रामायणम्/किष्किन्धाकाण्डम्/सर्गः २७

From HinduismPedia
Jump to navigation Jump to search

Template:रामायणम्/किष्किन्धाकाण्डम् श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तविंशः सर्गः ॥४-२७॥

अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् ।
आजगाम सह भ्रात्रा रामः प्रस्रवणम् गिरिम् ॥४-२७-१॥

शार्दूल मृग संघुष्टम् सिंहैः भीम रवैः वृतम् ।
नाना गुल्म लता गूढम् बहु पादप संकुलम् ॥४-२७-२॥
ऋक्ष वानर गोपुच्छैः मार्जारैः च निषेवितम् ।
मेघ राशि निभम् शैलम् नित्यम् शुचिकरम् शिवम् ॥४-२७-३॥

तस्य शैलस्य शिखरे महतीम् आयताम् गुहाम् ।
प्रत्यगृह्णीत वासार्थम् रामः सौमित्रिणा सह ॥४-२७-४॥

कृत्वा च समयम् रामः सुग्रीवेण सह अनघ ।
काल युक्तम् महद् वाक्यम् उवाच रघुनन्दन ॥४-२७-५॥
विनीतम् भ्रातरम् भ्राता लक्ष्मणम् लक्ष्मि वर्धनम् ।

इयम् गिरि गुहा रम्या विशाला युक्त मारुता ॥४-२७-६॥
अस्याम् वस्त्याम सौमित्रे वर्ष रात्रम् अरिंदम ।

गिरि शृंगम् इदम् रम्यम् उत्तमम् पार्थिवात्मज ॥४-२७-७॥
श्वेताभिः कृष्ण ताम्राभिः शिलाभिः उपशोभितम् ।
नाना धातु समाकीर्णम् नदी दर्दुर संयुतम् ॥४-२७-८॥
विविधैः वृक्ष षण्डैः च चारु चित्र लता युतम् ।
नाना विहग संघुष्टम् मयूर वर नादितम् ॥४-२७-९॥
मालती कुंद गुल्मैः च सिंदुवारैः शिरीषकैः ।
कदंब अर्जुन सर्जैः च पुष्पितैः उपशोभितम् ॥४-२७-१०॥

इयम् च नलिनि रम्या फुल्ल पंकज मण्डितैः ।
न अति दूरे गुहाया नौ भविष्यति नृपात्मज ॥४-२७-११॥

प्राग् उदक् प्रवणे देशे गुहा साधु भविष्यति ।
पश्चात् च एव उन्नता सौम्य निवाते अयम् भविष्यति ॥४-२७-१२॥

गुहा द्वारे च सौमित्रे शिला सम तला शिवा ।
कृष्णा च एव आयता चैव भिन्न अंजन चय उपममा ॥४-२७-१३॥

गिरि शृंगम् इदम् तात पश्य च उत्तरतः सुभम् ।
भिन्न अंजन चय आकारम् अंभोधरम् इव उदितम् ॥४-२७-१४॥

दक्षिणस्याम् अपि दिश स्थितम् श्वेतम् इव अंबरम् ।
कैलास शिखर प्रख्यम् नाना धातु विराजितम् ॥४-२७-१५॥

प्राचीन वाहिनीम् चैव नदीम् भृशम् अकर्दमम् ।
गुहायाः परतः पश्य त्रिकूटे जह्नवीम् इव ॥४-२७-१६॥
चन्दनैः तिलकैः सालैः तमालैः अतिमुक्तकैः ।
पद्मकैः सरलैः चैव अशोकैः चैव शोभितम् ॥४-२७-१७॥

वानीरैः तिमिदैः चैव वकुलैः केतकैः अपि ।
हिन्तालैः तिनिशैः नीपैः वेतसैः कृतमालकैः ॥४-२७-१८॥
तीरजैः शोभिता भाति नाना रूपैः ततः ततः ।
वसन आभरण उपेत प्रमद एव अभ्यलंकृता ॥४-२७-१९॥

शतशः पक्षि सन्घैः च नाना नाद विनादिता ।
एकैकम् अनुरक्तैः च चक्रवाकैः अलंकृता ॥४-२७-२०॥
पुलिनैः अति रम्यैः च हंस सारस सेविता ।
प्रहसंती इव भाति एषा नारी रत्न विभूषिता ॥४-२७-२१॥

क्वचित् नीलोत्पलैः च्छन्न भाति रक्तोत्पलैः क्वचित् ।
क्वचित् भाति शुक्लैः च दिव्यैः कुमुद कुड्मलैः ॥४-२७-२२॥

पारिप्लव शतैः जुष्टा बर्हि क्रौन्च विनादिता ।
रमणिया नदी सौम्य मुनि संघ निषेविता ॥४-२७-२३॥

पश्य चंदन वृक्षाणाम् पंक्ती सुरुचिरा इव ।
ककुभानम् च दृश्यन्ते मनसा इव उदिताः समम् ॥४-२७-२४॥

अहो सुरमणीयो अयम् देशः शत्रु निषूदन ।
दृढम् रंस्याव सौमित्रे साधु अत्र निवसावहे ॥४-२७-२५॥

