रामायणम्/अरण्यकाण्डम्/सर्गः २६
Jump to navigation
Jump to search
Template:रामायणम्/अरण्यकाण्डम्
दूषणः तु स्वकम् सैन्यम् हन्यमानम् विलोक्य च । संदिदेश महाबाहुः भीम वेगान् निशाचरान् ॥३-२६-१॥ राक्षसान् पंच साहस्रान् समरेषु अनिवर्तिनः । ते शूलैः पट्टिशैः कदगैः शिला वरषैः द्रुमैः ॥३-२६-२॥ शर वर्षैः विच्छिन्नम् ववर्षुः तम् समन्ततः । तत् द्रुमाणाम् शिलानाम् च वर्षम् प्राण हरम् महत् ॥३-२६-३॥ प्रतिजग्राह धर्मात्मा राघवः तीक्ष्ण सायकैः । प्रतिगृह्य च तद् वर्षम् निमीलित इव ऋषभः ॥३-२६-४॥ रामः क्रोधम् परम् लेभे वध अर्थम् सर्व रक्षसाम् । ततः क्रोध समाविष्टः प्रदीप्त इव तेजसा ॥३-२६-५॥ शरैः अभ्यकिरत् सैन्यम् सर्वतः सह दूषणम् । ततः सेना पतिः क्रुद्धो दूषणः शत्रु दूषणः ॥३-२६-६॥ शरैः अशनि कल्पैः तम् राघवम् समवारयत् । ततो रामः संक्रुद्धः क्षुरेण अस्य महत् धनुः ॥३-२६-७॥ चिच्छेद समरे वीरः चतुर्भिः चतुरो हयान् । हत्वा च अश्वान् शरैः तीक्ष्णैः अर्थ चन्द्रेण सारथे ॥३-२६-८॥ शिरो जहार तद् रक्षः त्रिभिर् विव्याध वक्षसि । स च्छिन्न धन्वा विरथो हत अश्वो हत सारथिः ॥३-२६-९॥ जग्राह गिरि शृंग आभम् परिघम् रोम हर्षणम् । वेष्टितम् कांचनैः पट्टैः देव सैन्य अभिमर्दनम् ॥३-२६-१०॥ आयसैः शंकुभिः तीक्ष्णैः कीर्णम् पर वसा उक्षिताम् । वज्र अशनि सम स्पर्शम् पर गोपुर दारणम् ॥३-२६-११॥ तम् महा उरग संकाशम् प्रगृह्य परिघम् रणे । दूषणो अभ्यपतत् रामम् क्रूर कर्मा निशाचरः ॥३-२६-१२॥ तस्य अभिपतमानस्य दूषणस्य स राघवः । द्वाभ्याम् शराभ्याम् चिच्छेद स हस्त आभरणौ भुजौ ॥३-२६-१३॥ भ्रष्टः तस्य महाकायः पपात रण मूर्धनि । परिघः छिन्न हस्तस्य शक्र ध्वज इव अग्रतः ॥३-२६-१४॥ कराभ्याम् च विकीर्णाभ्याम् पपात भुवि दूषणः । विषाणाभ्याम् विशीर्णाभ्याम् मनस्वी इव महागजः ॥३-२६-१५॥ दृष्ट्वा तम् पतितम् भूमौ दूषणम् निहतम् रणे । साधु साधु इति काकुत्स्थम् सर्व भूतानि अपूजयन् ॥३-२६-१६॥ एतस्मिन् अन्तरे क्रुद्धाः त्रयः सेना अग्र यायिनः । संहत्य अभ्यद्रवन् रामम् मृत्यु पाश अवपाशिताः ॥३-२६-१७॥ महाकपालः स्थूलाक्षः प्रमाथी च महाबलः । महाकपालो विपुलम् शूलम् उद्यम्य राक्षसः ॥३-२६-१८॥ स्थूलाक्षः पट्टिशम् गृह्य प्रमाथी च परश्वधम् । दृष्ट्वा एव आपततः ताम् तु राघवः सायकैः शितैः ॥३-२६-१९॥ तीक्ष्ण अग्रैः प्रतिजग्राह संप्राप्तान् अतिथीन् इव । महाकपालस्य शिरः चिच्छेद रघुनंदनः ॥३-२६-२०॥ असंख्येयैः तु बाण ओघैः प्रममाथ प्रमाथिनम् । स्थूलाक्षस्य अक्षिणी स्थूले पूरयामास सायकैः ॥३-२६-२१॥ स पपात हतो भूमौ विटपी इव महाद्रुमः । दूषणस्य अनुगान् पंच सहस्रान् कुपितः क्षणात् ॥३-२६-२२॥ हत्वा तु पंच सहस्रान् अनयत् यम सदनम् । दूषणम् निहतम् श्रुत्वा तस्य च एव पदानुगान् ॥३-२६-२३॥ व्यादिदेश खरः क्रुद्धो सेन अध्यक्षान् महाबलान् । अयम् विनिहतः संख्ये दूषणः स पदानुगाः ॥३-२६-२४॥ महत्या सेनया सार्धम् युद्ध्वा रामम् कुमानुषम् । शस्त्रैः नाना विध अकारैः हनध्वम् सर्व राक्षसाः ॥३-२६-२५॥ एवम् उक्त्वा खरः क्रुद्धो रामम् एव अभि दुद्रुवे । श्येनगामी पृथुग्रीवो यज्ञशत्रुर् विहंगमः ॥३-२६-२६॥ दुर्जयः करवीराक्षः परुषः कालकार्मुकः । हेममाली महामाली सर्पस्यो रुधिराशनः ॥३-२६-२७॥ द्वादश एते महावीर्या बल अध्यक्षाः । स सैनिकाःरमम् एव अभ्यधावंत विसृजंतः शरोत्तमान् ॥३-२६-२८॥ ततः पावक संकाशैः हेम वज्र विभूषितैः । जघन शेषम् तेजस्वी तस्य सैन्यस्य सायकैः ॥३-२६-२९॥ ते रुक्म पुंखा विशिखाः स धूमा इव पावकाः । निजघ्नुः तानि रक्षांसि वज्रा इव महाद्रुमान् ॥३-२६-३०॥ रक्षसाम् तु शतम् रामः शतेन एकेन कर्णिना । सहस्रम् तु सहस्रेण जघान रण मूर्धनि ॥३-२६-३१॥ तैः भिन्न वर्म आभरणाः छिन्न भिन्न शर आसनाः । निपेतुः शोणित आदिग्धा धरण्याम् रजनीचराः ॥३-२६-३२॥ तैः मुक्त केशैः समरे पतितैः शोणित उक्षितैः । विस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैः इव ॥३-२६-३३॥ तत् क्षणे तु महा घोरम् वनम् निहत राक्षसम् । बभूव निरय प्रख्यम् मांस शोणित कर्दमम् ॥३-२६-३४॥ चतुर्दश सहस्राणि रक्षसाम् भीम कर्मणाम् । हतानि एकेन रामेण मानुषेण पदातिना ॥३-२६-३५॥ तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः । राक्षसः त्रिशिराः चैव रामः च रिपुसूदनः ॥३-२६-३६॥ शेषा हता महावीर्या राक्षसा रण मूर्धनि । घोरा दुर्विषहाः सर्वे लक्ष्मणस्य अग्रजेन ॥३-२६-३७॥ ततः तु तद् भीम बलम् महा आहवेसमीक्ष्य रामेण हतम् बलीयसा । रथेन रामम् महता खरः ततःसमाससाद इन्द्र इव उद्यत अशनिः ॥३-२६-३८॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे षड्विंशः सर्गः ॥३-२६॥