रामायणम्/सुन्दरकाण्डम्/सर्गः ३
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम्
श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे तृतीयः सर्गः ॥५-३॥
स लम्ब शिखरे लम्बे लम्ब तोयद सम्निभे । सत्त्वम् आस्थाय मेधावी हनुमान् मारुत आत्मजः ॥५-३-१॥ निशि लन्काम् महा सत्त्वः विवेश कपि कुन्जरः । रम्य कानन तोय आढ्याम् पुरीम् रावण पालिताम् ॥५-३-२॥ शारद अम्बु धर प्रख्यैः भवनैः उपशोभिताम् । सागर उपम निर्घोषाम् सागर अनिल सेविताम् ॥५-३-३॥ सुपुष्ट बल सम्गुप्ताम् यथैव विटपावतीम् । चारु तोरण निर्यूहाम् पाण्डुर द्वार तोरणाम्॥५-३-४॥ भुजग आचरिताम् गुप्ताम् शुभाम् भोगवतीम् इव । ताम् सविद्युत् घन आकीर्णाम् ज्योतिः मार्ग निषेविताम् ॥५-३-५॥ चण्ड मारुत निर्ह्रादाम् यथा इन्द्रस्य अमरावतीम् । शातकुम्भेन महता प्राकारेण अभिसम्वृताम् ॥५-३-६॥ किन्किणी जाल घोषाभिः पताकाभिः अलम्कृताम् । आसाद्य सहसा हृष्टः प्राकारम् अभिपेदिवान् ॥५-३-७॥ विस्मय आविष्ट हृदयः पुरीम् आलोक्य सर्वतः । जाम्बूनदमयैः द्वारैः वैदूर्य कृत वेदिकैः ॥५-३-८॥ मणि स्फटिक मुक्ताभिः मणि कुट्टिम भूषितैः । तप्त हाटक निर्यूहैः राजत अमल पाण्डुरैः ॥५-३-९॥ वैदूर्य तल सोपानैः स्फाटिक अन्तर पाम्सुभिः । चारु सम्जवन उपेतैः खम् इव उत्पतितैः शुभैः ॥५-३-१०॥ क्रौन्च बर्हिण सम्घुष्टे राज हम्स निषेवितैः । तूर्य आभरण निर्घोषैः सर्वतः प्रतिनादिताम् ॥५-३-११॥ वस्वोकसारा प्रतिमाम् समीक्ष्य नगरीम् ततः । खम् इव उत्पतिताम् लन्काम् जहर्ष हनुमान् कपिः ॥५-३-१२॥ ताम् समीक्ष्य पुरीम् लन्काम् राक्षस अधिपतेः शुभाम् । अनुत्तमाम् ऋद्धि युताम् चिन्तयाम् आस वीर्यवान् ॥५-३-१३॥ न इयम् अन्येन नगरी शक्या धर्षयितुम् बलात् । रक्षिता रावण बलैः उद्यत आयुध धारिभिः ॥५-३-१४॥ कुमुद अन्गदयोः वा अपि सुषेणस्य महा कपेः । प्रसिद्धा इयम् भवेत् भूमिः मैन्द द्विविदयोः अपि ॥५-३-१५॥ विवस्वतः तनूजस्य हरेः च कुश पर्वणः । ऋक्षस्य केतु मालस्य मम चैव गतिः भवेत् ॥५-३-१६॥ समीक्ष्य तु महा बाहः राघवस्य पराक्रमम् । लक्ष्मणस्य च विक्रान्तम् अभवत् प्रीतिमान् कपिः ॥५-३-१७॥ ताम् रत्न वसन उपेताम् कोष्ठ आगार अवतम्सकाम् । यन्त्र अगार स्तनीम् ऋद्धाम् प्रमदाम् इव भूषिताम् ॥५-३-१८॥ ताम् नष्ट तिमिराम् दीपैः भास्वरैः च महा गृहैः । नगरीम् राक्षस इन्द्रस्य ददर्श स महा कपिः ॥५-३-१९॥ अथ सा हरिशार्दूलम् प्रविशन्तिम् महाबलम् । नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥५-३-२०॥ सा तम् हरिवरम् दृष्ट्वा लङ्का रावणपालिता । स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥५-३-२१॥ पुरस्तत्क पिवर्यस्य वायुसूनोरतिष्ठत । मुञ्चमाना महानादमब्रवीत्पवनात्मजम् ॥५-३-२२॥ कस्त्वम् केन च कार्येण इह प्राप्तो वनालय । कथय स्वेह यत्तत्त्वम् यावत्प्राणा धरन्ति ते ॥५-३-२३॥ न शक्यम् खल्वियम् लङ्का प्रवेष्टुम् वानर त्वया । रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥५-३-२४॥ अथ तामब्रवीद्वीरो हनुमानग्रतः स्थिताम् । कथयिष्यामि ते तत्त्वम् यन्मम् त्वम् परिपृच्छसि ॥५-३-२५॥ का त्वम् विरूपनयना पुरद्वारेऽवतिष्ठसि । किमर्थम् चापि माम् रुद्ध्वा निर्भर्त्सयसि दारुणा ॥५-३-२६॥ हनुमद्वचनम् श्रुत्वा लङ्का सा कामरूपिणी । उवाच वचनम् क्रुद्धा परुषं पवनात्मजम् ॥५-३-२७॥ अहम् राक्षसराजस्य रावणस्य महात्मनः । आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥५-३-२८॥ न शक्या मामवज्ञाय प्रवेष्टुम् नगरी त्वया । अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥५-३-२९॥ अहम् हि नगरी लङ्का स्वयमेव प्लवङ्गम । सर्वतः परिरक्षामि ह्येतत्ते कथितम् मया ॥५-३-३०॥ लङ्काया वचनम् श्रुत्वा हनुमान् मारुतात्मजः । यत्नवान्स हरिश्रेष्ठः स्थितश्शैल इवापरः ॥५-३-३१॥ स ताम् स्त्रीरूपविकृताम् दृष्ट्वा वानरपुङ्गवः । आबभाषेऽथ मेधावि सत्त्वान् प्लवगर्षभः ॥५-३-३२॥ द्रक्ष्यामि नगरीम् लङ्काम् साट्टप्राकारतोरणाम् । इत्यर्थमिह सम्प्राप्तः परम् कौतूहलम् हि मे ॥५-३-३३॥ वनान्युपवनानीह लङ्कायाः काननानि च । सर्वतो गृहमुख्यानि द्रष्टुमागमनम् हि मे ॥५-३-३४॥ तस्य तद्वचनम् श्रुत्वा लङ्का सा कामरूपिणी । भूय एव पुनर्वाक्यम् बभाषे परुषाक्षरम् ॥५-३-३५॥ मामनिर्जत्य दुर्बद्धे राक्षसेश्वरपालिता । न शक्यमद्य ते द्रष्टुम् पुरीयम् वनराधम ॥५-३-३६॥ ततः स कपिशार्दूलस्तामुवाच निशाचरीम् । दृष्वा पुरीमिमाम् भद्रे पुनर्यास्ये यथागतम् ॥५-३-३७॥ ततः कृत्वा महानादम् सा वै लङ्का भयावहम् । तलेन वानरश्रेष्ठम् ताडयामास वेगिता ॥५-३-३८॥ ततः स कपिशार्दुलो लङ्काया ताडितो भृशम् । ननाद सुमहानादम् वीर्यवान् पवनात्मजः ॥५-३-३९॥ ततः सम्वर्तयामास वामहस्तस्य सोऽङ्गुLईः । मुष्ह्टिनाभिजघूनैनाम् हनुमान् क्रोधमूर्चितः ॥५-३-४०॥ स्त्री चेति मन्यमानेन नातिक्रोधः स्वयम् कृतः । सा तु तेन प्रहारेण विह्वलाङ्गी नीशाचरी ॥५-३-४१॥ पपात सहसा भूमौ विकृताननदर्शना । ततस्तु हनुमान् प्राज्ञस्ताम् दृष्ट्वा विनिपातिताम् ॥५-३-४२॥ कृपाम् चकार तेजस्वी मन्यमानः स्त्रियम् तु ताम् । ततो वै भृशसम्विग्ना लङ्का गद्गदाक्षरम् ॥५-३-४३॥ उवाचागर्वितम् वाक्यम् हनूमन्तम् प्लवङ्गमम् । प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ॥५-३-४४॥ समये सौम्य तिष्ठन्ति स्त्त्ववन्तो महाबलाः । अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम ॥५-३-४५॥ निर्जिताहम् त्वया वीर विक्रमेण महाबल । इदम् तु तथ्यम् शृणु वै ब्रुवन्त्य मे हरीश्वर ॥५-३-४६॥ स्वयम्भुवा पुरा दत्तम् वरदानम् यथा मम । यदा त्वाम् वानरः कश्चिद्विक्रमाद्वशमानयेत् ॥५-३-४७॥ तदा त्वया हि विज्ञेयम् रक्षसाम् भयामागतम् । स हि म् समयः सौम्य प्राप्तोऽय तव द्र्शनात् ॥५-३-४८॥ स्वयम्भूविहितः सत्यो न तस्यास्ति व्यतिक्रमः । सीतानिमित्तंम् राज्ञस्तु रावणस्य दुरात्मनः ॥५-३-४९॥ विधत्स्व सर्वकार्याणि यानि यानिह वाञ्चसि । तत्प्रविश्य हरिश्रेष्ठम् पुरीम् रावणपालिताम् ॥५-३-५०॥ विधत्स्व सर्वकार्याण् यानि यानीह वाञ्चसि । प्रविश्य शापोपहताम् हरीश्वर । शुभाम् पुरीम् राक्षसराजपालिताम् । यदृच्छया त्वम् जनकात्मजाम् सतीम् । विमार्ग सर्वत्र गतो यथासुखम् ॥५-३-५१॥ ॥ इति श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे तृतीयः सर्गः ॥ इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे तृतीयः सर्गः ॥५-३॥Page is sourced from
sa.wikisource.org रामायणम्/सुन्दरकाण्डम्/सर्गः ३