रामायणम्/अरण्यकाण्डम्/सर्गः १८
Jump to navigation
Jump to search
Template:रामायणम्/अरण्यकाण्डम्
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चदशः सर्गः ॥३-१५॥''' ताम् तु शूर्पणखाम् रामः काम पाश अवपाशिताम् । स्वच्छया श्लक्ष्णया वाचा स्मित पूर्वम् अथ अब्रवीत् ॥३-१८-१॥ कृत दारो अस्मि भवति भार्या इयम् दयिता मम । त्वत् विधानाम् तु नारीणाम् सुदुःखा ससपत्नता ॥३-१८-२॥ अनुजः तु एष मे भ्राता शीलवान् प्रिय दर्शनः । श्रीमान् अकृत दारः च लक्ष्मणो नाम वीर्यवान् ॥३-१८-३॥ अपूर्वी भार्यया च अर्थी तरुणः प्रिय दर्शनः । अनुरूपः च ते भर्ता रूपस्य अस्य भविष्यति ॥३-१८-४॥ एनम् भज विशालाक्षि भर्तारम् भ्रातरम् मम । असपत्ना वरारोहे मेरुम् अर्क प्रभा यथा ॥३-१८-५॥ इति रामेण सा प्रोक्ता राक्षसी काम मोहिता । विसृज्य रामम् सहसा ततो लक्ष्मणम् अब्रवीत् ॥३-१८-६॥ अस्य रूपस्य ते युक्ता भार्या अहम् वरवर्णिनी । मया सह सुखम् सर्वान् दण्डकान् विचरिष्यसि ॥३-१८-७॥ एवम् उक्तः तु सौमित्री राक्षस्या वाक्य कोविदः । ततः शूर्पणखीम् स्मित्वा लक्ष्मणो युक्तम् अब्रवीत् ॥३-१८-८॥ कथम् दासस्य मे दासी भार्या भवितुम् इच्छसि । सो अहम् आर्येण परवान् भ्रात्रा कमल वर्णिनी ॥३-१८-९॥ समृद्ध अर्थस्य सिद्धार्था मुदित अमल वर्णिनी । आर्यस्य त्वम् विशालाक्षि भार्या भव यवीयसी ॥३-१८-१०॥ एनाम् विरूपाम् असतीम् करालाम् निर्णत उदरीम् । भार्याम् वृद्धाम् परित्यज्य त्वाम् एव एष भजिष्यति ॥३-१८-११॥ को हि रूपम् इदम् श्रेष्ठम् संत्यज्य वरवर्णिनि । मानुषेषु वरारोहे कुर्यात् भावम् विचक्षणः ॥३-१८-१२॥ इति सा लक्ष्मणेन उक्ता कराला निर्णतोदरी । मन्यते तत् वचः सत्यम् परिहास अविचक्षणा ॥३-१८-१३॥ सा रामम् पर्णशालायाम् उपविष्टम् परंतपम् । सीतया सह दुर्धर्षम् अब्रवीत् काम मोहिता ॥३-१८-१४॥ इमाम् विरूपाम् असतीम् करालाम् निर्णतोदरीम् । वृद्धाम् भार्याम् अवष्टभ्य न माम् त्वम् बहु मन्यसे ॥३-१८-१५॥ अद्य इमाम् भक्षयिष्यामि पश्यतः तव मानुषीम् । त्वया सह चरिष्यामि निःसपत्ना यथा सुखम् ॥३-१८-१६॥ इति उक्त्वा मृगशावाक्षीम् अलात सदृश ईक्षणा । अभ्यधावत् सुसंक्रुद्धा महा उल्का रोहिणीम् इव ॥३-१८-१७॥ ताम् मृत्यु पाश प्रतिमाम् आपतंतीम् महाबलः । विगृह्य रामः कुपितः ततो लक्ष्मणम् अब्रवीत् ॥३-१८-१८॥ क्रूरैः अनार्यैः सौमित्रे परिहासः कथंचन । न कार्यः पश्य वैदेहीम् कथंचित् सौम्य जीवतीम् ॥३-१८-१९॥ इमाम् विरूपाम् असतीम् अतिमत्ताम् महोदरीम् । राक्षसीम् पुरुषव्याघ्र विरूपयितुम् अर्हसि ॥३-१८-२०॥ इति उक्तो लक्ष्मणः तस्याः क्रुद्धो रामस्य पश्यतः । उद्धृत्य खड्गम् चिच्छेद कर्ण नासम् महाबलः ॥३-१८-२१॥ निकृत्त कर्ण नासा तु विस्वरम् सा विनद्य च । यथा आगतम् प्रदुद्राव घोरा शूर्पणखा वनम् ॥३-१८-२२॥ सा विरूपा महाघोरा राक्षसी शोणित उक्षिता । ननाद विविधान् नादान् यथा प्रावृषि तोयदः ॥३-१८-२३॥ सा विक्षरंती रुधिरम् बहुधा घोर दर्शना । प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् ॥३-१८-२४॥ ततः तु सा राक्षस संघ सम्वृतम् खरम् जन स्थान गतम् विरूपिता । उपेत्य तम् भ्रातरम् उग्र तेजसम् पपात भूमौ गगनाद् यथा अशनिः ॥३-१८-२५॥ ततः सभार्यम् भय मोह मूर्चिता सलक्ष्मणम् राघवम् आगतम् वनम् । विरूपणम् च आत्मनि शोणित उक्षिता शशम्स सर्वम् भगिनी खरस्य सा ॥३-१८-२६॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे अष्टादशः सर्गः ॥३-१८॥