रामायणम्/अरण्यकाण्डम्/सर्गः ४९
Jump to navigation
Jump to search
Template:रामायणम्/अरण्यकाण्डम्
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनपञ्चाशः सर्गः ॥३-४९॥ सीताया वचनम् श्रुत्वा दशग्रीवः प्रतापवान् । हस्ते हस्तम् समाहत्य चकार सुमहत् वपुः ॥३-४९-१॥ स मैथिलीम् पुनः वाक्यम् बभाषे वाक्य कोविदः । न उन्मत्तया श्रुतौ मन्ये मम वीर्य पराक्रमौ ॥३-४९-२॥ उद् वहेयम् भुजाभ्याम् तु मेदिनीम् अंबरे स्थितः । आपिबेयम् समुद्रम् च मृत्युम् हन्याम् रणे स्थितः ॥३-४९-३॥ अर्कम् तुंद्याम् शरैः तीक्ष्णैर् विभिंद्याम् हि महीतलम् । काम रूपिणम् उन्मत्ते पश्य माम् कामदम् पतिम् ॥३-४९-४॥ एवम् उक्तवतः तस्य रावणस्य शिखि प्रभे । क्रुद्धस्य हरि पर्यन्ते रक्ते नेत्रे बभूवतुः ॥३-४९-५॥ सद्यः सौम्यम् परित्यज्य तीक्ष्ण रूपम् स रावणः । स्वम् रूपम् काल रूप आभम् भेजे वैश्रवण अनुजः ॥३-४९-६॥ संरक्त नयनः श्रीमान् तप्त कांचन भूषणः । क्रोधेन महता आविष्टो नील जीमूत सन्निभः ॥३-४९-७॥ दश आस्यो विंशति भुजो बभूव क्षणदा चरः । स परिव्राजक च्छद्म महाकायो विहाय तत् ॥३-४९-८॥ प्रतिपेदे स्वकम् रूपम् रावणो राक्षस अधिपः । रक्त अंबर धरः तस्थौ स्त्री रत्नम् प्रेक्ष्य मैथिलीम् ॥३-४९-९॥ स ताम् असित केश अन्ताम् भास्करस्य प्रभाम् इव । वसन आभरण उपेताम् मैथिलीम् रावणो अब्रवीत् ॥३-४९-१०॥ त्रिषु लोकेषु विख्यातम् यदि भर्तारम् इच्छसि । माम् आश्रय वरारोहे तव अहम् सदृशः पतिः ॥३-४९-११॥ माम् भजस्व चिराय त्वम् अहम् श्लाघ्यः पतिः तव । न एव च अहम् क्वचित् भद्रे करिष्ये तव विप्रियम् ॥३-४९-१२॥ त्यज्यताम् मानुषो भावो मयि भावः प्रणीयताम् । राज्यात् च्युतम् असिद्ध अर्थम् रामम् परिमित आयुषम् ॥३-४९-१३॥ कैः गुणैः अनुरक्ता असि मूढे पण्डित मानिनि । यः स्त्रिया वचनात् राज्यम् विहाय ससुहृत् जनम् ॥३-४९-१४॥ अस्मिन् व्याल अनुचरिते वने वसति दुर्मतिः । इति उक्त्वा मैथिलीम् वाक्यम् प्रिय अर्हाम् प्रिय वादिनीम् ॥३-४९-१५॥ अभिगम्य सुदुष्ट आत्मा राक्षसः काम मोहितः । जग्राह रावणः सीताम् बुधः खे रोहिणीम् इव ॥३-४९-१६॥ वामेन सीताम् पद्माक्षीम् मूर्धजेषु करेण सः । ऊर्वोः तु दक्षिणेन एव परिजग्राह पाणिना ॥३-४९-१७॥ तम् दृष्ट्वा गिरि शृंग आभम् तीक्ष्ण दंष्ट्रम् महा भुजम् । प्राद्रवन् मृत्यु संकाशम् भय आर्ता वन देवताः ॥३-४९-१८॥ स च मायामयो दिव्यः खर युक्तः खर स्वनः । प्रत्यदृश्यत हेमांगो रावणस्य महारथः ॥३-४९-१९॥ ततः ताम् परुषैः वाक्यैः अभितर्ज्य महास्वनः । अंकेन आदाय वैदेहीम् रथम् आरोपयत् तदा ॥