रामायणम्/किष्किन्धाकाण्डम्/सर्गः १३
Template:रामायणम्/किष्किन्धाकाण्डम्
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥४-१३॥
ऋश्यमूकात् स धर्मात्मा किष्किन्धाम् लक्ष्मण अग्रजः ।
जगाम सह सुग्रीवो वालि विक्रम पालिताम् ॥४-१३-१॥
समुद्यम्य महत् चापम् रामः कांचन भूषितम् ।
शराम् च आदित्य संकाशान् गृहीत्वा रण साधकान् ॥४-१३-२॥
अग्रतः तु ययौ तस्य राघवस्य महात्मनः ।
सुग्रीवः संहत ग्रीवो लक्ष्मणः च महाबलः ॥४-१३-३॥
पृष्ठतो हनुमान् वीरो नलो नीलः च वीर्यवान् ।
तारः चैव महातेजा हरि यूथप यूथपाः ॥४-१३-४॥
ते वीक्षमाणा वृक्षाम् च पुष्प भार अवलम्बिनः ।
प्रसन्न अंबुवहाः चैव सरितः सागरम् गमाः ॥४-१३-५॥
कन्दराणि च शैलाम् च निर्दराणि गुहाः तथा ।
शिखराणि च मुख्यानि दरीः च प्रिय दर्शनाः ॥४-१३-६॥
वैदूर्य विमलैः तोयैः पद्मैः च आकोश कुड्मलैः ।
शोभितान् सजलान् मार्गे तटाकान् च अवलोकयन् ॥४-१३-७॥
कारण्डैस्सारसैर्हम्सैर्वञ्जुलैर्जलकुक्कुटैः ।
चक्रवाकैस्थाचान्यैश्शकुनैर्प्रतिनादितान् ॥
यद्वा -
कारण्डैः सारसैः हंसैः वंजुलैः जल कुक्कुटैः ।
चक्रवाकैः तथा च अन्यैः शकुनैः प्रतिनादितान् ॥४-१३-८॥
मृदुशष्पाङ्कुराअहारान्निर्भयान्वनगोचरान् ।
चरतांसर्वतोपश्यन्स्थलीषु हरिणान्स्थितान् ॥
यद्वा -
मृदु शष्प अंकुर आहारान् निर्भयान् वन गोचरान् ।
चरताम् सर्वतो अपश्यन् स्थलीषु हरिणान् स्थितान् ॥४-१३-९॥
तटाक वैरिणः च अपि शुक्ल दन्त विभूषितान् ।
घोरान् एकचरान् वन्यान् द्विरदान् कूल घातिनः ॥४-१३-१०॥
मत्तन् गिरि तट उद्घुष्टान् पर्वतान् इव जंगमान् ।
वानरान् द्विरद प्रख्यान् मही रेणु समुक्षितान् ॥४-१३-११॥
वने वन चराम् च अन्यान् खेचराम् च विहंगमान् ।
पश्यन्तः त्वरिता जग्मुः सुग्रीव वश वर्तिनः ॥४-१३-१२॥
तेषाम् तु गच्छताम् तत्र त्वरितम् रघुनंदनः ।
द्रुम षण्ड वनम् दृष्ट्वा रामः सुग्रीवम् अब्रवीत् ॥४-१३-१३॥
एष मेघ इव आकाशे वृक्ष षण्डः प्रकाशते ।
मेघ संघात विपुलः पर्यन्त कदली वृतः ॥४-१३-१४॥
किम् एतत् ज्ञातुम् इच्छामि सखे कौतूहलम् मम ।
कौतूहल अपनयनम् कर्तुम् इच्छामि अहम् त्वया ॥४-१३-१५॥
तस्य तद् वचनम् श्रुत्वा राघवस्य महात्मनः ।
गच्छन्न् एव आचचक्षे अथ सुग्रीवः तत् महद् वनम् ॥४-१३-१६॥
एतद् राघव विस्तीर्णम् आश्रमम् श्रम नाशनम् ।
उद्यान वन संपन्नम् स्वादु मूल फल उदकम् ॥४-१३-१७॥
अत्र सप्तजना नाम मुनयः संशित व्रताः ।
सप्त एव आसन् अधः शीर्षा नियतम् जल शायिनः ॥४-१३-१८॥
सप्त रात्रे कृत आहारा वायुना अचल वासिनः ।
दिवम् वर्ष शतैः याताः सप्तभिः सकलेवराः ॥४-१३-१९॥
तेषाम् एतत् प्रभावेण द्रुम प्राकार संवृतम् ।
आश्रमम् सुदुराधर्षम् अपि स इन्द्रैः सुर असुरैः ॥४-१३-२०॥
पक्षिणो वर्जयन्ति एतत् तथा अन्ये वनचारिणः ।
विशन्ति मोहाद् ये अपि अत्र न निवर्तन्ते ते पुनः ॥४-१३-२१॥
विभूषण रवाअः च अत्र श्रूयंते सकलाक्षराः ।
तूर्य गीत स्वनाअः च अपि गन्धो दिव्यः च राघव ॥४-१३-२२॥
त्रेताग्नयो अपि दीप्यन्ते धूमो हि एष प्रदृश्यते ।
वेष्टयन् इव वृक्ष अग्रान् कपोत अंग अरुणो घनः ॥४-१३-२३॥
एते वृक्षाः प्रकाशन्ते धूम संसक्त मस्तकाः ।
मेघ जाल प्रतिच्छन्ना वैदूर्य गिरयो यथा ॥४-१३-२४॥
कुरु प्रणामम् धर्मात्मन् तेषाम् उद्दिश्य राघवः ।
लक्ष्मणेन सह भ्रात्रा प्रयतः संयत अंजलिः ॥४-१३-२५॥
प्रणमन्ति हि ये तेषाम् ऋषीणाम् भावित आत्मनाम् ।
न तेषाम् अशुभम् किंचित् शरीरे राम दृश्यते ॥४-१३-२६॥
ततो रामः सह भ्रात्रा लक्ष्मणेन कृतांजलिः ।
समुद्दिश्य महात्मानः तान् ऋषीन् अभ्यवादयत् ॥४-१३-२७॥
अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः ।
सुग्रीवो वानराअः चैव जग्मुः संहृष्ट मानसाः ॥४-१३-२८॥
ते गत्वा दूरम् अध्वानम् तस्मात् सप्त जन आश्रमात् ।
ददृशुः ताम् दुराधर्षाम् किष्किन्धाम् वालि पालिताम् ॥४-१३-२९॥
ततस्तु रामानुज राम वानराः
प्रगृह्य शस्त्राणि उदित उग्र तेजसा ।
पुरीम् सुरेश आत्मज वीर्य पालिताम्
वधाय शत्रोः पुनर् आगताः इह ॥४-१३-३०॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे त्रयोदशः सर्गः ॥४-१३॥