रामायणम्/अरण्यकाण्डम्/सर्गः ४८
Jump to navigation
Jump to search
Template:रामायणम्/अरण्यकाण्डम्
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥३-४८॥ एवम् ब्रुवत्याम् सीतायाम् संरब्धः परुष अक्षरम् । ललाटे भ्रुकुटीम् कृत्वा रावणः प्रति उवाच ह ॥३-४८-१॥ भ्राता वैश्रवणस्य अहम् सापत्नो वरवर्णिनि । रावणो नाम भद्रम् ते दशग्रीवः प्रतापवान् ॥३-४८-२॥ यस्य देवाः स गंधर्वाः पिशाच पतग उरगाः । विद्रवन्ति भयात् भीता मृत्योः इव सदा प्रजाः ॥३-४८-३॥ येन वैश्रवणो भ्राता वैमात्रः कारणांतरे । द्वन्द्वम् आसादितः क्रोधात् रणे विक्रम्य निर्जितः ॥३-४८-४॥ मत् भय आर्तः परित्यज्य स्वम् अधिष्ठानम् ऋद्धिमत् । कैलासम् पर्वत श्रेष्ठम् अध्यास्ते नर वाहनः ॥३-४८-५॥ यस्य तत् पुष्पकम् नाम विमानम् कामगम् शुभम् । वीर्याद् आवर्जितम् भद्रे येन यामि विहायसम् ॥३-४८-६॥ मम संजात रोषस्य मुखम् दृष्ट्वा एव मैथिलि । विद्रवन्ति परित्रस्ताः सुराः शक्र पुरोगमाः ॥३-४८-७॥ यत्र तिष्ठामि अहम् तत्र मारुतो वाति शन्कितः । तीव्र अंशुः शिशिर अंशुः च भयात् संपद्यते रविः ॥३-४८-८॥ निष्कंप पत्राः तरवो नद्यः च स्तिमित उदकाः । भवन्ति यत्र तत्र अहम् तिष्ठामि च चरामि च ॥३-४८-९॥ मम पारे समुद्रस्य लंका नाम पुरी शुभा । संपूर्णा राक्षसैः घोरैः यथा इन्द्रस्य अमरावती ॥३-४८-१०॥ प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता । हेम कक्ष्या पुरी रम्या वैदूर्यमय तोरणा ॥३-४८-११॥ हस्ति अश्व रथ संभाधा तूर्य नाद विनादिता । सर्व काम फलैः वृक्षैः संकुल उद्यान भूषिता ॥३-४८-१२॥ तत्र त्वम् वस हे सीते राजपुत्रि मया सह । न स्मरिष्यसि नारीणाम् मानुषीणाम् मनस्विनि ॥३-४८-१३॥ भुंजाना मानुषान् भोगान् दिव्यान् च वरवर्णिनि । न स्मरिष्यसि रामस्य मानुषस्य गत आयुषः ॥३-४८-१४॥ स्थापयित्वा प्रियम् पुत्रम् राज्ञा दशरथेन यः । मन्द वीर्यः सुतो ज्येष्ठः ततः प्रस्थापितो वनम् ॥३-४८-१५॥ तेन किम् भ्रष्ट राज्येन रामेण गत चेतसा । करिष्यसि विशालाक्षि तापसेन तपस्विना ॥३-४८-१६॥ सर्व राक्षस भर्तारम् कामय - कामात् - स्वयम् आगतम् । न मन्मथ शर आविष्टम् प्रति आख्यातुम् त्वम् अर्हसि ॥३-४८-१७॥ प्रति आख्याय हि माम् भीरु परितापम् गमिष्यसि । चरणेन अभिहत्य इव पुरूरवसम् ऊर्वशी ॥३-४८-१८॥ अंगुल्या न समो रामो मम युद्धे स मानुषः । तव भाग्येन् संप्राप्तम् भजस्व वरवर्णिनि ॥३-४८-१९॥ एवम् उक्ता तु वैदेही क्रुद्धा संरक्त लोचना । अब्रवीत् परुषम् वाक्यम् रहिते राक्षस अधिपम् ॥३-४८-२०॥ कथम् वैश्रवणम् देवम् सर्व देव नमस्कृतम् । भ्रातरम् व्यपदिश्य त्वम् अशुभम् कर्तुम् इच्छसि ॥३-४८-२१॥ अवश्यम् विनशिष्यन्ति सर्वे रावण राक्षसाः । येषाम् त्वम् कर्कशो राजा दुर्बुद्धिः अजित इन्द्रियः ॥३-४८-२२॥ अपहृत्य शचीम् भार्याम् शक्यम् इन्द्रस्य जीवितुम् । न हि रामस्य भार्याम् माम् अपनीय अस्ति जीवितम् ॥३-४८-२३॥ जीवेत् चिरम् वज्र धरस्य हस्तात्शचीम् प्रधृष्य अप्रतिरूप रूपाम् । न मा दृशीम् राक्षस धर्षयित्वापीत अमृतस्य अपि तव अस्ति मोक्षः ॥३-४८-२४॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे अष्टचत्वारिंशः सर्गः ॥३-४८॥Page is sourced from
sa.wikisource.org रामायणम्/अरण्यकाण्डम्/सर्गः ४८