्रदोषेषु च सागरस्था । तथैव तोयेषु च पुष्करस्था । रराज सा चारुनिशाकरस्था ॥५-५-३॥ हम्सो यथा राजतपञ्जरसथः । सिम्हो यथा मन्दरकन्दरस्थः । वीरो यथा गर्वितकुञ्जरस्थ । श्चन्द्रो विबभ्राज तथामभरस्थः ॥५-५-४॥ स्थितह् ककुद्मानिव तीक्ष्णशृङ्गो । महाचलः श्वेत इवोच्चशृङ्गः । हस्तीव जाम्बूनदबद्धश्^इङ्गो । रराज चन्द्रह् परिपूर्णशृङ्गः ॥५-५-५॥ विनष्टशीताम्बुतुषारपङ्को । महाग्रहग्राहविनष्टपङ्कः । प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को । रराज चन्द्रो भगवान् शशाङ्कः ॥५-५-६॥ शीलातलम् प्राप्य यथा मृगेन्द्रो । महारणम् प्राप्य यथा गजेन्द्रह् । राज्यम् समासाद्य यथा नरेन्द्र । स्तथाप्रकाशो विरराज चन्द्रः ॥५-५-७॥ प्रकाशचन्द्रोदयनष्टदोषः । प्रवृत्तरक्षः पिशिताशदोषः । रामाभिरामेरितचित्तदोषः । स्वर्गप्रकाशो भगवान् प्रदोषः ॥५-५-८॥ तन्त्रीस्वनाह् कर्णसुखाः प्रवृत्ताः । स्वपन्ति नार्यः पतिभिः सुवृत्ताः । नक्तम्चराश्चापि तथा प्रवृत्ता । विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥५-५-९॥ मत्तप्रमत्तानि समाकुलानि । तथाश्वभद्रासनसम्कुलानि । वीरः श्रिया चापि समाकुलानि । ददर्श धीमान् स कपिः कुलानि ॥५-५-१०॥ परस्परं चाधिकमाक्षिपन्ति । भुआम्श्च पीनानधिनिक्षिपन्ति । मत्तप्रलापानधिकम् क्षिपन्ति । मत्तानि चान्योन्यमधिक्षिपन्ति ॥५-५-११॥ रक्षाम्सि वक्षाम्सि च विक्षिपन्ति । गात्राणि कान्तासु च विक्षिपन्ति । रूपाअणि चित्राणि च विक्षिपन्ति । दृढानि चापानि च विक्षिपन्ति ॥५-५-१२॥ ददर्श कान्ताश्च समालभन्त्य । स्तथा परास्तत्र पुनः स्वपन्त्यः । सुरूपवक्त्राश्च तथा हसन्त्यः । क्रुद्धाः पराश्चपि विनिःश्वसन्त्यः ॥५-५-१३॥ महागजैश्चापि तथा नदद्भिः । सुपूजितैश्चापि तथा सुसद्भिः । रराज वीरैश्च विनिःश्वसद्भि । र्ह्रदो भुजङ्गैरिव निःश्वसद्भिः ॥५-५-१४॥ बुद्धिप्रधानान् रुचिराभिधानान् । सम्श्रद्दधानान् जगतः प्रधानान् । नानाविधानान् रुचिराभिधानान् । ददर्श तस्याम् पुरि यातुधानान् ॥५-५-१५॥ ननन्द दृष्ट्वा स च तान् सुरूपा । न्नानागुणानात्मगुणानुरूपान् । विद्योतमानान्स तदानुरूपान् । ददर्श काम्श्चिच्च पुनर्विरूपान् ॥५-५-१६॥ ततो वरार्हः सुविशुद्धभावा । स्तेषाम् स्त्रियस्तत्र महानुभावाह् । प्रियेषु पानेषु च सक्तभावा । ददर्श ताराइव सुप्रभावाः ॥५-५-१७॥ श्रिया ज्वलन्तीस्त्रपयोगूढा । निशीथकाले रमणोपगूढाः । ददर्श काश्चित्प्रमदोपगूढा । यथा विहङ्गाः कुसुमोपगूढाः ॥५-५-१८॥ अन्याः पुनर्हर्म्यतलोपविष्टा । स्तत्र प्रियाङ्केषु सुखोपविष्टाः । भर्तुः प्रिया धर्मपरा निविष्टा । ददर्श धीमान् मदनाभिविष्टाः ॥५-५-१९॥ अप्रावृताः काञ्चनराजिवर्णाः । काश्चित्परार्थ्यास्तपनीयवर्णाः । पुनश्च काश्चिच्छशलक्ष्मवर्णाः । कान्तप्रहीणारुचिराङ्गवर्णाः ॥५-५-२०॥ ततह् प्रियान् प्राप्य मनोभिरामान् । सुप्रीतियुक्ताः सुमनोभिरामाः । गृहेषु हृष्टाः परमाभिरामाः । हरिप्रवीरः स ददर्श रामाः ॥५-५-२१॥ चन्द्रप्रकाशाश्च हि वक्त्रमाला । वक्राक्षिपक्ष्माश्च सुनेत्रमालाः । विभूषाणानाम् च ददर्श मालाः । शतह्रदानामिव चारुमालाः ॥५-५-२२॥ न त्वेव सीताम् परमाभिजाताम् । पथि स्थिते राजकुले प्रजाताम् । लताम् प्रपुल्लामिव साधु जाताम् । ददर्श तन्वीम् मनसाभिजाताम् ॥५-५-२३॥ सनातने वर्त्मानि सम्निविष्टाम् । रामेक्षणां तां मदनाभिविष्टाम् । भर्तुर्मनः श्रीमदनुप्रविष्टाम् । स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥५-५-२४॥ उष्णार्दिताम् सानुसृतास्रकण्ठीम् । पुरा वरार्होत्तमनिष्ककण्ठीम् । सुजातपक्ष्मामभिरक्तकण्ठीम् । वनेऽप्रनृत्तामिव नीलकण्ठीम् ॥५-५-२५॥ अव्यक्तरेखामिव चन्द्ररेखां । पाम्सुप्रदिग्धामिव हेमरेखाम् । क्षतप्ररूढामिव बाणरेखां । वायुप्रभिन्नामिव मेघरेक्षाम् ॥५-५-२६॥ सीतामपश्यन् मनुजेश्वरस्य । रामस्य पत्नीम् वदताम् वरस्य । बभूव दुःखाभिहतश्चिरस्य । प्लवङ्गमो मन्द इवाचिरस्य ॥५-५-२७॥
इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे पञ्चमः सर्गः ॥५-५॥