रामायणम्/अरण्यकाण्डम्/सर्गः ३४
Jump to navigation
Jump to search
Template:रामायणम्/अरण्यकाण्डम्
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुस्त्रिंशः सर्गः ॥३-३४॥ ततः शूर्पणखाम् दृष्ट्वा ब्रुवन्तीम् परुषम् वचः । अमात्य मध्ये संकृउद्धः परिपप्रच्छ रावणः ॥३-३४-१॥ कः च रामः कथम् वीर्यः किम् रूपः किम् पराक्रमः । किम् अर्थम् दण्डकारण्यम् प्रविष्टः च सुदुस्तरम् ॥३-३४-२॥ आयुधम् किम् च रामस्य येन ते राक्षसाः हता । खरः च निहतः संख्ये दूषणः त्रिशिराः तथा ॥३-३४-३॥ तत् त्वम् ब्रूहि मनोज्ञान्गी केन त्वम् च विरूपिता । इति उक्ता राक्षस इन्द्रेण राक्षसी क्रोध मूर्च्छिता ॥३-३४-४॥ ततो रामम् यथा न्यायम् आख्यातुम् उपचक्रमे । दीर्घबाहुः विशालाक्षः चीर कृष्ण अजिन अम्बरः ॥३-३४-५॥ कन्दर्प सम रूपः च रामो दशरथ आत्मजः । शक्र चाप निभम् चापम् विकृष्य कनकांगदम् ॥३-३४-६॥ दीप्तान् क्षिपति नाराचान् सर्पान् इव महा विषान् । न आददानम् शरान् घोरान् न मुंचंतम् महाबलम् ॥३-३४-७॥ न कार्मुकम् विकर्षन्तम् रामम् पश्यामि संयुगे । हन्यमानम् तु तत् सैन्यम् पश्यामि शर वृष्टिभिः ॥३-३४-८॥ इन्द्रेण इव उत्तमम् सस्यम् आहतम् तु अश्म वृष्टिभिः । रक्षसाम् भीम वीर्याणाम् सहस्राणि चतुर्दश ॥३-३४-९॥ निहतानि शरैः तीक्ष्णैः तेन एकेन पदातिना । अर्धाधिक मुहूर्तेन खरः च सह दूषणः ॥३-३४-१०॥ ऋषीणाम् अभयम् दत्तम् कृत क्षेमाः च दण्डकाः ॥३-३४-११॥ एका कथंचित् मुक्ता अहम् परिभूय महात्मना । स्त्री वधम् शंकमानेन रामेण विदितात्मना ॥३-३४-१२॥ भ्राता च अस्य महातेजा गुणतः तुल्य विक्रमः । अनुरक्तः च भक्तः च लक्ष्मणो नाम वीर्यवान् ॥३-३४-१३॥ अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली । रामस्य दक्षिणे बाहुः नित्यम् प्राणो बहिः चरः ॥३-३४-१४॥ रामस्य तु विशालाक्षी पूर्णेन्दु सदृश आनना । धर्म पत्नी प्रिया नित्यम् भर्तृः प्रिय हिते रता ॥३-३४-१५॥ सा सुकेशी सुनासोरुः सुरूपा च यशस्विनी । देवत इव वनस्थ अस्यराजते श्रीर् इव अपरा ॥३-३४-१६॥ तप्त कांचन वर्ण आभा रक्त तुंग नखी शुभा । सीता नाम वरारोहा वैदेही तनु मध्यमा ॥३-३४-१७॥ न एव देवी न गंधर्वा न यक्षी न च किंनरी । तथा रूपा मया नारी दृष्ट पूर्वा महीतले ॥३-३४-१८॥ यस्य सीता भवेत् भार्या यम् च हृष्टा परिष्वजेत् । अति जीवेत् स सर्वेषु लोकेषु अपि पुरंदरात् ॥३-३४-१९॥ सा सुशीला वपुः श्लाघ्या रूपेण अप्रतिमा भुवि । तव अनुरूपा भार्या सा त्वम् च तस्याः पतिः वरः ॥३-३४-२०॥ ताम् तु विस्तीर्ण जघनाम् पीन उत्तुंग पयो धराम् । भार्या अर्थे तु तव आनेतुम् उद्यता अहम् वर आननाम् ॥३-३४-२१॥ ताम् तु दृष्ट्वा अद्य वैदेहीम् पूर्ण चन्द्र निभ आननाम् ॥३-३४-२२॥ मन्मथस्य शराणाम् च त्वम् विधेयो भविष्यसि । यदि तस्याम् अभिप्रायो भार्या अर्थे तव जायते । शीघ्रम् उद् ध्रियताम् पादो जयार्थम् इह दक्षिणः ॥३-३४-२३॥ रोचते यदि ते वाक्यम् मम एतत् राक्षसेश्वर । क्रियताम् निर्विशंकेन वचनम् मम रावण ॥३-३४-२४॥ विज्ञाय इह आत्म शक्तिम् च क्रियताम् च महाबल । सीता तव अनवद्यांगी भार्यत्वे राक्षसेश्वर ॥३-३४-२५॥ निशम्य रामेण शरैः अजिह्मगैःहतान् जनस्थान गतान् निशाचरान् । खरम् च दृष्ट्वा निहतम् च दूषणम्त्वम् अद्य कृत्यम् प्रतिपत्तुम् अर्हसि ॥३-३४-२६॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे चतुस्त्रिंशः सर्गः ॥३-३४॥संबंधित कड़ियाँ
Page is sourced from
sa.wikisource.org रामायणम्/अरण्यकाण्डम्/सर्गः ३४