रामायणम्/अरण्यकाण्डम्/सर्गः १६
Jump to navigation
Jump to search
Template:रामायणम्/अरण्यकाण्डम्
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षोडशः सर्गः ॥३-१६॥
वसतः तस्य तु सुखम् राघवस्य महात्मनः । शरद् व्यपाये हेमंतऋतुर् इष्टः प्रवर्तत ॥३-१६-१॥ स कदाचित् प्रभातायाम् शर्वर्याम् रघुनंदनः । प्रययाव अभिषेकार्थम् रम्यम् गोदावरीम् नदीम् ॥३-१६-२॥ प्रह्वः कलश हसतः तम् सीतया सह वीर्यवान् । पृष्ठतो अनुव्रजन् भ्राता सौमित्रिर् इदम् अब्रवीत् ॥३-१६-३॥ अयम् स कालः संप्राप्तः प्रियो यः ते प्रियंवद । अलंकृत इव आभाति येन संवत्सरः शुभः ॥३-१६-४॥ नीहार परुषो लोकः पृथिवी सस्य मालिनी । जलानि अनुपभोग्यानि सुभगो हव्य वाहनः ॥३-१६-५॥ नव आग्रयण पूजाभिर् अभ्यर्च्य पितृ देवताः । कृत आग्रयणकाः काले सन्तो विगत कल्मषाः ॥३-१६-६॥ प्राज्यकामा जनपदाः संपन्नतर गो रसाः । विचरन्ति महीपाला यात्र अर्थम् विजिगीषवः ॥३-१६-७॥ सेवमाने दृढम् सूर्ये दिशम् अन्तक सेविताम् । विहीन तिलका इव स्त्री न उत्तरा दिक् प्रकाशते ॥३-१६-८॥ प्रकृत्या हिम कोश आढ्यो दूर सूर्याः च सांप्रतम् । यथार्थ नामा सुव्यक्तम् हिमवान् हिमवान् गिरिः ॥३-१६-९॥ अत्यन्त सुख संचारा मध्याह्ने स्पर्शतः सुखाः । दिवसाः सुभग आदित्याअः छाया सलिल दुर्भगाः ॥३-१६-१०॥ मृदु सूर्याः सनीहाराः पटु शीताः समारुताः । शून्य अरण्या हिम ध्वस्ता दिवसा भान्ति साम्प्रतम् ॥३-१६-११॥ निवृत्त आकाश शयनाः पुष्यनीता हिम अरुणाः । शीता वृद्धतर आयामः त्रि यामा यान्ति सांप्रतम् ॥३-१६-१२॥ रवि संक्रान्त सौभाग्यः तुषार अरुण मण्डलः । निःश्वास अन्ध इव आदर्शाः चंद्रमा न प्रकाशते ॥३-१६-१३॥ ज्योत्स्ना तुषार मलिना पौर्णमास्याम् न राजते । सीता इव च आतप श्यामा लक्ष्यते न तु शोभते ॥३-१६-१४॥ प्रकृत्या शीतल स्पर्शो हिम विद्धाः च सांप्रतम् । प्रवाति पश्चिमो वायुः काले द्वि गुण शीतलः ॥३-१६-१५॥ बाष्प च्छन्नानि अरण्यानि यव गोधूमवंति च । शोभन्ते अभ्युदिते सूर्ये नदद्भिः क्रौन्च सारसैः ॥३-१६-१६॥ खर्जूर पुष्प आकृतिभिः शिरोभिः पूर्ण तण्डुलैः । शोभन्ते किंचिद् आलंबाः शालयः कनक प्रभाः ॥३-१६-१७॥ मयूखैः उपसर्पद्भिः हिम नीहार संवृतैः । दूरम् अभ्युदितः सूर्यः शशांक इव लक्ष्यते ॥३-१६-१८॥ अग्राह्य वीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः । संरक्तः किंचिद् आपाण्डुः आतपः शोभते क्षितौ ॥३-१६-१९॥ अवश्याय निपातेन किंचित् प्रक्लिन्न शाद्वला । वनानाम् शोभते भूमिर् निविष्ट तरुण आतपा ॥३-१६-२०॥ स्पृशन् तु सुविपुलम् शीतम् उदकम् द्विरदः सुखम् । अत्यन्त तृषितो वन्यः प्रतिसंहरते करम् ॥३-१६-२१॥ एते हि समुपासीना विहगा जलचारिणः । न अवगाहन्ति सलिलम् अप्रगल्भा इव आवहम् ॥३-१६-२२॥ अवश्याय तमो नद्धा नीहार तमसा आवृताः । प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वन राजयः ॥३-१६-२३॥ बाष्प संचन्न सलिला रुत विज्ञेय सारसाः । हिमाअर्द्र वालुकैः तीरैः सरितो भान्ति सांप्रतम् ॥३-१६-२४॥ तुषार पतनात् चैव मृदुत्वात् भास्करस्य च । शैत्यात् अग अग्रस्थम् अपि प्रायेण रसवत् जलम् ॥३-१६-२५॥ जरा जर्जरितैः पत्रैः शीर्ण केसर कर्णिकैः । नाल शेषा हिम ध्वस्ता न भान्ति कमलाकराः ॥३-१६-२६॥ अस्मिन् तु पुरुषव्याघ्र काले दुःख समन्वितः । तपश्चरति धर्मात्मा त्वत् भक्त्या भरतः पुरे ॥३-१६-२७॥ त्यक्त्वा राज्यम् च मानम् च भोगांश्च विविधान् बहून् । तपस्वी नियताहारः शेते शीते महीतले ॥३-१६-२८॥ सोऽपि वेलाम् इमाम् नूनम् अभिषेक अर्थम् उद्यतः । वृतः प्रकृतिभिर् नित्यम् प्रयाति सरयूम् नदीम् ॥३-१६-२९॥ अत्यन्त सुख संवृद्धः सुकुमारो हिमार्दितः । कथम् तु अपर रात्रेषु सरयूम् अवगाहते ॥३-१६-३०॥ पद्मपत्रेक्षणः श्यामः श्रीमान् निरुदरो महान् । धर्मज्ञः सत्यवादी च ह्री निषेधो जितेन्द्रियः ॥३-१६-३१॥ प्रियाभिभाषी मधुरो दीर्घबाहुः अरिन्दमः । संत्यज्य विविधान् भोगान् आर्यम् सर्वात्मना आश्रितः ॥३-१६-३२॥ जितः स्वर्गः तव भ्रात्रा भरतेन महात्मना । वनस्थम् अपि तापस्ये यः त्वाम् अनुविधीयते ॥३-१६-३३॥ न पित्र्यम् अनुवर्न्तन्ते मातृकम् द्विपदा इति । ख्यातो लोक प्रवादो अयम् भरतेन अन्यथा कृतः ॥३-१६-३४॥ भर्ता दशरथो यस्याः साधुः च भरतः सुतः । कथम् नु सा अम्बा कैकेयी तादृशी क्रूरदर्शिनी ॥३-१६-३५॥ इति एवम् लक्ष्मणे वाक्यम् स्नेहात् वदति धर्मिके । परिवादम् जनन्यः तम् असहन् राघवो अब्रवीत् ॥३-१६-३६॥ न ते अम्बा मध्यमा तात गर्हितव्या कथंचन । ताम् एव इक्ष्वाकु नाथस्य भरतस्य कथाम् कुरु ॥३-१६-३७॥ निश्चिता एव हि मे बुद्धिः वन वासे दृढ व्रता । भरत स्नेह संतप्ता बालिशी क्रियते पुनः ॥३-१६-३८॥ संस्मरामि अस्य वाक्यानि प्रियाणि मधुराणि च । हृद्यानि अमृत कल्पानि मनः प्रह्लादानि च ॥३-१६-३९॥ कदा हि अहम् समेष्यामि भरतेन महात्मना । शत्रुघ्नेन च वीरेण त्वया च रघुनंदन ॥३-१६-४०॥ इति एवम् विलपन् तत्र प्राप्य गोदावरीम् नदीम् । चक्रे अभिषेकम् काकुत्स्थः सानुजः सह सीतया ॥३-१६-४१॥ तर्पयित्वा अथ सलिलैः तैः पितॄन् दैवतानि च । स्तुवन्ति स्म उदितम् सूर्यम् देवताअः च तथा अनघाः॥३-१६-४२॥ कृताभिषेकः स रराज रामः सीता द्वितीयः सह लक्ष्मणेन । कृत अभिषेको तु अग राज पुत्र्या रुद्रः स नन्दिः भगवान् इव ईशः ॥३-१६-४३॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे षोडशः सर्गः ॥३-१६॥