रामायणम्/सुन्दरकाण्डम्/सर्गः १६
Jump to navigation
Jump to search
Template:रामायणम्/सुन्दरकाण्डम् श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे षोडशः सर्गः ॥५-१६॥
प्रशस्य तु प्रशस्तव्याम् सीताम् ताम् हरि पुम्गवः । गुण अभिरामम् रामम् च पुनः चिन्ता परो अभवत् ॥५-१६-१॥ स मुहूर्तम् इव ध्यात्वा बाष्प पर्याकुलेक्षणः । सीताम् आश्रित्य तेजस्वी हनुमान् विललाप ह ॥५-१६-२॥ मान्या गुरु विनीतस्य लक्ष्मणस्य गुरु प्रिया । यदि सीता अपि दुह्ख आर्ता कालो हि दुरतिक्रमः ॥५-१६-३॥ रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः । न अत्यर्थम् क्षुभ्यते देवी गन्गा इव जलद आगमे ॥५-१६-४॥ तुल्य शील वयो वृत्ताम् तुल्य अभिजन लक्षणाम् । राघवो अर्हति वैदेहीम् तम् च इयम् असित ईक्षणा ॥५-१६-५॥ ताम् दृष्ट्वा नव हेम आभाम् लोक कान्ताम् इव श्रियम् । जगाम मनसा रामम् वचनम् च इदम् अब्रवीत् ॥५-१६-६॥ अस्या हेतोर् विशाल अक्ष्या हतो वाली महा बलः । रावण प्रतिमो वीर्ये कबन्धः च निपातितः ॥५-१६-७॥ विराधः च हतः सम्ख्ये राक्षसो भीम विक्रमः । वने रामेण विक्रम्य महा इन्द्रेण इव शम्बरः ॥५-१६-८॥ चतुर् दश सहस्राणि रक्षसाम् भीम कर्मणाम् । निहतानि जन स्थाने शरैर् अग्नि शिख उपमैः ॥५-१६-९॥ करः च निहतः सम्ख्ये त्रिशिराः च निपातितः । दूषणः च महा तेजा रामेण विदित आत्मना ॥५-१६-१०॥ ऐश्वर्यम् वानराणाम् च दुर्लभम् वालि पालितम् । अस्या निमित्ते सुग्रीवः प्राप्तवान् लोक सत्कृतम् ॥५-१६-११॥ सागरः च मया क्रान्तः श्रीमान् नद नदी पतिः । अस्या हेतोर् विशाल अक्ष्याः पुरी च इयम् निरीक्षिता ॥५-१६-१२॥ यदि रामः समुद्रान्ताम् मेदिनीम् परिवर्तयेत् । अस्याः कृते जगत् च अपि युक्तम् इति एव मे मतिः ॥५-१६-१३॥ राज्यम् वा त्रिषु लोकेषु सीता वा जनक आत्मजा । त्रैलोक्य राज्यम् सकलम् सीताया न आप्नुयात् कलाम् ॥५-१६-१४॥ इयम् सा धर्म शीलस्य जनकस्य महात्मनः । सुता मैथिलराजस्य सीता भर्तृदृढ व्रता ॥५-१६-१५॥ उत्थिता मेदिनीम् भित्त्वा क्षेत्रे हल मुख क्षते । पद्म रेणु निभैः कीर्णा शुभैः केदार पाम्सुभिः ॥५-१६-१६॥ विक्रान्तस्य आर्य शीलस्य सम्युगेषु अनिवर्तिनः । स्नुषा दशरथस्य एषा ज्येष्ठा राज्ञो यशस्विनी ॥५-१६-१७॥ धर्मज्ञस्य कृतज्ञस्य रामस्य विदित आत्मनः । इयम् सा दयिता भार्या राक्षसी वशम् आगता ॥५-१६-१८॥ सर्वान् भोगान् परित्यज्य भर्तृ स्नेह बलात् कृता । अचिन्तयित्वा दुह्खानि प्रविष्टा निर्जनम् वनम् ॥५-१६-१९॥ सम्तुष्टा फल मूलेन भर्तृ शुश्रूषणा परा । या पराम् भजते प्रीतिम् वने अपि भवने यथा ॥५-१६-२०॥ सा इयम् कनक वर्ण अन्गी नित्यम् सुस्मित भाषिणी । सहते यातनाम् एताम् अनर्थानाम् अभागिनी ॥५-१६-२१॥ इमाम् तु शील सम्पन्नाम् द्रष्टुम् इच्चति राघवः । रावणेन प्रमथिताम् प्रपाम् इव पिपासितः ॥५-१६-२२॥ अस्या नूनम् पुनर् लाभाद् राघवः प्रीतिम् एष्यति । राजा राज्य परिभ्रष्टः पुनः प्राप्य इव मेदिनीम् ॥५-१६-२३॥ काम भोगैः परित्यक्ता हीना बन्धु जनेन च । धारयति आत्मनो देहम् तत् समागम कान्क्षिणी ॥५-१६-२४॥ न एषा पश्यति राक्षस्यो न इमान् पुष्प फल द्रुमान् । एकस्थ हृदया नूनम् रामम् एव अनुपश्यति ॥५-१६-२५॥ भर्ता नाम परम् नार्या भूषणम् भूषणाद् अपि । एषा हि रहिता तेन शोभन अर्हा न शोभते ॥५-१६-२६॥ दुष्करम् कुरुते रामो हीनो यद् अनया प्रभुः । धारयति आत्मनो देहम् न दुह्खेन अवसीदति ॥५-१६-२७॥ इमाम् असित केश अन्ताम् शत पत्र निभ ईक्षणाम् । सुख अर्हाम् दुःखिताम् ज्~आत्वा मम अपि व्यथितम् मनः ॥५-१६-२८॥ क्षिति क्षमा पुष्कर सम्निभ अक्षी । या रक्षिता राघव लक्ष्मणाभ्याम् । सा राक्षसीभिर् विकृत ईक्षणाभिः । सम्रक्ष्यते सम्प्रति वृक्ष मूले ॥५-१६-२९॥ हिम हत नलिनी इव नष्ट शोभा । व्यसन परम्परया निपीड्यमाना । सह चर रहिता इव चक्र वाकी । जनक सुता कृपणाम् दशाम् प्रपन्ना ॥५-१६-३०॥ अस्या हि पुष्प अवनत अग्र शाखाः । शोकम् दृढम् वै जनयति अशोकाः । हिम व्यपायेन च शीतरश्मिः । रभ्युत्थितो न एक सहस्र रश्मिः ॥५-१६-३१॥ इति एवम् अर्थम् कपिर् अन्ववेक्ष्य । सीता इयम् इति एव निविष्ट बुद्धिः । सम्श्रित्य तस्मिन् निषसाद वृक्षे । बली हरीणाम् ऋषभः तरस्वी ॥५-१६-३२॥
इति वाल्मीकि रामायणे आदि काव्ये सुन्दरकाण्डे षोडशः सर्गः ॥५-१६॥