रामायणम्/अरण्यकाण्डम्/सर्गः ४४
Jump to navigation
Jump to search
Template:रामायणम्/अरण्यकाण्डम्
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुश्चत्वारिंशः सर्गः ॥३-४४॥ तथा तु तम् समादिश्य भ्रातरम् रघुनंदनः । बबन्ध असिम् महातेजा जांबूनदमयः त्सरुम् ॥३-४४-१॥ ततः त्रि विनतम् चापम् आदाय आत्म विभूषणम् । आबध्य च कलापौ द्वौ जगाम उदग्र विक्रमः ॥३-४४-२॥ तम् वंचयानो राजेन्द्रम् आपतन्तम् निरीक्ष्य वै । बभूव अंतर्हितः त्रासात् पुनः संदर्शने अभवत् ॥३-४४-३॥ बद्ध असिः धनुः आदाय प्रदुद्राव यतो मृगः । तम् स्म पश्यति रूपेण द्योतमानम् इव अग्रतः ॥३-४४-४॥ अवेक्ष्य अवेक्ष्य धावन्तम् धनुष् पाणिः महावने । अतिवृत्तम् इषोः पातात् लोभयानम् कदाचन ॥३-४४-५॥ शंकितम् तु समुद् भ्रान्तम् उत्पतन्तम् इव अंबरे । दृअश्यमानम् अदृश्यम् च वन उद्देशेषु केषुचित् ॥३-४४-६॥ चिन्न अभ्रैः इव संवीतम् शारदम् चन्द्र मण्डलम् । मुहूर्तात् एव ददृशे मुहुर् दूरात् प्रकाशते ॥३-४४-७॥ दर्शन अदर्शनेन एव सः अपाकर्षत राघवम् । सुदूरम् आश्रमस्य अस्य मारिचो मृगताम् गतः ॥३-४४-८॥ आसीत् क्रुद्धः तु काकुत्स्थो विवशः तेन मोहितः । अथ अवतस्थे सुश्रान्तः च्छायाम् आश्रित्य शाद्वले ॥३-४४-९॥ स तम् उन्मादयामास मृगरूपो निशाचर । मृगैः परिवृतो अथ वन्यैः अदूरात् प्रत्यदृश्यत ॥३-४४-१०॥ ग्रहीतु कामम् दृष्ट्वा तम् पुनः एव अभ्यधावत । तत् क्षणात् एव संत्रासात् पुनर् अंतर्हितो अभवत् ॥३-४४-११॥ पुनर् एव ततो दूरात् वृक्ष खण्डात् विनिःसृतः । दृष्ट्वा रामो महातेजाः तम् हन्तुम् कृत निश्चयः ॥३-४४-१२॥ भूयः तु शरम् उद्धृत्य कुपितः तत्र राघवः । सूर्य रश्मि प्रतीकाशम् ज्वलंतम् अरि मर्दनम् ॥३-४४-१३॥ संधाय सुदृढे चापे विकृष्य बलवत् बली । तम् एव मृगम् उद्दिश्य श्वसंतम् इव पन्नगम् ॥३-४४-१४॥ मुमोच ज्वलितम् दीप्तम् अस्त्रम् ब्रह्म विनिर्मितम् । शरीरम् मृग रूपस्य विनिर्भिद्य शरोत्तमः ॥३-४४-१५॥ मारीचस्य एव हृदयम् विभेद अशनि संनिभः । ताल मात्रम् अथ उत्प्लुत्य न्यपतत् स भृश आतुरः ॥३-४४-१६॥ व्यनदत् भैरवम् नादम् धरण्याम् अल्प जीवितः । म्रियमाणः तु मारीचो जहौ ताम् कृत्रिमाम् तनुम् ॥३-४४-१७॥ स्मृत्वा तत् वचनम् रक्षो दध्यौ केन तु लक्ष्मणम् । इह प्रस्थापयेत् सीता ताम् शून्ये रावणे हरेत् ॥३-४४-१८॥ स प्राप्त कालम् अज्ञाय चकार च ततः स्वरम् । सदृशम् राघवस्य एव हा सीते लक्ष्मण इति च ॥३-४४-१९॥ तेन मर्मणि निर्विद्धम् शरेण अनुपमेन हि । मृग रूपम् तु तत् त्यक्त्वा राक्षसम् रूपम् आस्थितः ॥३-४४-२०॥ चक्रे स सुमहा कायम् मारीचो जीवितम् त्यजन् । तम् दृष्ट्वा पतितम् भूमौ राक्षसम् भीम दर्शनम् ॥३-४४-२१॥ रामो रुधिर सिक्त अंगम् चेष्टमानम् महीतले । जगाम मनसा सीताम् लक्ष्मणस्य वचः स्मरन् ॥३-४४-२२॥ मारीचस्य तु माय एषा पूर्व उक्तम् लक्ष्मणेन तु । तत् तदा हि अभवत् च अद्य मारीचो अयम् मया हतः ॥३-४४-२३॥ हा सीते लक्ष्मण इति एवम् आक्रुश्य तु महा स्वनम् । ममार राक्षसः सो अयम् श्रुत्वा सीता कथम् भवेत् ॥३-४४-२४॥ लक्ष्मणः च महाबाहुः काम् अवस्थाम् गमिष्यति । इति संचिन्त्य धर्माअत्मा रामो हृष्ट तनू रुहः ॥३-४४-२५॥ तत्र रामम् भयम् तीव्रम् आविवेश विषादजम् । राक्षसम् मृग रूपम् तम् हत्वा श्रुत्वा च तत् स्वनम् ॥३-४४-२६॥ निहत्य पृषतम् च अन्यम् मांसम् आदाय राघवः । त्वरमाणो जनस्थानम् ससार अभिमुखः तदा ॥३-४४-२७॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुश्चत्वारिंशः सर्गः ॥३-४४॥Page is sourced from
sa.wikisource.org रामायणम्/अरण्यकाण्डम्/सर्गः ४४