मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः ३

From HinduismPedia
Jump to navigation Jump to search

Template:मोक्षोपायटीका/स्थितिप्रकरणम्



श्रीरामः पृच्छति

महाप्रलयसर्गादौ प्रथमोऽसौ प्रजापतिः ।

स्मृत्यात्मा जायते सर्गे स्मृत्यात्मैव ततो जगत् ॥ ४,३.१ ॥

प्रथमः प्रजापतिः शुद्धमनोरूपः ब्रह्मा । स्मृत्यात्म स्मृतिरूपम् ॥ ४,३.१ ॥

 

 

 

श्रीवसिष्ठः उत्तरं कथयति

महाप्रलयसर्गादावेवमेतद्रघूद्वह ।

स्मृत्यात्मैव भवत्यादौ प्रथमोऽसौ प्रजापतिः ॥ ४,३.२ ॥

एवमेततेतत्सत्यमेवेत्यर्थः ॥ ४,३.२ ॥

 

 

 

तत्सङ्कल्पात्म च जगत्स्मृत्यात्मैवमिदं ततः ।

इति सङ्कल्पनगरं स्थितं पूर्वप्रजापतेः ॥ ४,३.३ ॥

तत्सङ्कल्पात्म स्मृतिस्वरूपप्रजापतिस्वरूपम् ॥ ४,३.३ ॥

 

 

 

इति स्थितेऽपि सा राम तस्य पूर्वप्रजापतेः ।

स्थितिर्न सम्भवत्येव नभसीव महाद्रुमः ॥ ४,३.४ ॥

सा स्मृतिरूपा ॥ ४,३.४ ॥

 

 

 

श्रीरामः पृच्छति

न सम्भवति किं ब्रह्मन् सर्गादौ प्राक्तनी स्मृतिः ।

महाप्रलयसम्मोहैर्नश्यति प्राक्स्मृतिः कथम् ॥ ४,३.५ ॥

महाप्रलयसम्मोहैः महाप्रलयकृताभिः मूर्च्छाभिः ॥ ४,३.५ ॥

 

 

 

श्रीवसिष्ठ उत्तरं कथयति

प्राङ्महाप्रलये प्राज्ञ पूर्वे ब्रह्मादयः पुरा ।

किल निर्वाणमायातास्तेऽवश्यं ब्रह्मतां गताः ॥ ४,३.६ ॥

निर्वाणं मुक्तिम् ॥ ४,३.६ ॥

 

 

 

प्राक्तन्याः कः स्मृतेस्स्मर्ता तस्मात्कथय सुव्रत ।

स्मृतिर्निर्मूलतां याता स्मर्तुर्मुक्ततया यतः ॥ ४,३.७ ॥

स्पष्टम् ॥ ४,३.७ ॥

 

 

 

अतः स्मर्तुरभावे सा स्मृतिः कोदेतु किं कथम् ।

अवश्यं हि महाकल्पे सर्वे मोक्षैकभागिनः ॥ ४,३.८ ॥

स्पष्टम् ॥ ४,३.८ ॥

 

 

 

नानुभूतेऽनुभूते च स्वतश्चिद्व्योम्नि या स्मृतिः ।

सा जगच्छ्रीरिति प्रौढा दृश्याभावे हि चित्प्रभा ॥ ४,३.९ ॥

स्वतः न तु प्रजापतिरूपग्रहात् । नानुभूते पूर्वाननुभूते विषये । अनुभूते पूर्वमनुभूते विषये । चिद्व्योम्नि या स्मृतिः भवति । सा जगच्छ्रीरिति प्रौढा भवति । न प्रजापतिस्मृतिरिति भावः । कुत एतदित्य् । अत्राह दृश्येति । हि यस्मात् । दृश्याभावे स्मृतिरूपदृश्याभावे । चित्प्रभा एव भवति । न प्रजापतिप्रभा ॥ ४,३.९ ॥

 

 

 

