रामायणम्/उत्तरकाण्डम्/सर्गः १९

From HinduismPedia
Jump to navigation Jump to search

Template:रामायणम्/उत्तरकाण्डम्

अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः ।
नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ।। ७.१९.१ ।।

समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान् ।
अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ।। ७.१९.२ ।।

निर्जिताः स्मेति वा ब्रूत एष मे हि सुनिश्चयः ।
अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते ।। ७.१९.३ ।।
ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः ।
मन्त्रयित्वा ततो ऽन्योन्यं राजानः सुमहाबलाः ।
निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः ।। ७.१९.४ ।।

दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः ।
एते सर्वे ऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः ।। ७.१९.५ ।।

अथायोध्यां समासाद्य रावणो राक्षसाधिपः ।। ७.१९.६ ।।

सुगुप्तामनरण्येन शक्रेणेवामरावतीम् ।
स तं पुरुषशार्दूलं पुरन्दरसमं बले ।। ७.१९.७ ।।

प्राह राजानमासाद्य युद्धं देहीति रावणः ।
निर्जितो ऽस्मीति वा ब्रूहि त्वमेवं मम शासनम् ।। ७.१९.८ ।।

अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः ।
अनरण्यस्तु सङ्क्रुद्धो राक्षसेन्द्रमथाब्रवीत् ।। ७.१९.९ ।।

दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया ।
सन्तिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम् ।। ७.१९.१० ।।

अथ पूर्वं श्रुतार्थेन निर्जितं सुमहद्बलम् ।
निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् ।। ७.१९.११ ।।

नागानां दशसाहस्रं वाजिनां नियुतं तथा ।
रथानां बहुसाहस्रं पत्तीनां च नरोत्तम ।। ७.१९.१२ ।।

महीं सञ्छाद्य निष्क्रान्तं सपदातिरथं रणे ।
ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद ।। ७.१९.१३ ।।

अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम् ।
तद्रावणबलं प्राप्य बलं तस्य महीपतेः ।। ७.१९.१४ ।।

प्राणश्यत तदा सर्वं हव्यं हुतमिवानले ।
युद्ध्वा च सुचिरं कालं कृत्वा विक्रममुत्तमम् ।। ७.१९.१५ ।।

प्रज्वलन्तं तमासाद्य क्षिप्रमेवावशेषितम् ।
प्राविशत्सङ्कुलं तत्र शलभा इव पावकम् ।
नश्यति स्म बलं तत्र हव्यं हुतमिवानले ।। ७.१९.१६ ।।

सो ऽपश्यत्तन्नरेन्द्रस्तु नश्यमानं महाबलम् ।
महार्णवं समासाद्य वनापगशतं यथा ।। ७.१९.१७ ।।

ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम् ।
आससाद नरेन्द्रस्तं रावणं क्रोधमूर्च्छितः ।। ७.१९.१८ ।।

अनरण्येन ते ऽमात्या मारीचशुकसारणाः ।
प्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव ।। ७.१९.१९ ।।

ततो बाणशतान्यष्टौ पातयामास मूर्धनि ।
तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ।। ७.१९.२० ।।

तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित् ।
वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि ।। ७.१९.२१ ।।

ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा ।
तलेनाभिहतो मूर्ध्नि स रथान्निपपात ह ।। ७.१९.२२ ।।

स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः ।
वज्रदग्ध इवारण्ये सालो निपतितो यथा ।। ७.१९.२३ ।।

तं प्रहस्याब्रवीद्द्रक्ष इक्ष्वाकुं पृथिवीपतिम् ।
किमिदानीं फलं प्राप्तं त्वया मां प्रति युद्ध्यता ।। ७.१९.२४ ।।

त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप ।
शङ्के प्रसक्तो भोगेषु न शृणोषि बलं मम ।। ७.१९.२५ ।।

तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् ।
किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः ।। ७.१९.२६ ।।

नह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना ।
कालेनैव विपन्नो ऽहं हेतुभूतस्तु मे भवान् ।। ७.१९.२७ ।।

किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये ।
नह्यहं विमुखी रक्षो युध्यमानस्त्वया हतः ।। ७.१९.२८ ।।

इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस ।
यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ।।

यदि गुप्ताः प्रजाः सम्यक्तदा सत्यं वचो ऽस्तु मे ।। ७.१९.२९ ।।

उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् ।
रामो दाशरथिर्नाम यस्ते प्राणान्हरिष्यति ।। ७.१९.३० ।।

ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः ।
तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता ।। ७.१९.३१ ।।

ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् ।
स्वर्गते च नृपे तस्मिन्राक्षसः सो ऽपसर्पत ।। ७.१९.३२ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनविंशः सर्गः ।। १९ ।।

वर्गः:रामायणम्/उत्तरकाण्डम्

Page is sourced from

sa.wikisource.org रामायणम्/उत्तरकाण्डम्/सर्गः १९