रामायणम्/अयोध्याकाण्डम्/सर्गः ३
Jump to navigation
Jump to search
Template:रामायणम्/अयोध्याकाण्डम्
तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः । प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥२-३-१॥ अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम । यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थ मिच्छथ ॥२-३-२॥ इति प्रत्यर्च्य तान् राजा ब्राह्मणानिद मब्रवीत् । वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ॥२-३-३॥ चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः । यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥२-३-४॥ राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् । शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः ॥२-३-५॥ वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् । अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ॥२-३-६॥ तदद्य भगवन् सर्वमाज्ञापयितु मर्हसि । तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः ॥२-३-७॥ आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् । सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि ॥२-३-८॥ शुक्लमाल्यांश्च लाजांश्च पृथक्च मधुसर्पिषी । अहतानि च वासांसि रथं सर्वायुधान्यपि ॥२-३-९॥ चतुरङ्गबलं चैव गजं च शुभलक्षणम् । चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डुरम् ॥२-३-१०॥ शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम् । हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च ॥२-३-११॥ उपस्थापयत प्रातरग्न्यगारं महीपतेः । यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम् ॥२-३-१२॥ अस्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च । चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः ॥२-३-१३॥ प्रशस्तमन्नं गुणवद्धधिक्षीरोपसेचनम् । द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत् ॥२-३-१४॥ सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम् । घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥२-३-१५॥ सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् । ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च ॥२-३-१६॥ आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् । सर्वे च ताLआवचरा गणिकाश्च स्वलंकृताः ॥२-३-१७॥ कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः । देवायतनचैत्येषु सान्नभक्षाः सदक्षिणाः ॥२-३-१८॥ उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक् पृथक् । दीर्घासिबद्धा योधाश्च सन्नद्धा मृष्टवाससः ॥२-३-१९॥ महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम् । एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिष्ठितौ ॥२-३-२०॥ चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च । कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् ॥२-३-२१॥ यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ । ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत् ॥२-३-२२॥ रामः कृतात्मा भवता शीघ्रमानीयतामिति । स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् ॥२-३-२३॥ रामं तत्रानयांचक्रे रथेन रथिनां वरम् । अथ तत्र समासीनास्तदा दशरथं नृपम् ॥२-३-२४॥ प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः । म्लेच्छाश्चार्याश्च ये चान्ये वने शैलान्तवासिनः ॥२-३-२५॥ उपासाञ्चक्रिरे सर्वे तं देवा इव वासवम् । तेषां मध्ये स राजर्षिर्मरुतामिव वासवः ॥२-३-२६॥ प्रासादस्थो रथगतं ददर्शायान्त मात्मजम् । गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् ॥२-३-२७॥ दीर्घ बाहुं महसत्त्वं मत्तमातङ्गगामिनम् । चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ॥२-३-२८॥ रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् । घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः ॥२-३-२९॥ न ततर्प समायान्तं पश्यमानो नराधिपः । अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् ॥२-३-३०॥ पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् । स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः ॥२-३-३१॥ आरुरोह नृपं द्रष्टुं सह सूतेन राघवः । स प्राञ्^जलिरभिप्रेत्य प्रणतः पितुरन्तिके ॥२-३-३२॥ नाम स्वं श्रावयन् रामो ववन्धे चरणौ पितुः । तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः ॥२-३-३३॥ गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् । तस्मै चाभ्युदितं दिव्यं मणिकाञ्चनभूषितं ॥२-३-३४॥ दिदेश राजा रुचिरं रामाय परमासनम् । तदासनवरं प्राप्य व्यदीपयत राघवः ॥२-३-३५॥ स्वयेव प्रभया मेरुमुदये विमलो रविः । तेन विभ्राजता तत्र सा सभाभिव्यरोचत ॥२-३-३६॥ विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना । तं पश्यमानो नृपति स्तुतोओष प्रियमात्मजम् ॥२-३-३७॥ अलङ्कृतमिवात्मानमादर्शतलसंस्थितम् । स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः ॥२-३-३८॥ उवाचेदं वचो राजा देवेन्द्रमिव काश्यपः । ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः ॥२-३-३९॥ उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः । यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः ॥२-३-४०॥ तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि । कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ॥२-३-४१॥ गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् । भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ॥२-३-४२॥ कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च । परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा ॥२-३-४३॥ अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय । कोष्ठागारायुधागारैः कृत्वा सन्नि चयान् बहून् ॥२-३-४४॥ तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् । तस्य नन्दन्ति मित्राणि लब्ध्वाऽमृतमिवाऽमराः ॥२-३-४५॥ तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर । तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः ॥२-३-४६॥ त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् । सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ॥२-३-४७॥ व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा । अथाभिवाद्य राजानं रथमारुह्य राघवः ॥२-३-४८॥ ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः । ते चापि पौरा नृपतेर्वचस्त । च्छ्रुत्वा तदा लाभमिवेष्टमाशु । नरेन्द्रमामन्त्र्य गृहाणि गत्वा । देवान् समानर्चुरतिप्रहृष्टाः ॥२-३-४९॥ ॥इत्यार्षे श्रीमद्वाल्मीकिरामायणे आदिकाव्ये अयोध्यकाण्डे तृतीय सर्गः ॥