रामायणम्/सुन्दरकाण्डम्/सर्गः ४
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम्
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे चतुर्थः सर्गः ॥५-४॥
स निर्जत्य पुरीम् लण्का श्रेष्ठाम् ताम् कामरूपिणीम् । विक्रमेण महातेजा हनुमान् कपिसत्तमः ॥५-४-१॥ अद्वारेण मःआतेजा हौमान् कपिसत्तमः । प्रविश्य नगरीम् लङ्काम् कपिराजहितम्करः ॥५-४-२॥ चक्रेणाऽथ पदम् सव्यम् शत्रूणाम् स तु मूर्धनि । प्रविष्टः सत्त्वसंपन्नो विशायाम् मारुतात्मजः ॥५-४-३॥ स महापथमास्थाय मुक्तापुष्पविराजितम् । ततस्तु ताम् पुरीम् लङ्काम् रम्यामभिययौ कपिः ॥५-४-४॥ हसित उद्घुष्ट निनदैः तूर्य घोष पुरः सरैः । वज्र अन्कुश निकाशैः च वज्र जाल विभूषितैः ॥५-४-५॥ गृह मेधैः पुरी रम्या बभासे द्यौः इव अम्बुदैः । प्रजज्वाल तदा लन्का रक्षः गण गृहैः शुभैः ॥५-४-६॥ सित अभ्र सदृशैः चित्रैः पद्म स्वस्तिक सम्स्थितैः । वर्धमान गृहैः च अपि सर्वतः सुविभाषितैः ॥५-४-७॥ ताम् चित्र माल्य आभरणाम् कपि राज हितम् करः । राघव अर्थम् चरन् श्रीमान् ददर्श च ननन्द च ॥५-४-८॥ भवनाद्भवनं गच्छ्न् ददर्श पवनात्मजः । विविधाकृतिरूपाणि भवनानि ततस्ततः ॥५-४-९॥ शुश्राव मधुरम् गीतम् त्रि स्थान स्वर भूषितम् । स्त्रीणाम् मद समृद्धानाम् दिवि च अप्सरसाम् इव ॥५-४-१०॥ शुश्राव कान्ची निनदम् नूपुराणाम् च निह्स्वनम् । सोपान निनदामः चैव भवनेषु महात्मनम् ॥५-४-११॥ आस्फोटित निनादामः च क्ष्वेडितामः च ततः ततः । शुश्राव जपताम् तत्र मन्त्रन् रक्षोगृहेषु वै ॥५-४-१२॥ स्वाध्याय निरतामः चैव यातु धानान् ददर्श सः । रावण स्तव सम्युक्तान् गर्जतः राक्षसान् अपि ॥५-४-१३॥ राज मार्गम् समावृत्य स्थितम् रक्षः बलम् महत् । ददर्श मध्यमे गुल्मे राक्षसस्य चरान् बहून् ॥५-४-१४॥ दीक्षितान् जटिलान् मुण्डान् गः अजिन अम्बर वाससः । दर्भ मुष्टि प्रहरणान् अग्नि कुण्ड आयुधामः तथा ॥५-४-१५॥ कूट मुद्गर पाणीमः च दण्ड आयुध धरान् अपि । एक अक्ष अनेक कर्णामः च चलल् लम्ब पयः धरान् ॥५-४-१६॥ करालान् भुग्न वक्त्रामः च विकटान् वामनामः तथा । धन्विनः खड्गिनः चैव शतघ्नी मुसल आयुधान् ॥५-४-१७॥ परिघ उत्तम हस्तामः च विचित्र कवच उज्ज्वलान् । नातिस्थूलान् नातिकृशान् नातिदीर्घ अतिह्रस्वकान् ॥५-४-१८॥ नातिगौरान्नातिकृष्णान्नातिकुब्जान्न वामनान् । विरूपान् बहु रूपामः च सुरूपामः च सुवर्चसः ॥५-४-१९॥ ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान् । शक्ति वृक्ष आयुधामः चैव पट्टिश अशनि धारिणः ॥५-४-२०॥ क्षेपणी पाश हस्तामः च ददर्श स महा कपिः । स्रग्विणः त्व् अनुलिप्तामः च वर आभरण भूषितान् ॥५-४-२१॥ नानावेषसमायुक्तान्यथास्वैरगतान् बहून् । तीक्ष्ण शूल धरामः चैव वज्रिणः च महा बलान् ॥५-४-२२॥ शत साहस्रम् अव्यग्रम् आरक्षम् मध्यमम् कपिः । रक्षोधिपतिनिर्दिष्टम् ददर्शान्तःपुराग्रतः ॥५-४-२३॥ स तदा तद्गृहम् दृष्ट्वा महाहाटकतोरणम् । राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् ॥५-४-२४॥ पुण्डरीकावतम्साभिः परिखाभिरलम्कृतम् । प्राकार आवृतम् अत्यन्तम् ददर्श स महा कपिः ॥५-४-२५॥ त्रिविष्टप निभम् दिव्यम् दिव्य नाद विनादितम् । वाजि हेषित सम्घुष्टम् नादितम् भूषणैः तथा ॥५-४-२६॥ रथैः यानैः विमानैः च तथा गज हयैः शुभैः । वारणैः च चतुः दन्तैः श्वेत अभ्र निचय उपमैः ॥५-४-२७॥ भूषितम् रुचिर द्वारम् मत्तैः च मृग पक्षिभिः । राक्षस अधिपतेः गुप्तम् आविवेश गृहम् कपिः ॥५-४-२८॥ सहेमजाम्बूनदचक्रवाLअम् । महार्ह मुक्तामणिभूषितान्तम् । परार्थ्यकालागुरुचन्दनाक्तं । स रावणान्तःपुरमाविवेश ॥५-४-२९॥ ॥ इति रामायने सुन्दरकाण्डे चतुर्थः सर्गः ॥
इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे चतुर्थः सर्गः ॥५-४॥