रामायणम्/अरण्यकाण्डम्/सर्गः १०
Jump to navigation
Jump to search
Template:रामायणम्/अरण्यकाण्डम्
'''श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे दशमः सर्गः ॥३-१०॥''' वाक्यम् एतत् तु वैदेह्या व्याहृतम् भर्तृ भक्त्या । श्रुत्वा धर्मे स्थितो रामः प्रत्युवाच जानकीम् ॥३-१०-१॥ हितम् उक्तम् त्वया देवि स्निग्धया सदृशम् वचः । कुलम् व्यपदिशन्त्या च धर्मज्ञे जनक आत्मजे ॥३-१०-२॥ किम् नु वक्ष्यामि अहम् देवि त्वया एव उक्तम् इदम् वचः । क्षत्रियैः धार्यते चापो न आर्त शब्दो भवेद् इति ॥३-१०-३॥ ते च आर्ता दण्डकारण्ये मुनयः संशित व्रताः । माम् सीते स्वयम् आगम्य शरण्याः शरणम् गताः ॥३-१०-४॥ वसन्तः काल कालेषु वने मूल फल अशनाः । न लभन्ते सुखम् भीरु राक्षसैः क्रूर कर्मभिः ॥३-१०-५॥ भक्ष्यन्ते राक्षसैः भीमैः नर मांसोपजीविभिः । ते भक्ष्यमाणा मुनयो दण्डकारण्य वासिनः ॥३-१०-६॥ अस्मान् अभ्यवपद्य इति माम् ऊचुर् द्विज सत्तमाः । मया तु वचनम् श्रुत्वा तेषाम् एवम् मुखात् च्युतम् ॥३-१०-७॥ कृत्वा वचन शुश्रुषाम् वाक्यम् एतत् उदाहृतम् । प्रसीदन्तु भवन्तो मे ह्रीः एषा तु मम अतुला ॥३-१०-८॥ यद् ईदृशैः अहम् विप्रैः उपस्थेयैः उपस्थितः । किम् करोमि इति च मया व्याहृतम् द्विज संनिधौ ॥३-१०-९॥ सर्वैः एव समागम्य वाक् इयम् समुदाहृता । राक्षसैः दण्डकारण्ये बहुभिः काम रूपिभिः ॥३-१०-१०॥ अर्दिताः स्म भृशम् राम भवान् नः तत्र रक्षतु । होम काले तु संप्राप्ते पर्व कालेषु च अनघ ॥३-१०-११॥ धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशित अशनाः । राक्षसैः धर्षितानाम् च तापसानाम् तपस्विनाम् ॥३-१०-१२॥ गतिम् मृगयमाणानाम् भवान् नः परमा गतिः । कामम् तपः प्रभावेण शक्ता हन्तुम् निशाचरान् ॥३-१०-१३॥ चिरार्जितम् न च इच्छामः तपः खण्डयितुम् वयम् । बहु विघ्नम् तपो नित्यम् दुःश्चरम् चैव राघव ॥३-१०-१४॥ तेन शापम् न मुंचामो भक्ष्यमाणाः च राक्षसैः । तद् अर्द्यमानान् रक्षोभिः दण्डकारण्य वासिभिः ॥३-१०-१५॥ रक्ष नः त्वम् सह भ्रात्रा त्वम् नाथा हि वयम् वने । मया च एतत् वचः श्रुत्वा कार्त्स्न्येन परिपालनम् ॥३-१०-१६॥ ऋषीणाम् दण्डकारण्ये संश्रुतम् जनकाअत्मजे । संश्रुत्य न च शक्ष्यामि जीवमानः प्रतिश्रवम् ॥३-१०-१७॥ मुनीनाम् अन्यथा कर्तुम् सत्यम् इष्टम् हि मे सदा । अपि अहम् जीवितम् जह्याम् त्वाम् वा सीते स लक्ष्मणाम् ॥३-१०-१८॥ न तु प्रतिज्ञाम् संश्रुत्य ब्राह्मणेभ्यो विशेषतः । तत् अवश्यम् मया कार्यम् ऋषीणाम् परिपालनम् ॥३-१०-१९॥ अनुक्तेन अपि वैदेहि प्रतिज्ञाय कथम् पुनः । मम स्नेहात् च सौहार्दात् इदम् उक्तम् त्वया वचः ॥३-१०-२०॥ परितुष्टो अस्मि अहम् सीते न हि अनिष्टो अनुशास्यते । सदृशम् च अनुरूपम् च कुलस्य तव शोभने । सधर्म चारिणी मे त्वम् प्राणेभ्यो अपि गरीयसी ॥३-१०-२१॥ इति एवम् उक्त्वा वचनम् महात्मासीताम् प्रियाम् मैथिल राज पुत्रीम् । रामो धनुष्मान् सह लक्ष्मणेनजगाम रम्याणि तपो वनानि ॥३-१०-२२॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे दशमः सर्गः ॥३-१०॥