रामायणम्/अरण्यकाण्डम्/सर्गः ३
Jump to navigation
Jump to search
Template:रामायणम्/अरण्यकाण्डम्
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे तृतीयः सर्गः ॥३-३॥''' अथ उवाच पुनर् वाक्यम् विराधः पूरयन् वनम् । पृच्छतो मम हि ब्रूतम् कौ युवाम् क्व गमिष्यथः ॥३-३-१॥ तम् उवाच ततो रामो राक्षसम् ज्वलित आननम् । पृच्छन्तम् सुमहातेजा इक्ष्वाकु कुलम् आत्मनः ॥३-३-२॥ क्षत्रियौ वृत्त संपन्नौ विद्धि नौ वनगोचरौ । त्वाम् तु वेदितुम् इच्छावः कः त्वम् चरसि दण्डकान् ॥३-३-३॥ तम् उवाच विराधः तु रामम् सत्य पराक्रमम् । हन्त वक्ष्यामि ते राजन् निबोध मम राघव ॥३-३-४॥ पुत्रः किल जवस्य अहम् माता मम शतह्रदा । विराध इति माम् आहुः पृथिव्याम् सर्व राक्षसाः ॥३-३-५॥ तपसा च अभि संप्राप्ता ब्रह्मणो हि प्रसादजा । शस्त्रेण अवध्यता लोके अच्छेद्य अभेद्यत्वम् एव च ॥३-३-६॥ उत्सृज्य प्रमदाम् एनाम् अनपेक्षौ यथा आगतम् । त्वरमाणौ पलायेथाम् न वाम् जीवितम् आददे ॥३-३-७॥ तम् रामः प्रति उवाच इदम् कोप संरक्त लोचनः । राक्षसम् विकृत आकारम् विराधम् पाप चेतसम् ॥३-३-८॥ क्षुद्र धिक्त्वाम् तु हीनार्थम् मृत्युम् अन्वेषसे ध्रुवम् । रणे प्राप्स्यसि संतिष्ठ न मे जीवन् विमोक्ष्यसे ॥३-३-९॥ ततः सज्यम् धनुः कृत्वा रामः सुनिशितान् शरान् । सु शीघ्रम् अभिसंधाय राक्षसम् निजघान ह ॥३-३-१०॥ धनुषा ज्या गुणवता सप्त बाणान् मुमोच ह । रुक्म पुंखान् महावेगान् सुपर्ण अनिल तुल्य गान् ॥३-३-११॥ ते शरीरम् विराधस्य भित्त्वा बर्हिण वाससः । निपेतुः शोणिता दिग्धा धरण्याम् पावकोपमाः ॥३-३-१२॥ स विद्धो न्यस्य वैदेहीम् शूलम् उद्यम्य राक्षसः । अभ्यद्रवत् सुसंक्रुद्धः तदा रामम् स लक्ष्मणम् ॥३-३-१३॥ स विनद्य महानादम् शूलम् शक्र ध्वज उपमम् । प्रगृह्य अशोभत तदा व्यात्तानन इव अंतकः ॥३-३-१४॥ अथ तौ भ्रातरौ दीप्तम् शर वर्षम् ववर्षतुः । विराधे राक्षसे तस्मिन् कालांतक अयम् उपमे ॥३-३-१५॥ स प्रहस्य महा रौद्रः स्थित्वा अजृम्भत राक्षसः । जृंभमाणस्य ते बाणाः कायात् निष्पेतुर् अशुगाः ॥३-३-१६॥ स्पर्शात् तु वर दानेन प्राणान् संरोध्य राक्षसः । विराधः शूलम् उद्यम्य राघवौ अभ्यधावत ॥३-३-१७॥ तत् शूलम् वज्र संकाशम् गगने ज्वलन उपमम् । द्वाभ्याम् शराभ्याम् चिच्छेद रामः शस्त्रभृताम् वरः ॥३-३-१८॥ तत् राम विशिखैः छिन्नम् शूलम् तस्य आपतत् भुविः । पपात अशनिना चिन्नम् मेरोर् इव शिला तलम् ॥३-३-१९॥ तौ खड्गौ क्षिप्रम् उद्यम्य कृष्ण सर्पौ इव उद्यतौ । तूर्णम् आपेततुः तस्य तदा प्रहारताम् बलात् ॥३-३-२०॥ स वध्यमान सुभृशम् भुजाभ्याम् परिगृह्य तौ । अप्रकंप्यौ नरव्याघ्रौ रौद्रः प्रस्थातुम् ऐच्छत ॥३-३-२१॥ तस्य अभिप्रायम् अज्ञाय रामो लक्ष्मणम् अब्रवीत् । वहतु अयम् अलम् तावत् पथानेन तु राक्षसः ॥३-३-२२॥ यथा च इच्छति सोउमित्रे तथा वहतु राक्षसः । अयम् एव हि नः पन्था येन याति निशाचरः ॥३-३-२३॥ स तु स्व बल वीर्येण समुत्क्षिप्य निशाचरः । बालाः इव स्कन्ध गतौ चकार अति बलोद्धतः ॥३-३-२४॥ तौ आरोप्य ततः स्कन्धम् राघवो रजनी चरः । विराधो विनदन् घोरम् जगाम अभिमुखो वनम् ॥३-३-२५॥ वनम् महा मेघ निभम् प्रविष्टोद्रुमैः महद्भिः विविधैः उपेतम् । नाना विधैः पक्षि कुलैः विचित्रम्शिव आयुतम् व्याल मृगैः विकीर्णम् ॥३-३-२६॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे तृतीयः सर्गः ॥३-३॥