रामायणम्/उत्तरकाण्डम्/सर्गः १०१

From HinduismPedia
Jump to navigation Jump to search

Template:रामायणम्/उत्तरकाण्डम्



श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः ।
युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् ।। ७.१०१.१ ।।

स निर्ययौ जनौघेन महता केकयाधिपः ।
त्वरमाणो ऽभिचक्राम गन्धर्वान्कामरूपिणः ।। ७.१०१.२ ।।

भरतश्च युधाजिच्च समेतौ लघुविक्रमैः ।
गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ ।। ७.१०१.३ ।।

श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः ।
योद्धुकामा महावीर्या व्यनदन् वै समन्ततः ।। ७.१०१.४ ।।

ततः समभवद्युद्धं तुमुलं रोमहर्षणम् ।
सप्तरात्रं महाभीमं न चान्यतरयोर्जयः ।। ७.१०१.५ ।।

खड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः ।
नृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम् ।। ७.१०१.६ ।।

ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् ।
संवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत् ।। ७.१०१.७ ।।

ते बद्धाः कालपाशेन संवर्तेन विदारिताः ।
क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम् ।। ७.१०१.८ ।।

तं घातं घोरसङ्काशं न स्मरन्ति दिवौकसः ।
निमेषान्तरमात्रेण तादृशानां महात्मनाम् ।। ७.१०१.९ ।।

हतेषु तेषु सर्वेषु भरतः केकयीसुतः ।
निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ।। ७.१०१.१० ।।

तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते । तक्ष-पुष्कलोपरि टिप्पणी
गन्धर्वदेशे रुचिरे गान्धारविषये च सः ।। ७.१०१.११ ।।

धनरत्नौघसङ्कीर्णे काननैरुपशोभिते ।
अन्योन्यसङ्घर्षकृते स्पर्धया गुणविस्तरैः ।। ७.१०१.१२ ।।

उभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः ।
उद्यानयानसम्पूर्णे सुविभक्तान्तरापणे ।। ७.१०१.१३ ।।

उभे पुरवरे रम्ये विस्तरैरुपशोभिते ।
गृहमुख्यैः सुरुचिरैर्विमानसमवर्णिभिः ।। ७.१०१.१४ ।।

शोभिते शोभनीयैश्च देवायतनविस्तरैः ।
तालैस्तमालैस्तिलकैर्वकुलैरुपशोभिते ।। ७.१०१.१५ ।।

निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः ।
पुनरायान्महाबाहुरयोध्यां केकयीसुतः ।। ७.१०१.१६ ।।

सो ऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् ।
राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः ।। ७.१०१.१७ ।।

शशंस च यथावृत्तं गन्धर्ववधमुत्तमम् ।
निवेशनं च देशस्य श्रुत्वा प्रीतो ऽस्य राघवः ।। ७.१०१.१८ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोत्तरशततमः सर्गः ।। १०१ ।।

वर्गः:रामायणम्/उत्तरकाण्डम्

Page is sourced from

sa.wikisource.org रामायणम्/उत्तरकाण्डम्/सर्गः १०१