रामायणम्/अरण्यकाण्डम्/सर्गः ५४
Jump to navigation
Jump to search
Template:रामायणम्/अरण्यकाण्डम्
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःपञ्चाशः सर्गः ॥३-५४॥ ह्रियमाणा तु वैदेही कंचित् नाथम् अपश्यती । ददर्श गिरि शृंगस्थान् पंच वानर पुंगवान् ॥३-५४-१॥ तेषाम् मध्ये विशालाक्षी कौशेयम् कनक प्रभम् । उत्तरीयम् वरारोहा शुभानि आभरणानि च ॥३-५४-२॥ मुमोच यदि रामाय शंसेयुः इति भामिनी । वस्त्रम् उत्सृज्य तन् मध्ये विनिक्षिप्तम् स भूषणम् ॥३-५४-३॥ संभ्रमात् तु दशग्रीवः तत् कर्म न च बुद्ध्वान् । पिंगाक्षाः ताम् विशालाक्षीम् नेत्रैः अनिमिषैः इव ॥३-५४-४॥ विक्रोशन्तीम् तदा सीताम् ददृशुः वानर ऋषभाः । स च पंपाम् अतिक्रम्य लंकाम् अभिमुखः पुरीम् ॥३-५४-५॥ जगाम रुदतीम् गृह्य मैथिलीम् राक्षस ईश्वरः । ताम् जहार सुसंहृष्टो रावणो मृत्युम् आत्मनः ॥३-५४-६॥ उत्संगेन एव भुजगीम् तीक्ष्ण दंष्ट्राम् महाविषाम् । वनानि सरितः शैलान् सराम्सि च विहायसा ॥३-५४-७॥ स क्षिप्रम् समतीयाय शरः चापात् इव च्युतः । तिमि नक्र निकेतम् तु वरुण आलयम् अक्षयम् ॥३-५४-८॥ सरिताम् शरणम् गत्वा समतीयाय सागरम् । संभ्रमात् परिवृत्त ऊर्मी रुद्ध मीन महोरगः ॥३-५४-९॥ वैदेह्याम् ह्रियमाणायाम् बभूव वरुण आलयः । अन्तरिक्ष गता वाचः ससृजुः चारणाः तदा ॥३-५४-१०॥ एतत् अन्तो दशग्रीव इति सिद्धाः तदा अब्रुवन् । स तु सीताम् विचेष्टन्तीम् अंकेन आदाय रावणः ॥३-५४-११॥ प्रविवेश पुरीम् लन्काम् रूपिणीम् मृत्युम् आत्मनः । सः अभिगम्य पुरीम् लंकाम् सुविभक्त महापथाम् ॥३-५४-१२॥ संरूढ कक्ष्या बहुलम् स्वम् अंतः पुरम् आविशत् । तत्र ताम् असित अपांगाम् शोक मोह परायणाम् ॥३-५४-१३॥ निदधे रावणः सीताम् मयो मायाम् इव आसुरीम् । अब्रवीत् च दशग्रीवः पिशाचीः घोर दर्शनाः ॥३-५४-१४॥ यथा न एनाम् पुमान् स्त्री वा सीताम् पश्यति असम्मतः । मुक्ता मणि सुवर्णानि वस्त्राणि आभरणानि च ॥३-५४-१५॥ यत् यत् इच्छेत् तत् एव अस्या देयम् मत् च्छंदतो यथा । या च वक्ष्यति वैदेहीम् वचनम् किंचित् अप्रियम् ॥३-५४-१६॥ अज्ञानात् यदि वा ज्ञानान् न तस्या जीवितम् प्रियम् । तथा उक्त्वा राक्षसीः ताः तु राक्षसेन्द्रः प्रतापवान् ॥३-५४-१७॥ निष्क्रम्य अन्तः पुरात् तस्मात् किम् कृत्यम् इति चिंतयन् । ददर्श अष्टौ महावीर्यान् राक्षसान् पिशित अशनान् ॥३-५४-१८॥ स तान् दृष्ट्वा महावीर्यो वर दानेन मोहितः । उवाच तान् इदम् वाक्यम् प्रशस्य बल वीर्यतः ॥३-५४-१९॥ नाना प्रहरणाः क्षिप्रम् इतो गच्छत सत्वराः । जनस्थानम् हत स्थानम् भूत पूर्वम् खर आलयम् ॥३-५४-२०॥ तत्र उष्यताम् जनस्थाने शून्ये निहत राक्षसे । पौरुषम् बलम् आश्रित्य त्रासम् उत्सृज्य दूरतः ॥३-५४-२१॥ बहु सैन्यम् महावीर्यम् जनस्थाने निवेशितम् । स दूषण खरम् युद्धे निहतम् राम सायकैः ॥३-५४-२२॥ ततः क्रोधो मम अपूर्वो धैर्यस्य उपरि वर्धते । वैरम् च सुमहत् जातम् रामम् प्रति सुदारुणम् ॥३-५४-२३॥ निर्यातयितुम् इच्छामि तत् च वैरम् अहम् रिपोः । न हि लप्स्यामि अहम् निद्राम् अहत्वा संयुगे रिपुम् ॥३-५४-२४॥ तम् तु इदानीम् अहम् हत्वा खर दूषण घातिनम् । रामम् शर्म उपलप्स्यामि धनम् लब्ध्वा इव निर्धनः ॥३-५४-२५॥ जनस्थाने वसद्भिः तु भवद्भिः रामम् आश्रिता । प्रवृत्तिः उपनेतव्या किम् करोति इति तत्त्वतः ॥३-५४-२६॥ अप्रमादात् च गंतव्यम् सर्वैः एव निशाचरैः । कर्तव्यः च सदा यत्नो राघवस्य वधम् प्रति ॥३-५४-२७॥ युष्माकम् तु बलम् ज्ञातम् बहुशो रण मूर्धनि । अतः तु अस्मिन् जनस्थाने मया यूयम् नियोजिताः ॥३-५४-२८॥ ततः प्रियम् वाक्यम् उपेत्य राक्षसामहाअर्थम् अष्टौ अभिवाद्य रावणम् । विहाय लंकाम् सहिताः प्रतस्थिरेयतो जनस्थानम् अलक्ष्य दर्शनाः ॥३-५४-२९॥ ततः तु सीताम् उपलभ्य रावणःसुसंप्रहृष्टः परिगृह्य मैथिलीम् । प्रसज्य रामेण च वैरम् उत्तमम्बभूव मोहात् मुदितः स राक्षसः ॥३-५४-३०॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुःपञ्चाशः सर्गः ॥३-५४॥Page is sourced from
sa.wikisource.org रामायणम्/अरण्यकाण्डम्/सर्गः ५४