रामायणम्/किष्किन्धाकाण्डम्/सर्गः २३
Template:रामायणम्/किष्किन्धाकाण्डम्
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥४-२३॥
ततः समुपजिघ्रंती कपि राजस्य तत् मुखम् ।
पतिम् लोकश्रुता तारा मृतम् वचनम् अब्रवीत् ॥४-२३-१॥
शेषे त्वम् विषमे दुःखम् अकृत्वा वचनम् मम ।
उपल उपचिते वीर सुदुःखे वसुधा तले ॥४-२३-२॥
मत्तः प्रियतरा नूनम् वानरेन्द्र मही तव ।
शेषे हि ताम् परिष्वज्य माम् च न प्रतिभाषसे ॥४-२३-३॥
सुग्रीवस्य वशम् प्राप्तो विधिः एष भवत्य अहो ।
सुग्रीव एव विक्रांतो वीर साहसिक प्रिय ॥४-२३-४॥
ऋक्ष वानर मुख्याः त्वाम् बलिनम् पर्युपासते ।
तेषाम् विलपितम् कृच्छ्रम् अंगदस्य च शोचतः ॥४-२३-५॥
मम च इमा गिरः श्रुत्वा किम् त्वम् न प्रतिबुध्यसे ।
इदम् तत् वीर शयनम् तत्र शेषे हतो युधि ॥४-२३-६॥
शायिता निहता यत्र त्वया एव रिपवः पुरा ।
विशुद्ध सत्त्व अभिजन प्रिययुद्ध मम प्रिय ॥४-२३-७॥
माम् अनाथाम् विहाय एकाम् गतः त्वम् असि मानद ।
शूराय न प्रदातव्या कन्या खलु विपश्चिता ॥४-२३-८॥
शूर भार्याम् हताम् पश्य सद्यो माम् विधवाम् कृताम् ।
अवभग्नः च मे मानो भग्ना मे शाश्वती गतिः ॥४-२३-९॥
अगाधे च निमग्ना अस्मि विपुले शोक सागरे ।
अश्म सारमयम् नूनम् इदम् मे हृदयम् दृढम् ॥४-२३-१०॥
भर्तारम् निहतम् दृष्ट्वा यत् न अद्य शतधा गतम् ।
सुहृत् चैव हि भर्ता च प्रकृत्या च मम प्रियः ॥४-२३-११॥
प्रहारे च पराक्रान्तः शूरः पंचत्वम् आगतः ।
पति हीना तु या नारी कामम् भवतु पुत्रिणी ॥४-२३-१२॥
धन धान्य समृद्धा अपि विधवा इति उच्यते जनैः ।
स्व गात्र प्रभवे वीर शेषे रुधिर मण्डले ॥४-२३-१३॥
कृमि राग परिस्तोमे स्वकीये शयने यथा ।
रेणु शोणित संवीतम् गात्रम् तव समंततः ॥४-२३-१४॥
परिरब्धुम् न शक्नोमि भुजाभ्याम् प्लवगर्षभ ।
कृत कृत्यो अद्य सुग्रीवो वैरे अस्मिन् अतिदारुणे ॥४-२३-१५॥
यस्य राम विमुक्तेन हृतम् एक इषुणा भयम् ।
शरेण हृदि लग्नेन गात्र संस्पर्शने तव ॥४-२३-१६॥
वार्यामि त्वाम् निरीक्षन्ती त्वयि पंचत्वम् आगते ।
उद्बबर्ह शरम् नीलः तस्य गात्र गतम् तदा ॥४-२३-१७॥
गिरि गह्वर संलीनम् दीप्तम् आशी विषम् यथा ।
तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः ॥४-२३-१८॥
अस्त मस्तक संरुद्धो रश्मिः दिनकरात् इव ।
पेतुः क्षतज धाराः तु व्रणेभ्यः तस्य सर्वशः ॥४-२३-१९॥
ताम्र गैरिक संपृक्ता धारा इव धरा धरात् ।
अवकीर्णम् विमार्जन्ती भर्तारम् रण रेणुना ॥४-२३-२०॥
अस्रैः नयनजैः शूरम् सिषेच अस्त्र समाहतम् ।
रुधिरोक्षित सर्वान्गम् दृष्ट्वा विनिहतम् पतिम् ॥४-२३-२१॥
उवाच तारा पिंगाक्षम् पुत्रम् अंगदम् अंगना ।
अवस्थाम् पश्चिमाम् पश्य पितुः पुत्र सुदारुणाम् ॥४-२३-२२॥
संप्रसक्तस्य वैरस्य गतो अन्तः पाप कर्मणा ।
बाल सूर्योज्ज्वल तनुम् प्रयातम् यम सादनम् ॥४-२३-२३॥
अभिवादय राजानम् पितरम् पुत्र मानदम् ।
एवम् उक्तः समुत्थाय जग्राह चरणौ पितुः ॥४-२३-२४॥
भुजाभ्याम् पीन वृताभ्याम् अंगदो अहम् इति ब्रुवन् ।
अभिवादयमानम् त्वाम् अंगदम् त्वम् यथा पुरा ॥४-२३-२५॥
दीर्घ आयुर् भव पुत्र इति किम् अर्थम् न अभिभाषसे ।
अहम् पुत्र सहाया त्वाम् उपासे गत चेतनम् ।
सिंहेन पातितम् सद्यो गौः स वत्सा इव गो वृषम् ॥४-२३-२६॥
इष्ट्वा संग्राम यज्ञेन राम प्रहरण अंभसा ।
अस्मिन् अवभृथे स्नातः कथम् पत्न्या मया विना ॥४-२३-२७॥
या दत्ता देव राजेन तव तुष्टेन संयुगे ।
शात कौम्भीम् प्रियाम् मालाम् ताम् ते पश्यामि न इह किम् ॥४-२३-२८॥
राज्यश्रीः न जहाति त्वाम् गत असुम् अपि मानद ।
सूर्यस्य आवर्तमानस्य शैल राजम् इव प्रभा ॥४-२३-२९॥
न मे वचः पथ्यम् इदम् त्वया कृतम्
न च अस्मि शक्ता हि निवारणे तव ।
हता सपुत्रा अस्मि हतेन संयुगे
सह त्वया श्रीः विजहाति माम् अपि ॥४-२३-३०॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे त्रयोविंशः सर्गः ॥४-२३॥