इतः च न अति दूरे सा किष्किंधा चित्र कानना ।
सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज ॥४-२७-२६॥

गीत वादित्र निर्घोषः श्रूयते जयताम् वर ।
नदताम् वानराणाम् च मृदंग आडंबरैः सह ॥४-२७-२७॥

लब्ध्वा भार्याम् कपिवरः प्राप्य राज्यम् सुहृत् वृतः ।
ध्रुवम् नंदति सुग्रीवः संप्राप्य महतीम् श्रियम् ॥४-२७-२८॥

इति उक्त्वा न्यवसत् तत्र राघवः सह लक्ष्मणः ।
बहु दृश्य दरी कुंजे तस्मिन् प्रस्रवणे गिरौ ॥४-२७-२९॥

सुसुखे हि बहु द्रव्ये तस्मिन् हि धरणी धरे ।
वसतः तस्य रामस्य रतिः अल्पा अपि न अभवत् ॥४-२७-३०॥

हृताम् हि भार्याम् स्मरतः प्राणेभ्यो अपि गरीयसीम् ।
उदय अभ्युदितम् दृष्ट्वा शशांकम् च विशेषतः ॥४-२७-३१॥

आविवेश न तम् निद्रा निशासु शयनम् गतम् ।
तत् समुत्थेन शोकेन बाष्प उपहत चेतसम् ॥४-२७-३२॥

तम् शोचमानम् काकुत्स्थम् नित्यम् शोक परायणम् ।
तुल्य दुःखो अब्रवीद् भ्राता लक्ष्मणो अनुनयम् वचः ॥४-२७-३३॥

अलम् वीर व्यथाम् गत्वा न त्वम् शोचितुम् अर्हसि ।
शोचतो हि अवसीदन्ति सर्व अर्था विदितम् हि ते ॥४-२७-३४॥

भवान् क्रिया परो लोके भवान् देव परायणः ।
आस्तिको धर्म शीलः च व्यवसायी च राघव ॥४-२७-३५॥

न हि अव्यवसितः शत्रुम् राक्षसम् तम् विशेषतः ।
समर्थः त्वम् रणे हन्तुम् विक्रमैः जिह्म कारिणम् ॥४-२७-३६॥

समुन्मूलय शोकम् त्वम् व्यवसायम् स्थिरी कुरु ।
ततः सपरिवारम् तम् राक्षसम् हन्तुम् अर्हसि ॥४-२७-३७॥

पृथिवीम् अपि काकुत्स्थ ससागर वन अचलाम् ।
परिवर्तयितुम् शक्तः किम् पुनः तम् हि रावणम् ॥४-२७-३८॥

शरत् कालम् प्रतीक्षस्व प्रावृट् कालो अयम् आगतः ।
ततः स राष्ट्रम् स गणाम् रावणम् तम् वधिष्यसि ॥४-२७-३९॥

अहम् तु खलु ते वीर्यम् प्रसुप्तम् प्रतिबोधये ।
दीप्तैः आहुतिभिः काले भस्म चन्नम् इव अनलम् ॥४-२७-४०॥

लक्ष्मणस्य हि तद् वाक्यम् प्रतिपूज्य हितम् शुभम् ।
राघवः सुहृदम् स्निग्धम् इदम् वचनम् अब्रवीत् ॥४-२७-४१॥

वाच्यम् यद् अनुरक्तेन स्निग्धेन च हितेन च ।
सत्य विक्रम युक्तेन तद् उक्तम् लक्ष्मण त्वया ॥४-२७-४२॥

एष शोकः परित्यक्तः सर्व कार्य अवसादकः ।
विक्रमेषु अप्रतिहतम् तेजः प्रोत्साहयामि अहम् ॥४-२७-४३॥

शरत् कालम् प्रतीक्षिष्ये स्थितो अस्मि वचने तव ।
सुग्रीवस्य नदीनाम् च प्रसादम् अनुपालयन् ॥४-२७-४४॥

उपकारेण विरः तु प्रतिकारेण युज्यते ।
अकृतज्ञो अप्रतिकृतो हन्ति सत्ववताम् मनः ॥४-२७-४५॥

तत् एव युक्तम् प्रणिधाय लक्ष्मणः
कृत अंजलि तत् प्रतिपूजय भाषितम् ।
उवाच रामम् स्वभिराम दर्शनम्
प्रदर्शयन् दर्शनम् आत्मनः शुभम् ॥४-२७-४६॥

यथोक्तम् एतत् तव सर्वम् ईप्सितम्
नरेन्द्र कर्ता न चिरात् तु वानर ।
शरत् प्रतीक्षः क्षमताम् इमम् भवान्
जल प्रपातम् रिपु निग्रहे धृतः ॥४-२७-४७॥

नियम्य कोपम् प्रतिपाल्यताम् शरत्
क्षमस्व मासाम् चतुरो मया सह ।
वस अचले अस्मिन् मृग राज सेविते
संवर्तयन् शत्रु वधे समर्थः ॥४-२७-४८॥


इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे सप्तविंशः सर्गः ॥४-२७॥

Page is sourced from

sa.wikisource.org रामायणम्/किष्किन्धाकाण्डम्/सर्गः २७