अथवालमनया स्मृतिकल्पनया । यतः चित्प्रभैव जगदस्तीत्यभिप्रायेनाह

भाति संवित्प्रभैवाच्छमनाद्यन्तावभासिनी ।

यत्तदेतज्जगदिति स्वयम्भूरिति च स्थितम् ॥ ४,३.१० ॥

अनाद्यन्तावभासिनी सदा भातत्वेनाद्यन्तावभासरहिता । संवित्प्रभा एव अच्छं यत्भाति ततेतत्जगदिति स्थितं भवति । स्वयम्भूरिति च स्थितं भवति । अतः स्मृतेः स्वयम्भुवश्च न कापि सत्तास्तीति भावः ॥ ४,३.१० ॥

 

 

 

अनादिकालसंसिद्धं यद्भानं ब्रह्मणो निजम् ।

स आतिवाहिको देहो विराजो जगदाकृतिः ॥ ४,३.११ ॥

अनादिकालसंसिद्धं सततसिद्धम् । ब्रह्मणः चिन्मात्रतत्त्वस्य । यत्निजं स्वसम्बन्धि । भानं भवति । सः विराजः विराड्रूपस्य प्रजापतेः । आतिवाहिकः देहः भवति । कथम्भूतः । जगदाकृतिः समस्तजगत्स्वरूपः ॥ ४,३.११ ॥

 

 

 

परमाणाविदं भाति जगत्सभुवनत्रयम् ।

देशकालक्रियाद्रव्यदिनरात्रिक्रमान्वितम् ॥ ४,३.१२ ॥

द्रव्यं क्रियाविषयः पदार्थः । परमाण्वन्तस्त्रिभुवनाभानमिन्द्रस्य निर्वाणप्रकरणे वक्ष्यति ॥ ४,३.१२ ॥

 

 

 

परमाणुं प्रति ततस्तस्यान्तस्तादृगेव च ।

भाति भास्वरिताकारं तादृग्गिरिकुलावृतम् ॥ ४,३.१३ ॥

ततः ततो हेतोः । तस्य परमाण्वन्तर्वर्तिनः त्रिभुवनस्य । प्रति परमाणुमन्तः प्रतिपरमाणुमध्ये । तादृकेव न त्वन्यरूपम् । भास्वरिताकारं तादृग्गिरिकुलावृतं तादृशपर्वतसमूहाकुलम् । अर्थात्त्रिभुवनं भाति ॥ ४,३.१३ ॥

 

 

 

तत्रापि तादृगाकारमेवं प्रत्यणुमाततम् ।

दृश्यमाभाति भारूपमेतदङ्ग न वास्तवम् ॥ ४,३.१४ ॥

तत्रापि प्रत्यणुवर्तिनि त्रिभुवनेऽपि । भारूपं ज्ञानस्वरूपम् । फलितमाह एतदिति । हे अङ्ग । अतः एतत्त्रिभुवनम् । वास्तवं परमार्थसत् । न भवति । स्वप्नवद्भारूपत्वात् ॥ ४,३.१४ ॥

 

 

 

इत्यस्त्यन्तो न सद्दृष्टेरसद्दृष्टेश्च वा क्वचित् ।

अस्यास्त्वभ्युदितं बुद्धमबुद्धं प्रति वानघ ॥ ४,३.१५ ॥

इति अनेन प्रकारेण । सद्दृष्टेः चिन्मात्रदृष्टेः । असद्दृष्टेः चेत्यदृष्टेः वा । अन्तोऽवसानम् । नास्ति । अस्याः सद्दृष्टेरसद्दृष्टेश्च । अभ्युदितमभ्युदयः । प्रादुर्भाव इति यावत् । बुद्धं प्रति अबुद्धं प्रति वा भवति । बुद्धं प्रति सद्दृष्टेः अभ्युदयः असद्दृष्टेः अबुद्धं प्रतीति क्रमो ज्ञेयः ॥ ४,३.१५ ॥

 

 

 

ननु एका एव भासमाना जगदाख्या दृष्टिरस्ति । तत्कथमुक्तं बुद्धं प्रति सद्दृष्टेरन्तो नास्ति असद्दृष्टेरबुद्धं प्रतीत्य् । आह

