रामायणम्/उत्तरकाण्डम्/सर्गः ४३

From HinduismPedia
Jump to navigation Jump to search

Template:रामायणम्/उत्तरकाण्डम्

तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः ।
कथानां बहुरूपाणां हास्यकाराः समन्ततः ।। ७.४३.१ ।।

विजयो मधुमत्तश्च काश्यपो मङ्गलः कुटः ।
सुराजः कालियो भद्रो दन्तवक्रः सुमागधः ।। ७.४३.२ ।।

एते कथा बहुविधाः परिहाससमन्विताः ।
कथयन्ति स्म संहृष्टा राघवस्य महात्मनः ।। ७.४३.३ ।।

ततः कथायां कस्याञ्चिद्राघवः समभाषत ।
काः कथा नगरे भद्र वर्तन्ते विषयेषु च ।। ७.४३.४ ।।

मामाश्रितानि कान्याहुः पौरजानपदा जनाः ।
किं च सीतां समाश्रित्य भरतं किं च लक्ष्मणम् ।। ७.४३.५ ।।

किं नु शत्रुघ्नमुद्दिश्य कैकयीं किं नु मातरम् ।
वक्तव्यतां च राजानो वरे राज्ये व्रजन्ति च ।। ७.४३.६ ।।

एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् ।
स्थिताः कथा शुभाः राजन्वर्तन्ते पुरवासिनाम् ।। ७.४३.७ ।।

अमुं तु विजयं सौम्य दशग्रीववधार्जितम् ।
भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ ।। ७.४३.८ ।।

एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् ।
कथयस्व यथातत्त्वं सर्वं निरवशेषतः ।। ७.४३.९ ।।

शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः ।
श्रुत्वेदानीं शुभं कुर्यां नकुर्यामशुभानि च ।। ७.४३.१० ।।

कथयस्व च विस्रब्धो निर्भयं विगतज्वरः ।
कथयन्ति यथा पौराः पापा जनपदेषु च ।। ७.४३.११ ।।

राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः ।
प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ।। ७.४३.१२ ।।

शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् ।
चत्वरापणरथ्यासु वनेषूपवनेषु च ।। ७.४३.१३ ।।

दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् ।
अश्रुतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः ।। ७.४३.१४ ।।

रावणश्च दुराधर्षो हतः सबलवाहनः ।
वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः ।। ७.४३.१५ ।।

हत्वा च रावणं सङ्ख्ये सीतामाहृत्य राघवः ।
अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ।। ७.४३.१६ ।।

कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् ।
अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ।। ७.४३.१७ ।।

लङ्कामपि पुरा नीतामशोकवनिकां गताम् ।
रक्षसां वशमापन्नां कथं रामो न कुत्सते ।। ७.४३.१८ ।।

अस्माकमपि दारेषु सहनीयं भविष्यति ।
यथा हि कुरुते राजा प्रजा तमनुवर्तते ।। ७.४३.१९ ।।

एवं बहुविधा वाचो वदन्ति पुरवासिनः ।
नगरेषु च सर्वेषु राजञ्जनपदेषु च ।। ७.४३.२० ।।

तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् ।
उवाच सुहृदः सर्वान्कथमेतद्ब्रवीथ माम् ।। ७.४३.२१ ।।

सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च ।
प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ।। ७.४३.२२ ।।

श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् ।
विसर्जयामास तदा वयस्याञ्छत्रुसूदनः ।। ७.४३.२३ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिचत्वारिंशः सर्गः ।। ४३ ।।

वर्गः:रामायणम्/उत्तरकाण्डम्

Page is sourced from

sa.wikisource.org रामायणम्/उत्तरकाण्डम्/सर्गः ४३