रामायणम्/अयोध्याकाण्डम्/सर्गः १
Jump to navigation
Jump to search
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे प्रथमः सर्गः ॥२-१॥
गच्छता मातुलकुलं भरतेन तदाऽनघः । शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥२-१-१॥ स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः । मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥२-१-२॥ तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः । भ्रातरौ स्मरतां वीरौ वृद्धं दसरथं नृपम् ॥२-१-३॥ राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ । उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥२-१-४॥ सर्व एव तु तस्येष्ट श्चत्वारः पुरुषर्षभाः । स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥२-१-५॥ तेषामपि महातेजा रामो रतिकरः पितुः । स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥२-१-६॥ स हि देवै रुदीर्णस्य रावणस्य वधार्थिभिः । अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥२-१-७॥ कौसल्या शुशुभे पुत्रेणामिततेजसा । यथा वरेण देवानामदितिर्वज्रपाणिना ॥२-१-८॥ स हि रूपोपपन्नश्च वीर्यवाननसूयकः । भूमावनुपमः सूनुर्गणैर्धशरथोपमः ॥२-१-९॥ स च नित्यं प्रशान्तात्मा मृदुपूर्वं तु भाषते । उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥२-१-१०॥ कथंचिदुपकारेण कृतेनै केन तुष्यति । न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥२-१-११॥ शीलवृद्धै र्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः । कथयन्नास्त वैनित्य मस्त्रयोग्यान्तरेष्वपि ॥२-१-१२॥ बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः । वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ॥२-१-१३॥ न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः । अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते ॥२-१-१४॥ सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः । दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवाञ्छुचिः ॥२-१-१५॥ कुलोचितमतिः क्षात्रं धर्मं स्वं बहुमन्यते । मन्यते परया कीर्त्य महत्स्वर्गफलं ततः ॥२-१-१६॥ नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः । उत्तरोत्तरयुक्तौ च वक्ता वाचस्पति र्यथा ॥२-१-१७॥ अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित् । लोके पुरुषसारज्ञस्साधुरेको विनिर्मितः ॥२-१-१८॥ स तु स्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः । बहिश्चर इव प्राणो बभूव गुणतः प्रियः ॥२-१-१९॥ सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् । इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥२-१-२०॥ कल्याणाभिजनः साधुरदीनः सत्यवागृजुः । वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ॥२-१-२१॥ धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् । लौकिके समयाचारे कृतकल्पो विशारदः ॥२-१-२२॥ निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् । अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥२-१-२३॥ दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः । निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥२-१-२४॥ शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः । यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥२-१-२५॥ सत्संग्रहप्रग्रहणे स्थानविन्निग्रहस्य च । आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित् ॥२-१-२६॥ श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च । अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ॥२-१-२७॥ वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् । आरोहे विनये चैव युक्तोवारणवाजिनाम् ॥२-१-२८॥ धनुर्वेदविदां स्रेष्ठो लोकेऽतिरथसंमतः । अभियाता प्रहर्ता च सेनानयविशारदः ॥२-१-२९॥ अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः । अनसूयो जितक्रोधो न दृप्तो न च मत्सरी । न चावमन्ता भूतानां न च कालवशानुगः ॥२-१-३०॥ एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः । संमतस्त्रिषु लोकेषुवसुधायाः क्षमागुणैः ॥२-१-३१॥ बुद्द्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः । तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः ॥२-१-३२॥ गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः । तमेवंव्रतसंपन्नमप्रधृष्यपराक्रमम् ॥२-१-३३॥ लोकपालोपमं नाथमकामयत मेदिनी । एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ॥२-१-३४॥ दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः । अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ॥२-१-३५॥ प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति । एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते ॥२-१-३६॥ कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् । वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ॥२-१-३७॥ मत्तः प्रियतरो लोके पर्ङन्य इव वृष्टिमान् । यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ॥२-१-३८॥ महीधरसमो धृत्यां मत्तश्च गुणवत्तरः । महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् ॥२-१-३९॥ अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् । इत्येतै र्विविधै स्तैस्तै रन्यपार्थिवदुर्लभैः ॥२-१-४०॥ शिष्टैरपरिमेयैश्छ लोके लोकोत्तरैर्गुणैः । तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः ॥२-१-४१॥ निश्चित्य सचिवैः सार्धं युवराजममन्यत । दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् ॥२-१-४२॥ संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम् । पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः ॥२-१-४३॥ लोके रामस्य बुबुधे संप्रियत्वं महात्मनः । आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च ॥२-१-४४॥ प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान् नृपः । नानानगरवास्तव्यान् पृथग्जानपदानपि ॥२-१-४५॥ समानिनाय मेदिन्याः प्रधानान् पृथिवीपतीन् । न तु केकयराजानं जनकं वा नराधिपः ॥२-१-४६॥ त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् । तान्वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान् ॥२-१-४७॥ ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः । अथोपविष्टे नृपतौ तस्मिन् परबलार्दने ॥२-१-४८॥ ततः प्रविविशुः शेष राजानो लोकसम्मताः । अथ राजवितीर्णेषु विविधेष्वासनेषु च ॥२-१-४९॥ राजानमेवाभिमुखा निषेदुर्नियता नृपाः । स लब्धमानैर्विनयान्वितैर्नृपैः । पुरालयै र्जानपदैश्च मानवैः । उपोपविष्टैर्नृतो बभौ । सहस्रचक्षुर्भगवानिवामरैः ॥२-१-५०॥ ॥ इति श्रीमद्रामायणे अयोध्यकान्डे प्रथम सर्गः ॥
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे प्रथमः सर्गः ॥२-१॥