३-४९-२०॥ सा गृहीता अतिचुक्रोश रावणेन यशस्विनी । रामा इति सीता दुःख आर्ता रामम् दूरम् गतम् वने ॥३-४९-२१॥ ताम् अकामाम् स काम आर्तः पन्नग इन्द्र वधूम् इव । विवेष्टमानाम् आदाय उत्पपात अथ रावणः ॥३-४९-२२॥ ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा । भृशम् चुक्रोश मत्ता इव भ्रांत चित्ता यथा आतुरा ॥३-४९-२३॥ हा लक्ष्मण महाबाहो गुरु चित्त प्रसादक । ह्रियमाणाम् न जानीषे रक्षसा काम रूपिणा ॥३-४९-२४॥ जीवितम् सुखम् अर्थाम् च धर्म हेतोः परित्यजन् । ह्रियमाणाम् अधर्मेण माम् राघव न पश्यसि ॥३-४९-२५॥ ननु नाम अविनीतानाम् विनेता असि परंतप । कथम् एवम् विधम् पापम् न त्वम् शास्सि हि रावणम् ॥३-४९-२६॥ ननु सद्यो अविनीतस्य दृश्यते कर्मणः फलम् । कालो अपि अंगी भवति अत्र सस्यानाम् इव पक्तये ॥३-४९-२७॥ त्वम् कर्म कृतवान् एतत् काल उपहत चेतनः । जीवित अंतकरम् घोरम् रामात् व्यसनम् आप्नुहि ॥३-४९-२८॥ हन्त इदानीम् सकामा तु कैकेयी बान्धवैः सह । ह्रियेयम् धर्म कामस्य धर्म पत्नी यशस्विनः ॥३-४९-२९॥ आमंत्रये जनस्थानम् कर्णिकारान् च पुष्पितान् । क्षिप्रम् रामाय शंसध्वम् सीताम् हरति रावणः ॥३-४९-३०॥ हंस सारस संघुष्टाम् वन्दे गोदावरीम् नदीम् । क्षिप्रम् रामाय शंस त्वम् सीताम् हरति रावणः ॥३-४९-३१॥ दैवतानि च यान्ति अस्मिन् वने विविध पादपे । नमस्करोमि अहम् तेभ्यो भर्तुः शंसत माम् हृताम् ॥३-४९-३२॥ यानि कानिचित् अपि अत्र सत्त्वानि निवसन्ति उत । सर्वाणि शरणम् यामि मृग पक्षि गणान् अपि ॥३-४९-३३॥ ह्रियमाणाम् प्रियाम् भर्तुः प्राणेभ्यो अपि गरीयसीम् । विवश अपहृता सीता रावणेन इति शंसत ॥३-४९-३४॥ विदित्वा माम् महाबाहुः अमुत्र अपि महाबलः । आनेष्यति पराक्रम्य वैवस्वत हृताम् अपि ॥३-४९-३५॥ सा तदा करुणा वाचो विलपंती सुदुःखिता । वनस्पति गतम् ग्रिध्रम् ददर्श आयत लोचना ॥३-४९-३६॥ सा तम् उद् वीक्ष्य सुश्रोणी रावणस्य वशम् गता । समाक्रंदत् भयपरा दुःख उपहतया गिरा ॥३-४९-३७॥ जटायो पश्य मम आर्य ह्रियमाणम् अनाथ वत् । अनेन राक्षसेद्रेण करुणम् पाप कर्मणा ॥३-४९-३८॥ न एष वारयितुम् शक्यः त्वया क्रूरो निशाचर । सत्त्ववान् जितकाशी च स आयुधः चैव दुर्मतिः ॥३-४९-३९॥ रामाय तु यथा तत्त्वम् जटायो हरणम् मम । लक्ष्मणाय च तत् सर्वम् आख्यातव्यम् अशेषतः ॥३-४९-४०॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकोनपञ्चाशः सर्गः ॥३-४९॥Page is sourced from
sa.wikisource.org रामायणम्/अरण्यकाण्डम्/सर्गः ४९