रामायणम्/अरण्यकाण्डम्/सर्गः ३८
Jump to navigation
Jump to search
Template:रामायणम्/अरण्यकाण्डम्
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टात्रिंशः सर्गः ॥३-३८॥ कदाचित् अपि अहम् वीर्यात् पर्यटन् पृथिवीम् इमाम् । बलम् नाग सहस्रस्य धारयन् पर्वतोपमः ॥३-३८-१॥ नील जीमूत संकाशः तप्त कांचन कुण्डलः । भयम् लोकस्य जनयन् किरीटी परिघ आयुधः ॥३-३८-२॥ व्यचरम् दण्डक अरण्यम् ऋषि मांसानि भक्षयन् । विश्वामित्रो अथ धर्मात्मा मत् वित्रस्तो महामुनिः ॥३-३८-३॥ स्वयम् गत्वा दशरथम् नरेन्द्रम् इदम् अब्रवीत् । अयम् रक्षतु माम् रामः पर्व काले समाहितः ॥३-३८-४॥ मारीचात् मे भयम् घोरम् समुत्पन्नम् नरेश्वर । इति एवम् उक्तो धर्मात्मा राजा दशरथः तदा ॥३-३८-५॥ प्रत्युवाच महाभागम् विश्वामित्रम् महामुनिम् । ऊन द्वादश वर्षो अयम् अकृत अस्त्रः च राघवः ॥३-३८-६॥ कामम् तु मम यत् सैन्यम् मया सह गमिष्यति । बलेन चतुरंगेण स्वयम् एत्य निशाचरम् ॥३-३८-७॥ वधिष्यामि मुनिश्रेष्ठ शत्रुम् तव यथा ईप्सितम् । ] एवम् उक्तः स तु मुनी राजानम् इदम् अब्रवीत् ॥३-३८-८॥ रामात् न अन्यत् बलम् लोके पर्याप्तम् तस्य रक्षसः । देवतानाम् अपि भवान् समरेषु अभिपालकः ॥३-३८-९॥ आसीत् तव कृते कर्म त्रिलोक विदितम् नृप । कामम् अस्ति महत् सैन्यम् तिष्टतु इह परंतप ॥३-३८-१०॥ बालो अपि एष महातेजाः समर्थः तस्य निग्रहे । गमिष्ये रामम् आदाय स्वस्ति ते अस्तु परंतपः ॥३-३८-११॥ इति एवम् उक्त्वा स मुनिः तम् आदाय नृपात्मजम् । जगाम परम प्रीतो विश्वामित्रः स्वम् आश्रमम् ॥३-३८-१२॥ तम् तदा दण्डकारण्ये यज्ञम् उद्दिश्य दीक्षितम् । बभूव उपस्थितो रामः चित्रम् विस्फारयन् धनुः ॥३-३८-१३॥ अजात व्यंजनः श्रीमान् बालः श्यामः शुभेक्षणः । एक वस्त्र धरो धन्वी शिखी कनक मालया ॥३-३८-१४॥ शोभयन् दण्डकारण्यम् दीप्तेन स्वेन तेजसा । अदृश्यत तदा रामो बाल चन्द्र इव उदितः ॥३-३८-१५॥ ततो अहम् मेघ संकाशः तप्त कांचन कुण्डलः । बली दत्त वरो दर्पात् आजगाम आश्रम अंतरम् ॥३-३८-१६॥ तेन दृष्टः प्रविष्टो अहम् सहसा एव उद्यत आयुधः । माम् तु दृष्ट्वा धनुः सज्यम् असम्भ्रान्तः चकार ह ॥३-३८-१७॥ अवजानन् अहम् मोहात् बालो अयम् इति राघवम् । विश्वामित्रस्य ताम् वेदिम् अभ्यधावम् कृत त्वरः ॥३-३८-१८॥ तेन मुक्तः ततो बाणः शितः शत्रु निबर्हणः । तेन अहम् ताडितः क्षिप्तः समुद्रे शत योजने ॥३-३८-१९॥ न इच्छता तात माम् हन्तुम् तदा वीरेण रक्षितः । रामस्य शर वेगेन निरस्तो भ्रान्त चेतनः ॥३-३८-२०॥ पातितो अहम् तदा तेन गंभीरे सागर अंभसि । प्राप्य संज्ञाम् चिरात् तात लंकाम् प्रति गतः पुरीम् ॥३-३८-२१॥ एवम् अस्मि तदा मुक्तः सहायाः ते - शायास्तु - निपातिताः । अकृत अस्त्रेण रामेण बालेन अक्लिष्ट कर्मणा ॥३-३८-२२॥ तत् मया वार्यमाणः त्वम् यदि रामेण विग्रहम् । करिष्यसि आपदम् घोराम् क्षिप्रम् प्राप्य न शिष्यसि ॥३-३८-२३॥ क्रीडा रति विधिज्ञानाम् समाज उत्सव शालिनाम् । रक्षसाम् चैव संतापम् अनर्थम् च आहरिष्यसि ॥३-३८-२४॥ हर्म्य प्रासाद संबाधाम् नाना रत्न विभूउषिताम् । द्रक्ष्यसि त्वम् पुरीम् लंकाम् विनष्टाम् मैथिली कृते ॥३-३८-२५॥ अकुर्वन्तो अपि पापानि शुचयः पाप संश्रयात् । पर पापैः विनश्यन्ति मत्स्या नाग ह्रदे यथा ॥३-३८-२६॥ दिव्यचंदनदिग्धांगान्दिव्याअभरणभूषितान् -यद्वा-दिव्य चंदन दिग्ध अंगान् दिव्य आभरण भूषितान् । द्रक्ष्यसि अभिहतान् भूमौ तव दोषात् तु राक्षसान् ॥३-३८-२७॥ हृत दारान् स दारान् च दश विद्रवतो दिशः । हत शेषान् अशरणान् द्रक्ष्यसि त्वम् निशाचरान् ॥३-३८-२८॥ शर जाल परिक्षिप्ताम् अग्नि ज्वाला समावृताम् । प्रदग्ध भवनाम् लंकाम् द्रक्ष्यसि त्वम् असंशयम् ॥३-३८-२९॥ पर दार अभिमर्षात् तु न अनयत् पाप तरम् महत् । प्रमदानाम् सहस्राणि तव राजन् परिग्रहे ॥३-३८-३०॥ भव स्व दार निरतः स्व कुलम् रक्ष राक्षस । मानम् वृद्धिम् च राज्यम् च जीवितम् च इष्टम् आत्मनः ॥३-३८-३१॥ कलत्राणि च सौम्यानि मित्र वर्गम् तथैव च । यदि इच्छसि चिरम् भोक्तुम् मा कृथा राम विप्रियम् ॥३-३८-३२॥ निवार्यमाणः सुहृदा मया भृशम्प्रसह्य सीताम् यदि धर्षयिष्यसि । गमिष्यसि क्षीण बलः स बान्धवोयम क्षयम् राम शर आत्त जीवितः ॥३-३८-३३॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे अष्टात्रिंशः सर्गः ॥३-३८॥Page is sourced from
sa.wikisource.org रामायणम्/अरण्यकाण्डम्/सर्गः ३८