रामायणम्/अरण्यकाण्डम्/सर्गः २१
Jump to navigation
Jump to search
Template:रामायणम्/अरण्यकाण्डम्
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चदशः सर्गः ॥३-१५॥''' स पुनः पतिताम् दृष्ट्वा क्रोधात् शूर्पणखाम् खरः । उवाच व्यक्तता वाचा ताम् अनर्थ अर्थम् आगताम् ॥३-२१-१॥ मया तु इदानीम् शूराः ते राक्षसा पिशित अशनाः । त्वत् प्रियार्थम् विनिर्दिष्टाः किम् अर्थम् रुद्यते पुनः ॥३-२१-२॥ भक्ताः चैव अनुरक्ताः च हिताः च मम नित्यशः । हन्यमाना अपि न हन्यन्ते न न कुर्युः वचो मम ॥३-२१-३॥ किम् एतत् श्रोतुम् इच्छामि कारणम् यत् कृते पुनः । हा नाथ इति विनर्दन्ती सर्पवत् चेष्टसे क्षितौ ॥३-२१-४॥ अनाथ वत् विलपसि किम् नु नाथे मयि स्थिते । उत्तिष्ठोत्तिष्ठ मा मैवम् वैक्लव्यम् त्यज्यताम् इति ॥३-२१-५॥ इति एवम् उक्ता दुर्धर्षा खरेण परिसान्त्विता । विमृज्य नयने स अस्रे खरम् भ्रातरम् अब्रवीत् ॥३-२१-६॥ अस्मि इदानीम् अहम् प्रप्ता हत श्रवण नासिका । शोणित ओघ परिक्लिन्ना त्वया च परिसमन्विता ॥३-२१-७॥ प्रेषिताः च त्वया शूरा राक्षसाः ते चतुर् दश । निहन्तुम् राघवम् घोराम् मत् प्रियार्थम् स लक्ष्मणम् ॥३-२१-८॥ ते तु रामेण सामर्षाः शूल पट्टिस पाणयः । समरे निहताः सर्वे सायकैः मर्म भेदिभिः ॥३-२१-९॥ तान् भूमौ पतितान् दृष्ट्वा क्षणेन एव महाजवान् । रामस्य च महत् कर्म महान् त्रासो अभवन् मम ॥३-२१-१०॥ सा अस्मि भीता समुद्विग्ना विषण्णा च निशाचर । शरणम् त्वाम् पुनः प्राप्ता सर्वतो भय दर्शिनी ॥३-२१-११॥ विषाद नक्र अध्युषिते परित्रास ऊर्मि मालिनि । किम् माम् न त्रायसे मग्नाम् विपुले शोक सागरे ॥३-२१-१२॥ एते च निहता भूमौ रामेण निशितैः शरैः । ये च मे पदवीम् प्राप्ता राक्षसाः पिशित अशनाः ॥३-२१-१३॥ मयि ते यदि अनुक्रोशो यदि रक्षःसु तेषु च । रामेण यदि शक्तिः ते तेजो वा अस्ति निशा चर ॥३-२१-१४॥ दण्डकारण्य निलयम् जहि राक्षस कण्टकम् । यदि रामम् अमित्रघ्नम् न त्वम् अद्य वधिष्यसि ॥३-२१-१५॥ तव चैव अग्रतः प्राणान् त्यक्ष्यामि निरपत्रपा । बुद्ध्या अहम् अनुपश्यामि न त्वम् रामस्य संयुगे ॥३-२१-१६॥ स्थातुम् प्रति मुखे शक्तः स बलो अपि महा रणे । शूरमानी न शूरः त्वम् मिथ्या आरोपित विक्रमः ॥३-२१-१७॥ अपयाहि जन स्थानात् त्वरितः सह बान्धवः । जहि त्वम् समरे मूढान् यथा तु कुलपांसन ॥३-२१-१८॥ मानुषौ तौ न शक्नोषि हन्तुम् वै राम लक्ष्मणौ । निःसत्त्वस्य अल्प वीर्यस्य वासः ते कीदृशः तु इह ॥३-२१-१९॥ राम तेजो अभिभूतो हि त्वम् क्षिप्रम् विनशिष्यसि । स हि तेजः समायुक्तो रामो दशरथात्मजः ॥३-२१-२०॥ भ्राता च अस्य महा वीर्यो येन च अस्मि विरूपिता । एवम् विलाप्य बहुशो राक्ष्सी प्रदरोदरी ॥३-२१-२१॥ भ्रातुः समीपे शोक आर्ता नष्ट संज्ञा बभूव ह । कराभ्याम् उदरम् हत्वा रुरोद भृश दुःखिता ॥३-२१-२२॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकविंशः सर्गः ॥३-२१॥