रामायणम्/उत्तरकाण्डम्/सर्गः ३६

From HinduismPedia
Jump to navigation Jump to search

Template:रामायणम्/उत्तरकाण्डम्


ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः ।
शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ।। ७.३६.१ ।।

चलकुण्डलमौलिस्रक्तपनीयविभूषणः ।
पादयोर्न्यपतद्वायुस्तिस्रोपस्थाय वेधसे ।। ७.३६.२ ।।

तं तु वेदविदा तेन लम्बाभरणशोभिना ।
वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ।। ७.३६.३ ।।

स्पृष्टमात्रस्ततः सो ऽथ सलीलं पद्मयोनिना ।
जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ।। ७.३६.४ ।।

प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा ।
चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा ।। ७.३६.५ ।।

मरुद्रोधाद्विनिर्मुक्तास्ताः प्रजा मुदिता ऽभवन् ।
शीतदाहविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ।। ७.३६.६ ।।

ततस्त्रियुग्मस्त्रिककुत्ऺित्रधामा त्रिदशार्चितः ।
उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ।। ७.३६.७ ।।

भो महेन्द्रेशवरुणप्रजेश्वरधनेश्वराः ।
जानतामपि वः सर्वं वक्ष्यामि श्रूयतां हितम् ।। ७.३६.८ ।।

अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति ।
तद्वदध्वं वरान्सर्वे मारुतस्यास्य तुष्टये ।। ७.३६.९ ।।

ततः सहस्रनयनः प्रीतियुक्तः शुभाननः ।
कुशेशयमयीं मालामुत्क्षिप्येदं वचो ऽब्रवीत् ।। ७.३६.१० ।।

मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः ।
नाम्ना वै कपिशार्दूलो भविता हनुमानिति ।। ७.३६.११ ।।

अहमस्य प्रदास्यामि परमं वरमद्भुतम् ।
इतः प्रभृति वज्रस्य ममावध्यो भविष्यति ।। ७.३६.१२ ।।

मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः ।
तेजसो ऽस्य मदीयस्य ददामि शतिकां कलाम् ।। ७.३६.१३ ।।

यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति ।
तदास्य शास्त्रं दास्यामि येन वाग्ग्मी भविष्यति ।। ७.३६.१४ ।।

नचास्य भविता कश्चित्सदृशः शास्त्रदर्शने ।
वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति ।
वर्षायुतशतेनापि मत्पाशादुदकादपि ।। ७.३६.१५ ।।

यमो दण्डादवध्यत्वमरोगत्वं च नित्यशः ।
वरं ददामि सन्तुष्ट अविषादं च संयुगे ।। ७.३६.१६ ।।

गदेयं मामिका नैनं संयुगेषु वधिष्यति ।
इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः ।। ७.३६.१७ ।।

मत्तो मदायुधानां च न वध्यो ऽयं भविष्यति ।
इत्येवं शङ्करेणापि दत्तो ऽस्य परमो वरः ।। ७.३६.१८ ।।

सर्वेषां ब्रह्मदण्डानामवध्यो ऽयं भविष्यति ।
दीर्घायुश्च महात्मा च इति ब्रह्माब्रवीद्वचः ।। ७.३६.१९ ।।

विश्वकर्मा च दृष्ट्वैनं बालसूर्योपमं शिशुम् ।
शिल्पिनां प्रवरः प्रादाद्वरमस्य महामतिः ।। ७.३६.२० ।।

मत्कृतानि च शस्त्राणि यानि दिव्यानि संयुगे ।
तैरवध्यत्वमापन्नश्चिरजीवी भविष्यति ।। ७.३६.२१ ।।

ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलङ्कृतम् ।
चतुर्मुखस्तुष्टमना वायुमाह जगद्गुरुः ।। ७.३६.२२ ।।

अमित्राणां भयकरो मित्राणामभयङ्करः ।
अजेयो भविता पुत्रस्तव मारुत मारुतिः ।। ७.३६.२३ ।।

