रामायणम्/उत्तरकाण्डम्/सर्गः २०

From HinduismPedia
Jump to navigation Jump to search

Template:रामायणम्/उत्तरकाण्डम्

ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः ।
आससाद घने तस्मिन्नारदं मुनिपुङ्गवम् ।। ७.२०.१ ।।

तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः ।
अब्रवीत्कुशलं पृष्ट्वा हेतुमागमनस्य च ।। ७.२०.२ ।।

नारदस्तु महातेजा देवर्षिरमितप्रभः ।
अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ।। ७.२०.३ ।।

राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत ।
प्रीतो ऽस्म्यभिजनोपेतविक्रमैरूर्जितैस्तव ।। ७.२०.४ ।।

विष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः ।
त्वया समं विमर्दैश्च भृशं हि परितोषितः ।। ७.२०.५ ।।

किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि ।
श्रुत्वा चानन्तरं कार्यं त्वया राक्षससत्तम ।
तन्मे निगदतस्तात समाधिं श्रवणे कुरु ।। ७.२०.६ ।।

किमयं वध्यते तात त्वया ऽवध्येन दैवतैः ।
हत एव ह्ययं लोको यदा मृत्युवशं गतः ।। ७.२०.७ ।।्तम ।
देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् ।
अवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः ।। ७.२०.८ ।।

नित्यं श्रेयसि सम्मूढं महद्भिर्व्यसनैर्वृतम् ।
हन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम् ।। ७.२०.९ ।।

तैस्तैरनिष्टोपगमैरजस्रं यत्र कुत्र कः ।
मतिमान्मानुषे लोके युद्धेन प्रणयी भवेत् ।। ७.२०.१० ।।

क्षीयमाणं दैवहतं श्रुत्पिपासाजरादिभिः ।
विषादशोकसम्मूढं लोकं त्वं क्षपयस्व मा ।। ७.२०.११ ।।

पश्य तावन्महाबाहो राक्षसेश्वर मानुषम् ।
मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ।। ७.२०.१२ ।।

क्वचिद्वादित्रनृत्यादि सेव्यते मुदितैर्जनैः ।
रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ।। ७.२०.१३ ।।

मातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः ।
मोहितो ऽयं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ।। ७.२०.१४ ।।

अलमेनं परिक्लिश्य लोकं मोहनिराकृतम् ।
जित एव त्वया सौम्य मर्त्यलोको न संशयः ।। ७.२०.१५ ।।

अवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम् ।
तन्निगृह्णीष्व पौलस्त्य यमं परपुरञ्जय ।। ७.२०.१६ ।।

तस्मिञ्जिते जितं सर्वं भवत्येव न संशयः ।
एवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा ।
अब्रवीन्नारदं तत्र सम्प्रहस्याभिवाद्य च ।। ७.२०.१७ ।।

महर्षे देवगन्धर्वविहार समरप्रिय ।
अहं समुद्यतो गन्तुं विजयार्थं रसातलम् ।। ७.२०.१८ ।।

ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे ।
समुद्रममृतार्थं च मथिष्यामि रसालयम् ।। ७.२०.१९ ।।

अथाब्रवीदृशग्रीवं नारदो भगवानृषिः ।
क्व खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते ।। ७.२०.२० ।।

अयं खलु सुदुर्गम्यः प्रेतराजपुरं प्रति ।
मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ।। ७.२०.२१ ।।

स तु शारदमेघाभं हासं मुक्त्वा दशाननः ।
उवाच कृतमित्येव वचनं चेदमब्रवीत् ।। ७.२०.२२ ।।

तस्मादेवमहं ब्रह्मन् वैवस्वतवधोद्यतः ।
गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ।। ७.२०.२३ ।।

मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना ।
अवजेष्यामि चतुरो लोकपालानिति प्रभो ।। ७.२०.२४ ।।

तदिह प्रस्थितो ऽहं वै प्रेतराजपुरं प्रति ।
प्राणिसङ्क्लेशकर्तारं योजयिष्यामि मृत्युना ।। ७.२०.२५ ।।

एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च ।
प्रययौ दक्षिणामाशां प्रविष्टः सह मन्त्रिभिः ।। ७.२०.२६ ।।

नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः ।
चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ।। ७.२०.२७ ।।

येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः ।
क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ।। ७.२०.२८ ।।

स्वदत्तकृतसाक्षी यो द्वितीय इव पावकः ।
लब्धसञ्ज्ञा विजेष्यन्ते लोका यस्य महात्मनः ।। ७.२०.२९ ।।

यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः ।
तं कथं राक्षसेन्द्रो ऽसौ स्वयमेव गमिष्यति ।। ७.२०.३० ।।

यो विधाता च धाता च सुकृतं दुष्कृतं तथा ।
त्रैलोक्यं विजितं येन तं कथं विजयिष्यते ।। ७.२०.३१ ।।

अपरं किन्तु कृत्वायं विधानं संविधास्यति ।
कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ।। ७.२०.३२ ।।

विमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ।। ७.२०.३३ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे विंशः सर्गः ।। २० ।।

वर्गः:रामायणम्/उत्तरकाण्डम्

Page is sourced from

sa.wikisource.org रामायणम्/उत्तरकाण्डम्/सर्गः २०