रामायणम्/अरण्यकाण्डम्/सर्गः ५१
Jump to navigation
Jump to search
Template:रामायणम्/अरण्यकाण्डम्
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकपञ्चाशः सर्गः ॥३-५१॥ इति उक्तः क्रोध ताम्राक्षः तप्त कांचन कुण्डलः । राक्षसेन्द्रो अभिदुद्राव पतगेन्द्रम् अमर्षणः ॥३-५१-१॥ स संप्रहारः तुमुलः तयोः तस्मिन् महा मृधे । बभूव वात उद्धतयोः मेघयोः गगने यथा ॥३-५१-२॥ तत् बभूव अद्भुतम् युद्धम् गृध्र राक्षसयोः तदा । सपक्षयोः माल्यवतोः महा पर्वतयोः इव ॥३-५१-३॥ ततो नालीक नाराचैः तीक्ष्ण अग्रैः च विकर्णिभिः । अभ्यवर्षत् महाघोरैः गृध्र राजम् महाबलः ॥३-५१-४॥ स तानि शर जालानि गृध्रः पत्ररथ ईश्वरः । जटायुः प्रतिजग्राह रावण अस्त्राणि संयुगे ॥३-५१-५॥ तस्य तीक्ष्ण नखाभ्याम् तु चरणाभ्याम् महाबलः । चकार बहुधा गात्रे व्रणान् पतग सत्तमः ॥३-५१-६॥ अथ क्रोधात् दशग्रीवः जग्राह दश मार्गणान् । मृत्यु दण्ड निभान् घोरान् शत्रोर् निधन कान्क्षया ॥३-५१-७॥ स तैः बाणैः महावीर्यः पूर्ण मुक्तैः अजिह्म गैः । बिभेद निशितैः तीक्ष्णैः गृध्रम् घोरैः शिली मुखैः ॥३-५१-८॥ स राक्षस रथे पश्यन् जानकीम् बाष्प लोचनाम् । अचिंतयित्वा बाणाम् तान् राक्षसम् समभिद्रवत् ॥३-५१-९॥ ततो अस्य सशरम् चापम् मुक्ता मणि विभूषितम् । चरणाभ्याम् महातेजा बभंज पतगोत्तमः ॥३-५१-१०॥ ततो अन्यत् धनुः आदाय रावणः क्रोध मूर्च्छितः । ववर्ष शर वर्षाणि शतशो अथ सहस्रशः ॥३-५१-११॥ शरैः आवारितः तस्य संयुगे पतगेश्वरः । कुलायम् अभिसंप्राप्तः पक्षिः इव बभौ तदा ॥३-५१-१२॥ स तानि शर जालानि पक्षाभ्याम् तु विधूय ह । चरणाभ्याम् महातेजा बभंज अस्य महत् धनुः ॥३-५१-१३॥ तत् च अग्नि सदृशम् दीप्तम् रावणस्य शरावरम् । पक्षाभ्याम् च महातेजा व्यधुनोत् पतगेश्वरः ॥३-५१-१४॥ कांचन उरः छदान् दिव्यान् पिशाच वदनान् खरान् । तान् च अस्य जव संपन्नान् जघान समरे बली ॥३-५१-१५॥ अथ त्रिवेणु संपन्नम् कामगम् पावक अर्चिषम् । मणि सोपान चित्र अंगम् बभंज च महारथम् ॥३-५१-१६॥ पूर्ण चन्द्र प्रतीकाशम् छत्रम् च व्यजनैः सह । पातयामास वेगेन ग्राहिभी राक्षसैः सह ॥३-५१-१७॥ सारथेः च अस्य वेगेन तुण्डेन च महत् शिरः । पुनः व्यपाहरत् श्रीमान् पक्षिराजो महाबलः ॥३-५१-१८॥ स भग्न धन्वा विरथो हत अश्वो हत सारथिः । अंकेन आदाय वैदेहीम् पपात भुवि रावणः ॥३-५१-१९॥ दृष्ट्वा निपतितम् भूमौ रावणम् भग्न वाहनम् । साधु साधु इति भूतानि गृध्र राजम् अपूजयन् ॥३-५१-२०॥ परिश्रान्तम् तु तम् दृष्ट्वा जरया पक्षि यूथपम् । उत्पपात पुनर् हृष्टो मैथिलीम् गृह्य रावणः ॥३-५१-२१॥ तम् प्रहृष्टम् निधाय अंके रावणम् जनक आत्मजाम् । गच्छंतम् खड्ग शेषम् च प्रणष्ट हत साधनम् ॥३-५१-२२॥ गृध्र राजः समुत्पत्य रावणम् समभिद्रवत् । समावार्यम् महातेजा जटायुः इदम् अब्रवीत् ॥३-५१-२३॥ वर्ज संस्पर्श बाणस्य भार्याम् रामस्य रावण । अल्प बुद्धे हरसि एनाम् वधाय खलु रक्षसाम् ॥