मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः ५

From HinduismPedia
Jump to navigation Jump to search

Template:मोक्षोपायटीका/स्थितिप्रकरणम्



श्रीरामः पृच्छति

भगवन् सर्वधर्मज्ञ पूर्वापरविदां वर ।

अयं मनसि संसारः स्फारः कथमिव स्थितः ॥ ४,५.१ ॥

मनसि परमाणुरूपे मनसि । स्फारः विस्तीर्णः ॥ ४,५.१ ॥

 

 

 

यथायं मनसि स्फार आरम्भः स्फुरति स्फुटम् ।

दृष्टान्तदृष्ट्या स्फुटया तथा कथय मेऽनघ ॥ ४,५.२ ॥

आरम्भः जगदाख्य आरम्भः ॥ ४,५.२ ॥

 

 

 

श्रीवसिष्ठ उत्तरं कथयति

यथैन्दवानां विप्राणां जगन्त्यवपुषामपि ।

स्थितानि जातदार्ढ्यानि मनसीदं तथा स्थितम् ॥ ४,५.३ ॥

अवपुषां मृतत्वेन शरीररहितानाम् ॥ ४,५.३ ॥

 

 

 

लवणस्य यथा राज्ञश्चेन्द्रजालाकुलाकृतेः ।

चण्डालत्वमनुप्राप्तं तथेदं मनसि स्थितम् ॥ ४,५.४ ॥

इन्द्रजालेन ऐन्द्रजालिकप्रयुक्तेनेन्द्रजालेनाकुला आकृतिर्यस्य । सः ॥ ४,५.४ ॥

 

 

 

भार्गवस्य चिरं कालं स्वर्गभोगबुभुक्षया ।

भोगेश्वरत्वं च यथा तथेदं मनसि स्थितम् ॥ ४,५.५ ॥

भार्गवस्य शुक्रस्य ॥ ४,५.५ ॥

 

 

श्रीरामः पृच्छति

भगवन् भृगुपुत्रस्य स्वर्गभोगबुभुक्षया ।

कथं भोगाधिनाथत्वं संसारित्वं बभूव च ॥ ४,५.६ ॥

भोगाधिनाथत्वं किं संसारित्वं संसारभावः ॥ ४,५.६ ॥

 

 

 

श्रीवसिष्ठः उत्तरमाह

शृणु राम पुरा वृत्तं संवादं भृगुकालयोः ।

सानौ मन्दरशैलस्य तमालविटपाकुले ॥ ४,५.७ ॥

स्पष्टम् ॥ ४,५.७ ॥

 

 

 

पुरा मन्दरशैलस्य सानौ कुसुमसङ्कुले ।

अतप्यत तपो घोरं कस्मिंश्चिद्भगवान् भृगुः ॥ ४,५.८ ॥

स्पष्टम् ॥ ४,५.८ ॥

 

 

 

तमुपास्ते स्म तेजस्वी बालः पुत्रो महामतिः ।

शुक्रः सकलचन्द्राभः प्रकाश इव भास्करम् ॥ ४,५.९ ॥

स्पष्टम् ॥ ४,५.९ ॥

 

 

 

भृगुर्वरवने तस्मिन् समाधावेव संस्थितः ।

सर्वकालं समुत्कीर्णो वनोपलतलादिव ॥ ४,५.१० ॥

आसीदित्यध्याहार्यम् ॥ ४,५.१० ॥

 

 

 

शुक्रः कुसुमशय्यासु कलधौताब्जिनीषु च ।

मन्दारतरुदोलासु बालोऽरमत लीलया ॥ ४,५.११ ॥

रमणे हेतुमाह बाल इति ॥ ४,५.११ ॥

 

 

 

विद्याविद्यादृशोर्मध्ये शुक्रो प्राप्तमहापदः ।

त्रिशङ्कुरिव रोदोऽन्तरवर्तत तदा किल ॥ ४,५.१२ ॥

रोदोऽन्तः रोदस्योः द्व्यावापृथिव्योर् । अन्तः मध्ये ॥ ४,५.१२ ॥

 

 

 

निर्विकल्पसमाधिस्थे स कदाचित्पितर्यथ ।

अव्यग्रोऽभवदेकान्ते जितारिरिव भूमिपः ॥ ४,५.१३ ॥

स्पष्टम् ॥ ४,५.१३ ॥

 

 

 

ददर्शाप्सरसं तत्र गच्छन्तीं नभसः पथा ।

क्षीरोदमध्यलुलितां लक्ष्मीमिव जनार्दनः ॥ ४,५.१४ ॥

अप्सरसं विशिनष्टि

मन्दारमाल्यवलितां मन्दानिलचलालकाम् ।

हारिझाङ्कारिगमनां सुगन्धितनभोऽनिलाम् ॥ ४,५.१५ ॥

स्पष्टम् ॥ ४,५.१५ ॥

 

 

 

लावण्यपादपलतां मदघूर्णितलोचनाम् ।

अमृतीकृततद्देशां देहेन्दूदयकान्तिभिः ॥ ४,५.१६ ॥

स्पष्टम् ॥ ४,५.१६ ॥

 

 

 

कान्तामालोक्य तस्याभूदुल्लासतरलं मनः ।

दृष्टे निर्मलपूर्णेन्दौ वपुरम्बुनिधेरिव ॥ ४,५.१७ ॥

स्पष्टम् ॥ ४,५.१७ ॥

 

 

 

सर्गान्तश्लोकेन सुरवधूत्वमस्य कथयति

मनसिजेषुशताहतमाशये

स परिरुध्य मनस्तदनूशनाः ।

विगलितेतरवृत्तितयात्मना

सुरवधूमय एव बभूव सः ॥ ४,५.१८ ॥

आशये हृद्देशे । परिरुध्य अन्याभ्यः वृत्तिभ्यः बद्ध्वा । इति शिवम् ॥ ४,५.१८ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे पञ्चमः सर्गः ॥५॥

Page is sourced from

sa.wikisource.org मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः ५