रामायणम्/उत्तरकाण्डम्/सर्गः २३

From HinduismPedia
Jump to navigation Jump to search

Template:रामायणम्/उत्तरकाण्डम्

ततो जित्वा दशग्रीवो यमं त्रिदशपुङ्गवम् ।
रावणस्तु रणश्लाघी स्वसहायान्ददर्श ह ।। ७.२३.१ ।।

ततो रुधिरसिक्ताङ्गं प्रहारैर्जर्जरीकृतम् ।
रावणं राक्षसा दृष्ट्वा ह्यष्टवत् समुपागमन् ।। ७.२३.२ ।।

जयेन वर्धयित्वा च मारीचप्रमुखास्ततः ।
पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन तु ।। ७.२३.३ ।।

ततो रसातलं गच्छन् प्रविष्टः पयसां निधिम् ।
दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम् ।। ७.२३.४ ।।

स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् ।
कृत्वा नागान्वशे हृष्टो ययौ मणिमयीं पुरीम् ।। ७.२३.५ ।।

निवातकवचास्तत्र दैत्या लब्धवरा वसन् ।
राक्षसान्तान्समागम्य युद्धाय समुपाह्वयत् ।। ७.२३.६ ।।

ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः ।
नानाप्रहरणास्तत्र प्रहृष्टा युद्धदुर्मदाः ।। ७.२३.७ ।।

शूलैस्त्रिशूलैः कुलिशैः पट्टिशासिपरश्वधैः ।
अन्योन्यं बिभिदुः क्रुद्धा राक्षसा दानवास्तथा ।। ७.२३.८ ।।

तेषां तु युध्यमानानां साग्रः संवत्सरो गतः ।
न चान्यतरयोस्तत्र विजयो वा क्षयो ऽपि वा ।। ७.२३.९ ।।

ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः ।
आजगाम द्रुतं देवो विमानवरमास्थितः ।। ७.२३.१० ।।

निवातकवचानां तु निवार्य रणकर्म तत् ।
वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् ।। ७.२३.११ ।।

नह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः ।
न भवन्तः क्षयं नेतुमपि सामरदानवैः ।। ७.२३.१२ ।।

राक्षसस्य सखित्वं च भवद्भिः सह रोचते ।
अविभक्ताश्च सर्वार्थाः सुहृदां नात्र संशयः ।। ७.२३.१३ ।।

ततो ऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः ।
निवातकवचैः सार्धं प्रीतिमानभवत्तदा ।। ७.२३.१४ ।।

अर्थतस्तैर्यथान्यायं संवत्सरमथोषितः ।
स्वपुरान्निर्विशेषं च प्रियं प्राप्तो दशाननः ।। ७.२३.१५ ।।

ततोपधार्य मायानां शतमेकं समाप्तवान् ।
सलिलेन्द्रपुरान्वेषी भ्रमति स्म रसातलम् ।। ७.२३.१६ ।।

ततो ऽश्मनगरं नाम कालकेयैरधिष्ठितम् ।
गत्वा तु कालकेयांश्च हत्वा तत्र बलोत्कटान् ।। ७.२३.१७ ।।

शूर्पणख्याश्च भर्तारमसिना प्राच्छिनत्तदा ।
श्यालं च बलवन्तं च विद्युज्जिह्वं बलोत्कटम् ।
जिह्वया संलिहन्तं च राक्षसं समरे तथा ।। ७.२३.१८ ।।

तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् ।। ७.२३.१९ ।।

ततः पाण्डुरमेघाभं कैलासमिव भास्वरम् ।
वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः ।। ७.२३.२० ।।

क्षरन्तीं च पयस्तत्र सुरभिं गामवस्थिताम् ।
यस्याः पयोभिनिष्यन्दात्क्षीरोदो नाम सागरः ।। ७.२३.२१ ।।
ददर्श रावणस्तत्र गोवृषेन्द्रवरारणिम् ।
यस्माच्चन्द्रः प्रभवति शीतरश्मिर्निशाकरः ।। ७.२३.२२ ।।

यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः ।
अमृतं यत्र चोत्पन्नं स्वधा च स्वधभोजिनाम् ।। ७.२३.२३ ।।

यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः ।
प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् ।। ७.२३.२४ ।।

प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः ।
ततो धाराशताकीर्णं शारदाभ्रनिभं तदा ।
नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् ।। ७.२३.२५ ।।

ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः ।
अब्रवीच्च ततो योधान्राजा शीघ्रं निवेद्यताम् ।। ७.२३.२६ ।।

युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् ।
वद वा न भयं ते ऽस्ति निर्जितो ऽस्मीति साञ्जलिः ।। ७.२३.२७ ।।

एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः ।
पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च ।। ७.२३.२८ ।।

ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः ।
युङ्क्त्वा रथान्कामगमानुद्यद्भास्वरवर्चसः ।। ७.२३.२९ ।।

ततो युद्धं समभवद्दारुणं रोमहर्षणम् ।
सलिलेन्द्रस्य पुत्राणां रावणस्य च धीमतः ।। ७.२३.३० ।।

अमात्यैश्च महावीर्यैर्दशग्रीवस्य रक्षसः ।
वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् ।। ७.२३.३१ ।।

समीक्ष्य स्वबलं सङ्ख्ये वरुणस्य सुतास्तदा ।
अर्दिताः शरजालेन निवृत्ता रणकर्मणः ।। ७.२३.३२ ।।

महीतलगतास्ते तु रावणं दृश्य पुष्पके ।
आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः ।। ७.२३.३३ ।।

महादासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत् ।
आकाशयुद्धं तुमुलं देवदानवयोरिव ।। ७.२३.३४ ।।

ततस्ते रावणं युद्धे शरैः पावकसन्निभैः ।
विमुखीकृत्य सन्तुष्टा विनेदुर्विविधान्रवान् ।। ७.२३.३५ ।।

ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् ।
त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् ।। ७.२३.३६ ।।

तेन ते दारुणा युद्धे कामगाः पवनोपमाः ।
महोदरेण गदया हता वै प्रययुः क्षितिम् ।। ७.२३.३७ ।।

तेषां वरुणपुत्राणां हत्वा योधान्हयाञ्छतान् ।
मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् ।। ७.२३.३८ ।।

ते तु तेषां रथाः साश्वाः सह सारथिभिर्हतैः ।
महोदरेण निहताः पतिताः पृथिवीतले ।। ७.२३.३९ ।।

ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः ।
आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः ।। ७.२३.४० ।।

धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम् ।
रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् ।। ७.२३.४१ ।।

सायकैश्चापविभ्रष्टैर्वज्रकल्पैः सुदारुणैः ।
दारयन्ति स्म सङ्क्रुद्धा मेघा इव महागिरिम् ।। ७.२३.४२ ।।

ततः क्रुद्धो दशग्रीवः कालाग्निरिव निर्गतः ।
शरवर्षैर्महाघोरैस्तेषां मर्मस्वताडयत् ।। ७.२३.४३ ।।

ततस्तेनैव सहसा सीदन्ति स्म पदातयः ।
मुसलानि विचित्राणि ततो भल्लशतानि च ।। ७.२३.४४ ।।

पट्टिशांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा ।
पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ।। ७.२३.४५ ।।

अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः ।
महापङ्कमिवासाद्य कुञ्जराष्षष्टिहायनाः ।। ७.२३.४६ ।।

सीदमानान्सुतान्दृष्ट्वा विह्वलान्सुमहौजसः ।
ननाद रावणो हर्षान्महानम्बुधरो यथा ।। ७.२३.४७ ।।

ततो रक्षो महानादान्मुक्त्वा हन्ति स्म वारुणान् ।
नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः ।। ७.२३.४८ ।।

ततस्ते विमुखाः सर्वे पतिता धरणीतले ।
रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ।। ७.२३.४९ ।।

तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ।। ७.२३.५० ।।

रावणं त्वब्रवीन्मन्त्री प्रहस्तो (प्रहसो) नाम वारुणः ।
गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः ।। ७.२३.५१ ।।

गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि ।
तत्किं तव वृथा वीर परिश्रम्य गते नृपे ।
ये तु सन्निहिता वीराः कुमारास्ते पराजिताः ।। ७.२३.५२ ।।

राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः ।
हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् ।। ७.२३.५३ ।।

आगतस्तु पथा येन तेनैव विनिवृत्य सः ।
लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ ।। ७.२३.५४ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रयोविंशः सर्गः ।। २३ ।।

वर्गः:रामायणम्/उत्तरकाण्डम्

Page is sourced from

sa.wikisource.org रामायणम्/उत्तरकाण्डम्/सर्गः २३