कामरूपः कामचारी कामगः प्लवतां वरः ।
भवत्यव्याहतगतिः कीर्तिमांश्च भविष्यति ।। ७.३६.२४ ।।

रावणोत्सादनार्थानि रामप्रियकरणि च ।
रोमहर्षकराण्येष कर्ता कर्माणि संयुगे ।। ७.३६.२५ ।।

एवमुक्त्वा तमामन्त्र्य मारुतं त्वमरैः सह ।
यथागतं ययुः सर्वे पितामहपुरोगमाः ।। ७.३६.२६ ।।

सो ऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् ।
अञ्जनायास्तमाचख्यौ वरदत्तं विनिर्गतः ।। ७.३६.२७ ।।

प्राप्य राम वरानेष वरदानसमन्वितः ।
बलेनात्मनि संस्थेन सो ऽपूर्यत यथा ऽर्णवः ।। ७.३६.२८ ।।

तरसा पूर्यमाणो ऽपि तदा वानरपुङ्गवः ।
आश्रमेषु महर्षीणामपराध्यति निर्भयः ।। ७.३६.२९ ।।

स्रुग्भाण्डान्यग्निहोत्रं च वल्कलाजिनसञ्चयान् ।
भग्नविच्छिन्नविध्वस्तान्संशान्तानां करोत्ययम् ।। ७.३६.३० ।।

एवंविधानि कर्माणि प्रावर्तत महाबलः ।
सर्वेषां ब्रह्मदण्डानामवध्यः शम्भुना कृतः ।। ७.३६.३१ ।।

जानन्त ऋषयस्तं वै सहन्ते तस्य शक्तितः ।। ७.३६.३२ ।।

यथा केसरिणा त्वेष वायुना सो ऽञ्जनासुतः ।
प्रतिषिद्धो ऽपि मर्यादां लङ्घयत्येव वानरः ।। ७.३६.३३ ।।

ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः ।
शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः ।। ७.३६.३४ ।।

बाधसे यत्समाश्रित्य बलमस्मान्प्लवङ्गम ।
तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः ।
यदा ते स्मार्यते कीर्तिस्तदा ते वर्धते बलम् ।। ७.३६.३५ ।।

ततस्स हृततेजौजा महर्षिवचनौजसा ।
एषोश्रमाणि तान्येव मृदुभावं गतो ऽचरत् ।। ७.३६.३६ ।।

अथर्क्षरजसो नाम वालिसुग्रीवयोः पिता ।
सर्ववानरराजा ऽ ऽसीत्तेजसा भास्करप्रभः ।। ७.३६.३७ ।।

स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः ।
स च ऋक्षरजा नाम कालधर्मेण सङ्गतः ।। ७.३६.३८ ।।

तस्मिन्नस्तमिते चाथ मन्त्रिभिर्मन्त्रकोविदैः ।
पित्र्ये पदे कृतो वाली सुग्रीवो वालिनः पदे ।। ७.३६.३९ ।।

सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् ।
आबाल्यं सख्यमभवदनिलस्याग्निना यथा ।। ७.३६.४० ।।

एष शापवशादेव न वेद बलमात्मनः ।
वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् ।। ७.३६.४१ ।।

न ह्येष राम सुग्रीवो भ्राम्यमाणो ऽपि वालिना ।। ७.३६.४२ ।।

देव जानाति न ह्येष बलमात्मनि मारुतिः ।
ऋषिशापाहृतबलस्तदैष कपिसत्तमः ।। ७.३६.४३ ।।

सिंहः कुञ्जररुद्धो वा आस्थितः सहितो रणे ।। ७.३६.४४ ।।

पराक्रमोत्साहमतिप्रतापसौशील्यमाधुर्यनयानयैश्च ।
गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः को ऽभ्यधिको ऽस्ति लोके ।। ७.३६.४५ ।।

