रामायणम्/उत्तरकाण्डम्/सर्गः २४

From HinduismPedia
Jump to navigation Jump to search

Template:रामायणम्/उत्तरकाण्डम्

निवर्तमानः संहृष्टो रावणस्सुदुरात्मवान् ।
जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ।। ७.२४.१ ।।

दर्शनीयां हि रक्षः स कन्यां स्त्रीं वापि पश्यति ।
हत्वा बन्धुजनं तस्या विमाने तां रुरोध ह ।। ७.२४.२ ।।

एवं पन्नगकन्याश्च राक्षसासुरमानुषीः ।
यक्षदानवकन्याश्च विमाने सो ऽध्यरोपयत् ।। ७.२४.३ ।।

ताश्च सर्वाः समं दुःखान्मुमुचुर्बाष्पजं जलम् ।
तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसम्भवम् ।। ७.२४.४ ।।

ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः ।
आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः ।। ७.२४.५ ।।

नागगन्धर्वकन्याश्च महर्षितनयाश्च याः ।
दैत्यदानवकन्याश्च विमाने शतशो ऽरुदन् ।। ७.२४.६ ।।

दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः ।
पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः ।। ७.२४.७ ।।

रथकूबरसङ्काशैः श्रोणिदेशैर्मनोहराः ।
स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः ।। ७.२४.८ ।।

शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः ।
तासां निश्वासवातेन सर्वतः सम्प्रदीपितम् ।। ७.२४.९ ।।

अग्निहोत्रमिवाभाति सन्निरुद्धाग्निपुष्पकम् ।
दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः ।। ७.२४.१० ।।

दीनवक्रेक्षणाः श्यामा मृग्यः सिंहवशा इव ।
काचिच्चिन्तयती तत्र किं नु मां भक्षयिष्यति ।। ७.२४.११ ।।

काचिद्दध्यौ सुदुःखार्ता अपि मां मारयेदयम् ।
इति मातृपितऽन्स्मृत्वा भर्तऽन्भ्रातऽंस्तथैव च ।
दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ।। ७.२४.१२ ।।

कथं नु खलु मे पुत्रो भविष्यति मया विना ।
कथं माता कथं भ्राता निमग्नाः शोकसागरे ।। ७.२४.१३ ।।।

हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना ।
मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम् ।। ७.२४.१४ ।।

किन्नु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम् ।। ७.२४.१५ ।।

एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे ।
न खल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः ।। ७.२४.१६ ।।

अहो धिङ्मानुषं लोकं नास्ति खल्वधमः परः ।
यद्दुर्बला बलवता भर्तारो रावणेन नः ।। ७.२४.१७ ।।

सूर्येणोदयता काले नक्षत्राणीव नाशिताः ।
अहो सुबलवद्रक्षो वधोपायेषु युज्यते ।। ७.२४.१८ ।।

अहो दुर्वृत्तमास्थाय नात्मानं वैजुगुप्सते ।
सर्वथा सदृशस्तावद्विक्रमो ऽस्य दुरात्मनः ।। ७.२४.१९ ।।

इदं त्वसदृशं कर्म परदाराभिमर्शनम् ।
यस्मादेष परक्यासु रमते राक्षसाधमः ।। ७.२४.२० ।।

तस्माद्वै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् ।
सतीभिर्वरनारीभिरेवं वाक्ये ऽभ्युदीरिते ।। ७.२४.२१ ।।

नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च ।
शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः ।। ७.२४.२२ ।।

पतिव्रताभिः साध्वीभिर्बभूव विमना इव ।
एवं विलपितं तासां शृण्वन्राक्षसपुङ्गवः ।
प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ।। ७.२४.२३ ।।

एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी ।
सहसा पतिता भूमौ भगिनी रावणस्य सा ।। ७.२४.२४ ।।

तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् ।
अब्रवीत्किमिदं भद्रे वक्तुकामा ऽसि मे द्रुतम् ।। ७.२४.२५ ।।

सा बाष्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रवीत् ।
कृता ऽस्मि विधवा राजंस्त्वया बलवता बलात् ।। ७.२४.२६ ।।

एते राजंस्त्वया वीरा दैत्या विनिहता रणे ।
कालकेया इति ख्याताः सहस्राणि चतुर्दश ।। ७.२४.२७ ।।

प्राणेभ्यो ऽपि गरीयान्मे तत्र भर्ता महाबलः ।। ७.२४.२८ ।।

सो ऽपि त्वया हतस्तात रिपुणा भ्रातृगृध्नुना ।
त्वया ऽस्मि निहता राजन्स्वयमेव हि बन्धुना ।। ७.२४.२९ ।।

राजन्वैधव्यशब्दं च भोक्ष्यामि त्वत्कृते ह्यहम् ।
ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि ।
स त्वया निहतो युद्धे स्वयमेव न लज्जसे ।। ७.२४.३० ।।

एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया ।
अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ।। ७.२४.३१ ।।

अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः ।
दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः ।। ७.२४.३२ ।।

युद्धप्रमत्तो व्याक्षिप्तो जयाकाङ्क्षी क्षिपञ्छरान् ।
नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे ।। ७.२४.३३ ।।

जामातरं न जाने स्म प्रहरन्युद्धदुर्मदः ।
तेनासौ निहतः सङ्ख्ये मया भर्ता तव स्वसः ।। ७.२४.३४ ।।

अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् ।
भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः ।। ७.२४.३५ ।।

चतुर्दशानां भ्राता ते सहस्राणां भविष्यति ।
प्रभुः प्रयाणे दाने च राक्षसानां महाबलः ।। ७.२४.३६ ।।

तत्र मातृष्वसेयस्ते भ्राता ऽयं वै खरः प्रभुः ।
भविष्यति तवादेशं सदा कुर्वन्निशाचरः ।। ७.२४.३७ ।।

शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम् ।
दूषणो ऽस्य बलाध्यक्षो भविष्यति महाबलः ।। ७.२४.३८ ।।

तत्र ते वचनं शूरः करिष्यति सदा खरः ।
रक्षसां कामरूपाणां प्रभुरेष भविष्यति ।। ७.२४.३९ ।।

एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह ।
चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् ।। ७.२४.४० ।।

स तैः परिवृतस्सर्वै राक्षसैर्घोरदर्शनैः ।
आगच्छत खरः शीघ्रं दण्डकानकुतोभयः ।। ७.२४.४१ ।।

स तत्र कारयामास राज्यं निहतकण्टकम् ।
सा च शूर्पणखा तत्र न्यवसद्दण्डकावने ।। ७.२४.४२ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्विंशः सर्गः ।। २४ ।।

वर्गः:रामायणम्/उत्तरकाण्डम्

Page is sourced from

sa.wikisource.org रामायणम्/उत्तरकाण्डम्/सर्गः २४