३-५१-२४॥ स मित्र बन्धुः स अमात्यः स बलः स परिच्छदः । विष पानम् पिबसि एतत् पिपासित इव उदकम् ॥३-५१-२५॥ अनुबंधम् अजानंतः कर्मणाम् अविचक्षणाः । शीघ्रम् एव विनश्यन्ति यथा त्वम् विनशिष्यसि ॥३-५१-२६॥ बद्धः त्वम् काल पाशेन क्व गतः तस्य मोक्ष्यसे । वधाय बडिशम् गृह्य स अमिषम् जलजो यथा ॥३-५१-२७॥ न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण । धर्षणम् च आश्रमस्य अस्य क्षमिष्येते तु राघवौ ॥३-५१-२८॥ यथा त्वया कृतम् कर्म भीरुणा लोक गर्हितम् । तस्कर आचरितो मार्गो न एष वीर निषेवितः ॥३-५१-२९॥ युध्यस्व यदि शूरो असि मुहूर्तम् तिष्ठ रावण । शयिष्यसे हतो भूमौ यथा भ्राता खरः तथा ॥३-५१-३०॥ परेत काले पुरुषो यत् कर्म प्रतिपद्यते । विनाशाय आत्मनो अधर्म्यम् प्रतिपन्नो असि कर्म तत् ॥३-५१-३१॥ पाप अनुबंधो वै यस्य कर्मणः को नु तत् पुमान् । कुर्वीत लोक अधिपतिः स्वयंभूः भगवान् अपि ॥३-५१-३२॥ एवम् उक्त्वा शुभम् वाक्यम् जटायुः तस्य रक्षसः । निपपात भृशम् पृष्ठे दशग्रीवस्य वीर्यवान् ॥३-५१-३३॥ तम् गृहीत्वा नखैः तीक्ष्णैः विददार समंततः । अधिरूढो गज आरोहो यथा स्यात् दुष्ट वारणम् ॥३-५१-३४॥ विददार नखैः अस्य तुण्डम् पृष्ठे समर्पयन् । केशान् च उत्पाटयामास नख पक्ष मुख आयुधः ॥३-५१-३५॥ स तथा गृध्र राजेन क्लिश्यमानो मुहुर् मुहुः । अमर्ष स्फुरित ओष्ठः सन् प्राकंपत स राक्षसः ॥३-५१-३६॥ संपरिष्वज्य वैदेहीम् वामेन अंकेन रावणः । तलेन अभिजघान आर्तो जटायुम् क्रोध मूर्चितः ॥३-५१-३७॥ जटायुः तम् अतिक्रम्य तुण्डेन अस्य खग अधिपः । वाम बाहून् दश तदा व्यपाहरत् अरिन्दमः ॥३-५१-३८॥ संच्छिन्न बाहोः सद्यो वै बाहवः सहसा अभवन् । विष ज्वालावली युक्ता वल्मीकत् इव पन्नगाः ॥३-५१-३९॥ ततः क्रोद्धात् दशग्रीवः सीताम् उत्सृज्य वीर्यवान् । मुष्टिभ्याम् चरणाभ्याम् च गृध्र राजम् अपोथयत् ॥३-५१-४०॥ ततो मुहूर्तम् संग्रामो बभूव अतुल वीर्ययोः । राक्षसानाम् च मुख्यस्य पक्षिणाम् प्रवरस्य च ॥३-५१-४१॥ तस्य व्यायच्छमानस्य रामस्य अर्थे अथ रावणः । पक्षौ पादौ च पार्श्वौ च खड्गम् उद्धृत्य सो अच्छिनत् ॥३-५१-४२॥ स छिन्न पक्षः सहसा रक्षसा रौद्र कर्मणा । निपपात महा गृध्रो धरण्याम् अल्प जीवितः ॥३-५१-४३॥ तम् दृष्ट्वा पतितम् भूमौ क्षतज आर्द्रम् जटायुषम् । अभ्यधावत वैदेही स्व बंधुम् इव दुःखिता ॥३-५१-४४॥ तम् नील जीमूत निकाश कल्पम्सुपाण्डुर उरस्कम् उदार वीर्यम् । ददर्श लंका अधिपतिः पृथिव्याम्जटायुषम् शान्तम् इव अग्नि दावम् ॥३-५१-४५॥ ततः तु तम् पत्ररथम् मही तलेनिपातितम् रावण वेग मर्दितम् । पुनः च संगृह्य शशि प्रभ आननारुरोद सीता जनक आत्मजा तदा ॥३-५१-४६॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकपञ्चाशः सर्गः ॥३-५१॥Page is sourced from
sa.wikisource.org रामायणम्/अरण्यकाण्डम्/सर्गः ५१