असौ पुनर्व्याकरणं ग्रहीष्यन्सूर्योन्मुखः प्रष्टुमना कपीन्द्रः ।
उद्यद्गिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयनप्रमेयः ।। ७.३६.४६ ।।

ससूत्रवृत्त्यर्थपदं महार्थं ससङ्ग्रहं साद्ध्यति वै कपीन्द्रः ।
नह्यस्य कश्चित्सदृशो ऽस्ति शास्त्रे वैशारदे च्छन्दगतौ तथैव ।। ७.३६.४७ ।।

सर्वासु विद्यासु तपोविधाने प्रस्पर्धते ऽयो हि गुरुं सुराणाम् ।
सो ऽयं नवव्याकरणार्थवेत्ता ब्रह्मा भविष्यत्यपि ते प्रसादात् ।। ७.३६.४८ ।।

प्रवीविवक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्य
युगक्षये ह्येव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्तात् ।। ७.३६.४९ ।।

एषेव चान्ये च महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः ।
सतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम सुरैर्हि सृष्टाः ।। ७.३६.५० ।।

तदेत्कथितं सर्वं यन्मां त्वं परिपृच्छसि ।
हनूमतो बालभावे कर्मैतत्कथितं मया ।। ७.३६.५१ ।।

श्रुत्वा ऽगस्त्यस्य कथितं रामः सौमित्रिरेव च ।
विस्मयं परमं जग्मुर्वानरा राक्षसैः सह ।। ७.३६.५२ ।।

अगस्त्यस्त्वब्रवीद्रामं सर्वमेतछ्रुतं त्वया ।
दृष्टः सम्भाषितश्चासि राम गच्छामहे वयम् ।। ७.३६.५३ ।।

श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः ।
प्राञ्जलिः प्रणतश्चापि महर्षिमिदमब्रवीत् ।। ७.३६.५४ ।।

अद्य मे देवता हृष्टाः पितरः प्रपितामहाः ।
युष्माकं दर्शनादेव नित्यं तुष्टाः सबान्धवाः ।। ७.३६.५५ ।।

विज्ञाप्यं तु ममैतद्धि यद्वदाम्यागतस्पृहः ।
तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया ।। ७.३६.५६ ।।

पौरजानपदान्स्थाप्य स्वकार्येष्वहमागतः ।
क्रतूनेव करिष्यामि प्रभावाद्भवतां सताम् ।। ७.३६.५७ ।।

सदस्या मम यज्ञेषु भवन्तो नित्यमेव तत् ।
भविष्यथ महावीर्या ममानुग्रहकाङ्क्षिणः ।। ७.३६.५८ ।।

अहं युष्मान्समाश्रित्य तपोनिर्धूतकल्मषान् ।
अनुग्रहीतः पितृभिर्भविष्यामि सुनिर्वृतः ।। ७.३६.५९ ।।

तदागन्तव्यमनिशं भवद्भिरिह सङ्गतैः ।
अगस्त्याद्यास्तु तच्छ्रुत्वा ऋषयः संशितव्रताः ।। ७.३६.६० ।।

एवमस्त्विति तं चोक्त्वा प्रयातुमुपचक्रमुः ।। ७.३६.६१ ।।

एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् ।
राघवश्च तमेवार्थं चिन्तयामास विस्मितः ।। ७.३६.६२ ।।

ततो ऽस्तं भास्करे याते विसृज्य नृपवानरान् ।
सन्ध्यामुपास्य विधिवत्तदा नरवरोत्तमः ।
प्रवृत्तायां रजन्यां तु सो ऽन्तःपुरचरो ऽभवत् ।। ७.३६.६३ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्त्रिंशः सर्गः ।। ३६ ।।

वर्गः:रामायणम्/उत्तरकाण्डम्

Page is sourced from

sa.wikisource.org रामायणम्/उत्तरकाण्डम्/सर्गः ३६