रामायणम्/किष्किन्धाकाण्डम्/सर्गः १
Jump to navigation
Jump to search
Template:रामायणम्/किष्किन्धाकाण्डम्
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे प्रथमः सर्गः ॥४-१॥
स ताम् पुष्करिणीम् गत्वा पद्म उत्पल झषाकुलाम् । रामः सौमित्रि सहितो विललाप अकुलेन्द्रियः ॥४-१-१॥ तत्र दृष्ट्वैवा ताम् हर्षात् इन्द्रियाणि चकम्पिरे । स कामवशम् आपन्नः सौमित्रिम् इदम् अब्रवीत् ॥४-१-२॥ सौमित्रे शोभते पम्पा वैदूर्य विमल उदका । फुल्ल पद्म उत्पलवती शोभिता विविधैः द्रुमैः ॥४-१-३॥ सौमित्रे पश्य पम्पायाः काननम् शुभ दर्शनम् । यत्र राजन्ति शैला वा द्रुमाः स शिखरा इव ॥४-१-४॥ माम् तु शोकाभि सन्तप्तम् आधयः पीडयन्ति वै । भरतस्य च दुःखेन वैदेह्या हरणेन च ॥४-१-५॥ शोकार्तस्य अपि मे पम्पा शोभते चित्र कानना । व्यवकीर्णा बहु विधैः पुष्पैः शीतोदका शिवा ॥४-१-६॥ नलिनैः अपि संछन्ना हि अत्यर्थ शुभ दर्शना । सर्प व्याल अनुचरिता मृग द्विज समाकुला ॥४-१-७॥ अधिकम् प्रविभाति एतत् नील पीतम् तु शाद्वलम् । द्रुमाणाम् विविधैः पुष्पैः परिस्तोमैः इव अर्पितम् ॥४-१-८॥ पुष्प भार समृद्धानि शिखराणि समन्ततः । लताभिः पुष्पित अग्राभिः उपगूढानि सर्वतः ॥४-१-९॥ सुख अनिलोऽयम् सौमित्रे कालः प्रचुर मन्मथः । गन्धवान् सुरभिर् मासो जात पुष्प फल द्रुमः ॥४-१-१०॥ पश्य रूपाणि सौमित्रे वनानाम् पुष्प शालिनाम् । सृजताम् पुष्प वर्षाणि वर्षम् तोयमुचाम् इव ॥४-१-११॥ प्रस्तरेषु च रम्येषु विविधाः कानन द्रुमाः । वायु वेग प्रचलिताः पुष्पैः अवकिरन्ति गाम् ॥४-१-१२॥ पतितैः पतमानैः च पादपस्थैः च मारुतः । कुसुमैः पश्य सौमित्रे क्रीडतीव समन्ततः ॥४-१-१३॥ विक्षिपन् विविधाः शाखा नगानाम् कुसुमोत्कटाः । मारुतः चलित स्थानैः षट्पदैः अनुगीयते ॥४-१-१४॥ मत्त कोकिल सन्नादैः नर्तयन् इव पादपान् । शैल कन्दर निष्क्रान्तः प्रगीत इव च अनिलः ॥४-१-१५॥ तेन विक्षिपता अत्यर्थम् पवनेन समन्ततः । अमी संसक्त शाखाग्रा ग्रथिता इव पादपाः ॥४-१-१६॥ स एव सुख संस्पर्शो वाति चन्दन शीतलः । गन्धम् अभ्यवहन् पुण्यम् श्रम अपनयो अनिलः ॥४-१-१७॥ अमी पवन विक्षिप्ता विनन्दन्ती इव पादपाः । षट्पदैः अनुकूजद्भिः वनेषु मधु गन्धिषु ॥४-१-१८॥ गिरि प्रस्थेषु रम्येषु पुष्पवद्भिः मनोरमैः । संसक्त शिखरा शैला विराजन्ति महाद्रुमैः ॥४-१-१९॥ पुष्प संछन्न शिखरा मारुतः उत्क्षेप चंचला । अमी मधुकरोत्तंसाः प्रगीत इव पादपाः ॥४-१-२०॥ सुपुष्पितांस्तु पश्य एतान् कर्णिकारान् समन्ततः । हाटक प्रति संच्छन्नान् नरान् पीतांबरान् इव ॥४-१-२१॥ अयम् वसन्तः सौमित्रे नाना विहग नादितः । सीतया विप्रहीणस्य शोक सन्दीपनो मम ॥४-१-२२॥ माम् हि शोक समाक्रान्तम् संतापयति मन्मथः । हृष्टम् प्रवदमानश्च समाह्वयति कोकिलः ॥४-१-२३॥ एष दाअत्यूहको हृष्टो रम्ये माम् वन निर्झरे । प्रणदन् मन्मथाविष्टम् शोचयिष्यति लक्ष्मण ॥४-१-२४॥ श्रुत्वा एतस्य पुरा शब्दम् आश्रमस्था मम प्रिया । माम् आहूय प्रमुदिता परमम् प्रत्यनन्दत ॥४-१-२५॥ एवम् विचित्राः पतगा नाना राव विराविणः । वृक्ष गुल्म लताः पश्य संपतन्ति समन्ततः॥४-१-२६॥ विमिश्रा विहगाः पुंभिः आत्म व्यूह अभिनन्दिताः । भृङ्गराज प्रमुदिताः सौमित्रे मधुर स्वराः ॥४-१-२७॥ अस्याः कूले प्रमुदिताः संघशः शकुनास्त्विह । दात्यूहरति विक्रन्दैः पुंस्कोकिल रुतैः अपि ॥४-१-२८॥ स्वनन्ति पादपाः च इमे माम् अनङ्ग प्रदीपकाः । अशोक स्तबक अङ्गारः षट्पद स्वन निस्वनः ॥४-१-२९॥ माम् हि पल्लव ताम्रार्चिः वसन्ताग्निः प्रधक्ष्यति । न हि ताम् सूक्ष्मपक्ष्माक्षीम् सुकेशीम् मृदु भाषिणीम् ॥४-१-३०॥ अपश्यतो मे सौउमित्रे जीवितेऽस्ति प्रयोजनम् । अयम् हि रुचिरः तस्याः कालो रुचिर काननः ॥४-१-३१॥ कोकिलाकुल सीमान्तः दयिताया मम अनघः । मन्मध आयास संभूतो वसन्त गुण वर्धितः ॥४-१-३२॥ अयम् माम् धक्ष्यति क्षिप्रम् शोकाग्निः न चिरादिव । अपश्यत ताम् वनिताम् पश्यतो रुचिर द्रुमान् ॥४-१-३३॥ मम अयम् आत्मप्रभवो भूयस्त्वम् उपयास्यति । अदृश्यमाना वैदेही शोकम् वर्धयती इह मे ॥४-१-३४॥ दृश्यमानो वसन्तः च स्वेद संसर्ग दूषकः । माम् हि सा मृगशाबाक्षी चिन्ता शोक बलात्कृतम् ॥४-१-३५॥ संतापयति सौमित्रे कृइरः चैत्र वनानिलः । अमी मयूराः शोभन्ते प्रनृत्यन्तः ततः ततः ॥४-१-३६॥ स्त्वैः पक्षैः पवन उद्धूतैः गवाक्षैः स्फाटिकैः इव । शिखिनीभिः परिवृतास्त एते मद मूर्छिताः ॥४-१-३७॥ मन्मथ अभिपरीतस्य मम मन्मथ वर्धनाः । पश्य लक्ष्णम नृत्यन्तम् मयूरम् उपनृत्यति ॥४-१-३८॥ शिखिनी मन्मथ आर्तैः एषा भर्तारम् गिरि सानुनि । ताम् एव मनसा रामाम् मयुरोऽपि अनुधावति ॥४-१-३९॥ वितत्य रुचिरौ पक्षौ रुतैः उपहसन् इव । मयूरस्य वने नूनम् रक्षसा न हृता प्रिया ॥४-१-४०॥ तस्मात् नृत्यति रम्येषु वनेषु सह कान्तया । मम त्वयम् विना वासः पुष्पमासे सुदुःसहः ॥४-१-४१॥ पश्य लक्ष्मण संरागः तिर्यक् योनिगतेषु अपि । यदेषा शिखिनी कामात् भर्तारम् अभिवर्तते ॥४-१-४२॥ माम् अपि एवम् विशालाक्षी जानकी जात संभ्रमा । मदनेन अभिवर्तेत यदि न अपहृता भवेत् ॥४-१-४३॥ पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे । पुष्प भार समृद्धानाम् वनानाम् शिशिरात्यये ॥४-१-४४॥ रुचिराणि अपि पुष्पाणि पादपानाम् अतिश्रिया । निष्फलानि महीम् यान्ति समम् मधुकरोत्करैः ॥४-१-४५॥ नदन्ति कावम् मुदिताः शकुना सङ्घशः कलम् । आह्वयन्त इव अन्योन्यम् काम उन्मादकरा मम ॥४-१-४६॥ वसन्तो यदि तत्र अपि यत्र मे वसति प्रिया । नूनम् परवशा सीता सा अपि शोच्यति अहम् यथा ॥४-१-४७॥ नूनम् न तु वसन्तः तम् देशम् स्पृशति यत्र सा । कथम् हि असित पद्माक्षी वर्तयेत् सा मया विना ॥४-१-४८॥ अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया । किम् करिष्यति सुश्रोणी सा तु निर् भर्त्सिता परैः ॥४-१-४९॥ श्यामा पद्म पलाशाक्षी मृदु भाषा च मेम् प्रिया । नूनम् वसन्तम् आसाद्य परित्यक्ष्यति जीवितम् ॥४-१-५०॥ दृढम् हि हृदये बुधिः मम संप्रतिवर्तते । न अलम् वर्तयितुम् सीता साध्वी मत् विरहम् गता ॥४-१-५१॥ मयि भावो हि वैदेह्याः तत्त्वतो विनिवेशितः । मम अपि भावः सीतायाम् सर्वधा विनिवेशितः ॥४-१-५२॥ एष पुष्पवहो वायुः सुख स्पर्शो हिमावहः । ताम् विचिन्तयतः कान्ताम् पावक प्रतिमो मम ॥४-१-५३॥ सदा सुखम् अहम् मन्ये यम् पुरा सह सीताया । मारुतः स विना सीताम् शोक संजनओ मम ॥४-१-५४॥ ताम् विन अथ विहङ्गो असौ पक्षी प्रणदितः तदा । वायसः पादपगतः प्रहृष्टम् अभि कूजति ॥४-१-५५॥ एष वै तत्र वैदेह्या विहगः प्रतिहारकः । पक्षी माम् तु विशालाक्ष्याः समीपम् उपनेष्यति ॥४-१-५६॥ पश्य लक्ष्मण संनादम् वने मद विवर्धनम् । पुष्पित अग्रेषु वृक्षेषु द्विजानाम् अवकूजताम् ॥४-१-५७॥ विक्षिप्ताम् पवनेन एताम् असौ तिलक मञ्जरीम् । षट्पदः सहसा अभ्येति मद उद्धूताम् इव प्रियाम् ॥४-१-५८॥ कामिनाम् अयम् अत्यन्तम् अशोकः शोक वर्धनः । स्तबकैः पवन उत्क्षिप्तैः तर्जयन् इव माम् स्थितः ॥४-१-५९॥ अमी लक्ष्मण दृश्यन्ते चूताः कुसुम शालिनः । विभ्रम उत्सिक्त मनसः स अङ्गरागा नरा इव ॥४-१-६०॥ सौमित्रे पश्य पम्पायाः चित्रासु वन राजिषु । किंनरा नरशार्दूल विचरन्ति ततः ततः ॥४-१-६१॥ इमानि शुभ गन्धीनि पश्य लक्ष्मण सर्वशः । नलिनानि प्रकाशन्ते जले तरुण सूर्य वत् ॥४-१-६२॥ एषा प्रसन्न सलिला पद्म नील उत्पलायुता । हंस कारण्डव आकीर्णा पम्पा सौगन्धिका युता ॥४-१-६३॥ जले तरुण सूर्याभैः षट्पद आहत केसरैः । पन्कजैः शोभते पम्पा समन्तात् अभिसंवृता ॥४-१-६४॥ चक्रवाक युता नित्यम् चित्र प्रस्थ वनान्तरा । मातंग मृग यूथैः च शोभते सलिल अर्थिभिः ॥४-१-६५॥ पवन आहत वेगाभिः ऊर्मिभिः विमले अंभसि । पन्कजानि विराजन्ते ताड्यमानानि लक्ष्मण ॥४-१-६६॥ पद्म पत्र विशालाक्षीम् सततम् प्रिय पन्कजाम् । अपश्यतो मे वैदेहीम् जीवितम् न अभिरोचते ॥४-१-६७॥ अहो कामस्य वामत्वम् यो गताम् अपि दुर्लभाम् । स्मारयिष्यति कल्याणीम् कल्याण तर वादिनीम् ॥४-१-६८॥ शक्यो धारयितुम् कामो भवेत् अभ्यागतो मया । यदि भूयो वसन्तो माम् न हन्यात् पुष्पित द्रुमः ॥४-१-६९॥ यानि स्म रमणीयानि तया सह भवन्ति मे । तानि एव अरमणीयानि जायन्ते मे तया विना ॥४-१-७०॥ पद्मकोश पलाशानि द्रष्टुम् दृष्टिः हि मन्यते । सीताया नेत्र कोशाभ्याम् सदृशान् इति लक्ष्मण ॥४-१-७१॥ पद्म केसर संसृष्टो वृक्षान्तर विनिःसृतः । निःश्वास इव सीताया वाति वायुः मनोहरः ॥४-१-७२॥ सौमित्रे पश्य पम्पाया दक्षिणे गिरि सानुषु । पुष्पितान् कर्णिकारस्य यष्टिम् परम शोभिताम् ॥४-१-७३॥ अधिकम् शैल राजोऽयम् धातुभिः तु विभूषितः । विचित्रम् सृजते रेणुम् वायु वेग विघट्टितम् ॥४-१-७४॥ गिरि प्रस्थास्तु सौमित्रे सर्वतः संप्रपुष्पितैः । निष्पत्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः ॥४-१-७५॥ पम्पा तीर रुहाः च इमे संसक्ता मधु गन्धिनः । मालती मल्लिका पद्म करवीराः च पुष्पिताः ॥४-१-७६॥ केतक्यः सिन्धुवाराः च वासन्त्यः च सुपुष्पिताः । माधव्यो गन्धपूर्णाः च कुंदगुल्माः च सर्वशः ॥४-१-७७॥ चिरिबिल्वा मधूकाः च वञ्जुला वकुलाः तथा । चम्पकाः तिलकाः च एव नागवृक्षाः च पुष्पिताः ॥४-१-७८॥ पद्मकाः च एव शोभन्ते नील अशोकाः । च पुष्पिताःलोध्राः च गिरि पृष्ठेषु सिंह केसर पिन्जराः ॥४-१-७९॥ अन्कोलाः च कुरण्टाः च पूर्णकाः पारिभद्रकाः । चूताः पाटलयः च अपि कोविदाराः च पुष्पिताः ॥४-१-८०॥ मुचुकुंद अर्जुनाः च एव दृश्यन्ते गिरिसानुषुकेतक उद्दालकाः । च एव शिरीषाः शिंशुपा धवाः ॥४-१-८१॥ शाल्मल्यः किंशुकाः च एव रक्ताः कुरवकाः तथा । तिनिशा नक्तमालाः च चंदनाः स्यंदनाः तथा ॥४-१-८२॥ हिन्तालः तिलकाः च एव नाग वृक्षाः च पुष्पिताः । पुष्पितान् पुष्पित अग्राभिः लताभिः परिवेष्टितान् ॥४-१-८३॥ द्रुमान् पश्य इह सौमित्रे पम्पाया रुचिरान् बहून् । वात विक्षिप्त विटपान् यथा आसन्नान् द्रुमान् इमान् ॥४-१-८४॥ लताः समनुवर्तन्ते मत्ता इव वर स्त्रियः । पादपात् पादपम् गच्छन् शैलात् शैलम् वनात् वनम् ॥४-१-८५॥ वाति न एक रस आस्वाद सम्मोदित इव अनिलः । केचित् पर्याप्त कुसुमाः पादपा मधु गन्धिनः ॥४-१-८६॥ केचित् मुकुल संवीताः श्याम वर्णा इव आबभुः । इदम् मृष्टम् इदम् स्वादु प्रफुल्लम् इदम् इत्यपि ॥४-१-८७॥ राग युक्तो मधुकरः कुसुमेषु आवलीयते ॥ निलीय पुनर् उत्पत्य सहसा अन्यत्र गच्छति । मधु लुब्धो मधुकरः पंपा तीर द्रुमेषु असौ ॥४-१-८८॥ इयम् कुसुम सन्घातैः उपस्तीर्णा सुखा कृता । स्वयम् निपतितैः भूमिः शयन प्रस्तरैः इव ॥४-१-८९॥ विविधा विविधैः पुष्पैः तैः एव नगसानुषु । विस्तेएर्णाः पीत रक्ताभा सौमित्रे प्रस्तराः कृताः ॥४-१-९०॥ हिमान्ते पश्य सौमित्रे वृक्षाणाम् पुष्प संभवम् । पुष्प मासे हि तरवः संघर्षात् इव पुष्पिताः ॥४-१-९१॥ आह्वयन्त इव अन्योन्यम् नगाः षट्पद नादिताः । कुसुमोत्तंस विटपाः शोभन्ते बहु लक्ष्मण ॥४-१-९२॥ एष कारण्डवः पक्षी विगाह्या सलिलम् शुभम् । रमते कान्ताया सार्थम् कामम् उद्दीपयन् इव ॥४-१-९३॥ मंदकिन्यास्तु यदिदम् रूपम् एतन् मनोररम् । स्थाने जगति विख्याता गुणाः तस्या मनोरमाः ॥४-१-९४॥ यदि दृश्येत सा साध्वी यदि च इह वसेम हि । स्पृहयेयम् न शक्राय न अयोध्यायै रघूत्तम ॥४-१-९५॥ न हि एवम् रमणीयेषु शाद्वलेषु तया सह । रमतो मे भवेत् चिन्ता न स्पृहा अन्येषु वा भवेत् ॥४-१-९६॥ अमी हि विविधैः पुष्पैः तरवो रुचिर च्छदाः । कानने अस्मिन् विना कान्ताम् चित्तम् उत्पादयन्ति मे ॥४-१-९७॥ पश्य शीत जलाम् च इमाम् सौमित्रे पुष्कर आयुताम् । चक्रवाक अनुचरिताम् कारण्डव निषेविताम् ॥४-१-९८॥ प्लवैः क्रौञ्चैः च संपूर्णाम् महा मृग निषेविताम् । अधिकम् शोभते पम्पा विकूजद्भिः विहङ्गमैः ॥४-१-९९॥ दीपयन्ती इव मे कामम् विविधा मुदिता द्विजाः । श्यामाम् चन्द्र मुखीम् स्मृत्वा प्रियाम् पद्म निभ ईक्षणाम् ॥४-१-१००॥ पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान् । माम् पुनः मृग शबाक्षी वैदेह्या विरहीकृतम् । व्यधयन्तीव मे चित्तम् संचरन्तः ततः ततः ॥४-१-१०१॥ अस्मिन् सानुनि रम्ये हि मत्त द्विज गणाकुले । पश्य अयम् यदि ताम् कन्ताम् ततः स्वस्ति भवेत् मम ॥४-१-१०२॥ जीवेयम् खलु सौमित्रे मया सह सुमध्यमा । सेवेत यदि वैदेही पम्पायाः पवनम् शुभम् ॥४-१-१०३॥ पद्म सौगन्धिक वहम् शिवम् शोक विनाशनम् । धन्या लक्ष्मण सेवन्ते पम्पाया वन मरुतम् ॥४-१-१०४॥ श्यमा पद्म पलाशाक्षी प्रिया विरहिता मया । कथम् धरयति प्राणान् विवशा जनकात्मजा ॥४-१-१०५॥ किम् नु वक्ष्यामि धर्मज्ञम् राजानम् सत्य वादिनम् । जनकम् पृष्ट सीतम् तम् कुशलम् जन संसदि ॥४-१-१०६॥ या मम् अनुगता मन्दम् पित्रा प्रस्थापितुम् वनम् । सीता धर्मम् समास्थय क्व नु सा वर्तते प्रिया ॥४-१-१०७॥ तया विहीनः कृपणः कथम् लक्ष्मण धारये । य माम् अनुगता रज्यात् भ्रष्टम् विहत चेतसम् ॥४-१-१०८॥ तत् चारु अञ्चित पद्माक्षम् सुगन्धि शुभम् अव्रणम् । अपश्यतो मुखम् तस्याः सीदति इव मतिः मम ॥४-१-१०९॥ स्मित हास्यान्तर युतम् गुणवत् मधुरम् हितम् । वैदेह्याः वाक्यम् अतुलम् कदा श्रोष्यामि लक्ष्मण ॥४-१-११०॥ प्राप्य दुःखम् वने श्यामा माम् मन्मध विकर्शितम् । नष्ट दुःखेव हृष्टेव साध्वी साधु अभ्यभाषत ॥४-१-१११॥ किम् नु वक्ष्यामि अयोध्यायाम् कौसल्याम् हि नृपात्मज । क्व सा स्नुषा इति पृच्छन्तीम् कथम् च अति मनस्विनीम् ॥४-१-११२॥ गच्छ लक्ष्मण पश्य त्वम् भरतम् भ्रातृउ वत्सलम् । न हि अहम् जीवितुम् शक्तः ताम् ऋते जनकात्मजम् ॥४-१-११३॥ इति रामम् महात्मानम् विलपन्तम् अनाथ वत् । उवाच लक्ष्मणो भ्राता वचनम् युक्तम् अव्ययम् ॥४-१-११४॥ संस्थम्भ राम भद्रम् ते मा शुचः पुरुषोत्तम । न ईदृइशानाम् मतिः मन्दा भवति अकलुषात्मनाम् ॥४-१-११५॥ स्मृत्वा वियोगजम् दुःखम् त्यज स्नेहम् प्रिये जने । अति स्नेह परिष्वन्गात् वर्तिः अर्द्रा अपि दह्यते ॥४-१-११६॥ यदि गच्छति पतालम् ततो अभ्यऽधिकम् एव वा । सर्वधा रावणः तात न भविष्यति राघव ॥४-१-११७॥ प्रवृत्तिः लभ्यताम् तावत् तस्य पापस्य रक्षसः । ततः हास्यति वा सीताम् निधनम् वा गमिष्यति ॥४-१-११८॥ यदि याति दितेः गर्भम् रावणः सह सीताया । तत्र अपि एनम् हनिष्यामि न चेत् दास्यति मैथिलीम् ॥४-१-११९॥ स्वास्थ्यम् भद्रम् भजस्व आर्यः त्यजताम् कृपणा मतिः । अर्थो हि नष्ट कार्यार्थैः न अयत्ने न अधिगम्यते ॥४-१-१२०॥ उत्साहो बलवान् आर्य नास्ति उत्साहात् परम् बलम् । सः उत्साहस्य हि लोकेषु न किंचित् अपि दुर्लभम् ॥४-१-१२१॥ उत्साहवन्तः पुरुषा न अवसीदन्ति कर्मसु । उत्साह मत्रम् आश्रित्य सीताम् प्रतिलप्स्याम् जनकीम् ॥४-१-१२२॥ त्यज्य काम वृत्तत्वम् शोकम् सम् न्यस्य पृष्टतः । महात्मानम् कृतात्मानम् आत्मानम् न अवबुध्यसे ॥४-१-१२३॥ एवम् संबोधितः तेन शोकोपहत चेतनः । त्य्ज्य शोकम् च मोहम् च रामो धैर्यम् उपागमत् ॥४-१-१२४॥ सोऽभ्य अतिक्रामत् अव्यग्रः ताम् अचिन्त्य पराक्रमः । रामः पम्पाम् सु रुचिराम् रम्याम् पारिप्लव द्रुमान् ॥४-१-१२५॥ निरीक्षमाणः सहसा महात्मा सर्वम् वनम् निर्झर कन्दराम् च । उद्विग्न चेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे ॥४-१-१२६॥ तम् मत्त मातङ्ग विलास गामी गच्छन्तम् अव्यग्र मनाः महात्मा । स लक्ष्मणो राघवम् अप्रमत्तो ररक्ष धर्मेण बलेन च एव ॥४-१-१२७॥ तौ ऋष्यमूकस्य समीप चारी चरन् ददर्श अद्भुत दर्शनीयौ । शाखा मृगाणाम् अधिपः तरस्वी वितत्रसे नैव चिचेष्ट चेष्टाम् ॥४-१-१२८॥ स तौ महात्मा गज मन्द गामि शखा मृगः तत्र चिरन् चरन्तौ । दृष्ट्वा विषादम् परमम् जगाम चिन्ता परीतो भय भार मग्नः ॥४-१-१२९॥ तम् आश्रमम् पुण्य सुखम् शरण्यम् सदैव शाखा मृग सेवितान्तम् । त्रस्ताः च दृष्ट्वा हरयोः अभिजग्मुः महौजसौ राघव लक्ष्मणौ तौ ॥४-१-१३०॥
इति वाल्मीकि रामायणे आदि काव्ये किष्किन्धाकाण्डे प्रथमः सर्गः ॥४-१॥