बुद्धं प्रतीदं ब्रह्मैव केवलं शान्तमव्ययम् ।

अबुद्धं प्रति तु द्वैतं भासुरं भुवनान्वितम् ॥ ४,३.१६ ॥

इदमेव जगत् । बुद्धस्य सद्दृष्ट्या भाति । अबुद्धस्यासद्दृष्ट्या । यथा एकः रज्जुः बुद्धं प्रति रज्जुतया भाति । अबुद्धं प्रति सर्पतयेति भावः ॥ ४,३.१६ ॥

 

 

 

यथेदं भासुरं भाति जगदण्डकजृम्भितम् ।

तथा कोटिसहस्राणि भान्त्यन्यान्यप्यणावणौ ॥ ४,३.१७ ॥

स्पष्टम् ॥ ४,३.१७ ॥

 

 

 

यथा स्तम्भे पुत्रिकान्तस्तस्याश्चाङ्गेषु पुत्रिका ।

तस्याश्च पुत्रिकास्त्यङ्गे तथा त्रैलोक्यपुत्रिका ॥ ४,३.१८ ॥

त्रैलोक्याख्या पुत्रिका त्रैलोक्यपुत्रिका ॥ ४,३.१८ ॥

 

 

 

न भिन्ना न च सङ्ख्येया यथाद्रौ परमाणवः ।

तथा ब्रह्मबृहन्मेरौ त्रैलोक्यपरमाणवः ॥ ४,३.१९ ॥

स्पष्टम् ॥ ४,३.१९ ॥

 

 

 

सूर्यौघांशुष्वसङ्ख्यातुं शक्यन्ते लघवोऽणवः ।

नानाद्यन्ताश्चिदादित्ये त्रैलोक्यपरमाणवः ॥ ४,३.२० ॥

स्पष्टम् ॥ ४,३.२० ॥

 

 

 

यथाणवो वहन्त्यर्कदीप्तिष्वप्सु रजःसु च ।

तथा वहन्ते चिद्व्योम्नि त्रैलोक्यपरमाणवः ॥ ४,३.२१ ॥

स्पष्टम् ॥ ४,३.२१ ॥

 

 

 

शून्यानुभवमात्रात्म भूताकाशमिदं यथा ।

सर्गानुभवमात्रात्म चिदाकाशमिदं तथा ॥ ४,३.२२ ॥

शून्यस्य यः अनुभवः । तन्मात्रमात्मा स्वरूपं यस्य । तत् ॥ ४,३.२२ ॥

 

 

 

सर्गस्तु सर्गशब्दार्थतया बुद्धो नयत्यधः ।

स ब्रह्मशब्दार्थतया बुद्धः श्रेयो भवत्यलम् ॥ ४,३.२३ ॥

श्रेयः मोक्षरूपम् ॥ ४,३.२३ ॥

 

 

 

सर्गान्तश्लोकेनाप्येतदेव कथयति

विज्ञानात्मा शासिता विश्वबीजम्

ब्रह्मैवाद्यं स्वं चिदाकाशमात्रम् ।

तस्माज्जातं यत्तदेवेति वेद्यं

विद्धि स्वान्तर्बोधसम्बोधमात्रम् ॥ ४,३.२४ ॥

विज्ञानात्मा ज्ञानैकस्वरूपः । शासिता प्रेरकः । स्वं सर्वेषामात्मत्वेन स्थितम् । चिदाकाशमात्रमाद्यं ब्रह्मैव विश्वबीजं विश्वस्य बीजमिव बीजम् । न तु साक्षाद्बीजम् । तस्य समनन्तरमेव निराकृतत्वात् । भवति । तस्मात्तादृशात्ब्रह्मणः । यत्जातं भवति । तत्तदेव भवति । इति अतो हेतोः । त्वं वेद्यं विदिक्रियाविषयं भावजातम् । स्वान्तः स्वमनसि । बोधस्य यः सम्बोधः स्वपरामर्शः । तन्मात्रं विद्धि जानीहि । लिङ्गसङ्करोऽलिङ्गत्वद्योतनार्थः । इति शिवम् ॥ ४,३.२४ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे तृतीयः सर्गः ॥३॥

Page is sourced from

sa.wikisource.org मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः ३