रामायणम्/सुन्दरकाण्डम्/सर्गः ३२
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम्
ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा । वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम् ।। ५.३२.१।। सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् । फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ।। ५.३२.२।। मैथिली चिन्तयामास विस्मयं परमं गता । अहो भीममिदं रूपं वानरस्य दुरासदम् । दुर्निरीक्ष्यमिति ज्ञात्वा पुनरेव मुमोह सा ।। ५.३२.३।। विललाप भृशं सीता करुणं भयमोहिता । रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी ।। ५.३२.४।। रुरोद बहुधा सीता मन्दं मन्दस्वरा सती ।। ५.३२.५।। सा तं दृष्ट्वा हरिश्रेष्ठं विनीतबदुपस्थितम् । मैथिली चिन्तयामास स्वप्नो ऽयमिति भामिनी ।। ५.३२.६।। सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम् । ददर्श पिङ्गधिपतेरमात्यं वातात्मजं बुद्धिमतां वरिष्ठम् ।। ५.३२.७।। सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव सीता । चिरेण संज्ञा प्रतिलभ्य भूयो विचिन्तयामास विशालनेत्रा ।। ५.३२.८।। स्वप्ने मया ऽयं विकृतो ऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः । स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ।। ५.३२.९।। स्वप्नो ऽपि नायं नहि मे ऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः । सुखं हि मे नास्ति यतो ऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन ।। ५.३२.१०।। रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव । तस्यानुरूपां च कथां तमर्तमेव प्रपश्यामि तथा श्रृणोमि ।। ५.३२.११।। अहं हि तस्याद्य मनोभवेन संपीडिता तद्गतसर्वभावा । विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि ।। ५.३२.१२।। मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्या च वितर्कयामि । किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ।। ५.३२.१३।। नमो ऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय च । अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथा ऽस्तु नान्यथा ।। ५.३२.१४।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वात्रिंशः सर्गः ।। ५.३२।।Page is sourced from
sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः ३२