रामायणम्/अरण्यकाण्डम्/सर्गः २९
Jump to navigation
Jump to search
Template:रामायणम्/अरण्यकाण्डम्
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनत्रिंशः सर्गः ॥३-२९॥ खरम् तु विरथम् रामो गदा पाणिम् अवस्थितम् । मृदु पूर्वम् महातेजाः परुषम् वाक्यम् अब्रवीत् ॥३-२९-१॥ गज अश्व रथ संबाधे बले महति तिष्ठता । कृतम् सुदारुणम् कर्म सर्व लोक जुगुप्सितम् ॥३-२९-२॥ उद्वेजनीयो भूतानाम् नृशंसः पाप कर्मकृत् । त्रयाणाम् अपि लोकानाम् ईश्वरो अपि न तिष्ठति ॥३-२९-३॥ कर्म लोक विरुद्धम् तु कुर्वाणम् क्षणदा चर । तीक्ष्णम् सर्व जनो हन्ति सर्पम् दुष्टम् इव आगतम् ॥३-२९-४॥ लोभात् पापानि कुर्वाणः कामात् वा यो न बुध्यते । हृष्टः पश्यति तस्य अन्तम् ब्राह्मणी करकात् इव ॥३-२९-५॥ वसतो दण्डकारण्ये तापसान् धर्म चारिणः । किम् नु हत्वा महाभागान् फलम् प्राप्स्यसि राक्षस ॥३-२९-६॥ न चिरम् पाप कर्माणः क्रूरा लोक जुगुप्सिताः । ऐश्वर्यम् प्राप्य तिष्ठन्ति शीर्ण मूला इव द्रुमाः ॥३-२९-७॥ अवश्यम् लभते कर्ता फलम् पापस्य कर्मणः । घोरम् पर्यागते काले द्रुमः पुष्पम् इव आर्तवम् ॥३-२९-८॥ न चिरात् प्राप्यते लोके पापानाम् कर्मणाम् फलम् । स विषाणाम् इव अन्नानाम् भुक्तानाम् क्षणदाचर ॥३-२९-९॥ पापम् आचरताम् घोरम् लोकस्य अप्रियम् इच्छताम् । अहम् आसादितो राज्ञा प्राणान् हन्तुम् निशाचर ॥३-२९-१०॥ अद्य भित्वा मया मुक्ताः शराः कांचन भूषणाः । विदार्य अतिपतिष्यन्ति वल्मीकम् इव पन्नगाः ॥३-२९-११॥ ये त्वया दण्डकारण्ये भक्षिता धर्म चारिणः । तान् अद्य निहतः संख्ये स सैन्यो अनुगमिष्यसि ॥३-२९-१२॥ अद्य त्वाम् निहतम् बाणैः पश्यन्तु परमर्षयः । निरयस्थम् विमानस्था ये त्वया निहता पुरा ॥३-२९-१३॥ प्रहरस्व यथा कामम् कुरु यत्नम् कुलाधम । अद्य ते पातयिष्यामि शिरः ताल फलम् यथा ॥३-२९-१४॥ एवम् उक्तः तु रामेण क्रुद्धः संरक्त लोचनः । प्रति उवाच ततो रामम् प्रहसन् क्रोध मूर्चितः ॥३-२९-१५॥ प्राकृतान् राक्षसान् हत्वा युद्धे दशरथ आत्मज । आत्मना कथम् आत्मानम् अप्रशस्यम् प्रशम्ससि ॥३-२९-१६॥ विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः । कथयन्ति न ते किंचित् तेजसा स्वेन गर्विताः ॥३-२९-१७॥ प्राकृताः तु अकृत आत्मानो लोके क्षत्रिय पांसनाः । निरर्थकम् विकत्थन्ते यथा राम विकत्थसे ॥३-२९-१८॥ कुलम् व्यपदिशन् वीरः समरे को अभिधास्यति । मृत्यु काले हि संप्राप्ते स्वयम् अप्रस्तवे स्तवम् ॥३-२९-१९॥ सर्वथा तु लघुत्वम् ते कत्थनेन विदर्शितम् । सुवर्ण प्रतिरूपेण तप्तेन इव कुश अग्निना ॥३-२९-२०॥ न तु माम् इह तिष्ठंतम् पश्यसि त्वम् गदा धरम् । धराधरम् इव अकंप्यम् पर्वतम् धातुभिः चितम् ॥३-२९-२१॥ पर्याप्तो अहम् गदा पाणिर् हन्तुम् प्राणान् रणे तव । त्रयाणाम् अपि लोकानाम् पाश हस्त इव अंतकः ॥३-२९-२२॥ कामम् बहु अपि वक्तव्यम् त्वयि वक्ष्यामि न तु अहम् । अस्तम् प्राप्नोति सविता युद्ध विघ्नः ततो भवेत् ॥३-२९-२३॥ चतुर्दश सहस्राणि राक्षसानाम् हतानि ते । त्वत् विनाशात् करोमि अद्य तेषाम् अश्रु प्रमार्जनम् ॥३-२९-२४॥ इति उक्त्वा परम क्रुद्धः ताम् गदाम् परम अन्गदाम् । खरः चिक्षेप रामाय प्रदीप्ताम् अशनिम् यथा ॥३-२९-२५॥ खर बाहु प्रमुक्ता सा प्रदीप्ता महती गदा । भस्म वृक्षाम् च गुल्माम् च कृत्वा अगात् तत् समीपतः ॥३-२९-२६॥ ताम् आपतन्तीम् महतीम् मृत्यु पाश उपमाम् गदाम् । अंतरिक्ष गताम् रामः चिच्छेद बहुधा शरैः ॥३-२९-२७॥ सा विशीर्णा शरैः भिन्ना पपात धरणी तले । गदा मंत्र औषधि बलैर् व्याली इव विनिपातिता ॥३-२९-२८॥ इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकोनत्रिंशः सर्गः ॥३-२९॥Page is sourced from
sa.wikisource.org रामायणम्/अरण्यकाण्डम्/सर्गः २९